Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai

Previous | Next

Page 757
________________ [ है० ४.३.९२.] नवमः सर्गः । ७४९ शृण्वत्यवात्सीदिति राज्ञि चिन्तासौ मे दिदीयानधृतिदिदीये । नाल्यः पपुस्त्वामवितासि कर्णः कष्टे हहाँ तस्थिथ चेत्यथावत् ॥१६७॥ १६७. शृण्वति पूर्वोक्तमाकर्णयति राज्ञि कर्ण इत्येवंविधा चिन्तावात्सीदुवास । चिन्तामेवाह । असौ मयणला दिदीयाना मद्वियोगेन क्षीणा धृतिः स्वास्थ्यं यस्याः सा तथा सती मे मदर्थं दिदीये क्षीणा । अथैवं चिन्तानन्तरं मयणल्लामाह्वच्चावदच्च । कथमित्याह । हे मयणल्ले । हहा खेदे । त्वं कष्टे दुःखे तस्थिथ स्थितवती । परमाल्य: सख्यस्त्वां न पपुर्न ररक्षुरधुनाहं कर्णस्त्वामवितास्मि रक्षिष्यामीति । इन्द्रवनाछन्दः ।। पाणिं ते व्यतिले नतभ्र गुरवो यत्त्वामदुर्मे ततो ग्लेयाद्भूपजनस्त्वदिच्छुरखिलो ग्लायाच दिव्यो जनः । धेयास्त्वं महिषीपदं मैम रतिं देया विहेयास्त्रपा निष्पेया मधुपर्कमित्यभिदधत्तां पर्यणैषीनृपः ॥ १६८ ॥ १६८. नृपः कर्णस्तां पर्यणैषीत् । कीहक्सन् । अभिधद्वदन् । किमित्याह । हे नतभ्र यद्यस्मात्ते गुरवः पितरस्त्वां मे मह्यमदुस्ततस्तस्मादहं ते पाणिं व्यतिले विनिमयेन गृह्णामि । ततस्त्वत्पाणिग्रहणानन्तरं त्वदिच्छुरखिलो भूपजनो ग्लेयात्क्षीणहर्षो भूयात्तथा त्वदिच्छुदिव्यो जनो देवोघो ग्लायाच्च । तथा त्वं मधुर्पक दना संयुक्तं मधु निष्पेयाः । विवाहकाले हि वधूवरौ मधुपर्क पिबत इत्याचारः । मत्पत्नी भूया इत्यर्थः । तथा महिषीपदं पट्टराज्ञीपदवीं धेया धार्या १ ए पुत्वाम. २ ए हा वस्थि. ३ ए मग र. ४ ए देद्या वि. ५ ए निष्फेया. बी निप्पेया. १ए हृत् । अवदस्व क. २ ए °टे त. ३ ए रक्षताह. ४ ए गुरुवः. ५ ए आणि व्य. ६ सी डी विनम. ७ ए तस्त्व'. ८ई °पर्क द. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828