Book Title: Dvyasrayakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
६०६
ब्याश्रयमहाकाव्ये [भीमराजः] ज्ञीप्सतीप्सति सतः स्म स ईर्मुः स्माभिधीप्सति च धिप्सति शत्रौ । मोक्षति स विमुमुक्षति चोर्नामुमुक्षदनिमित्सति शस्त्रम् ॥३५॥
३५. स भीमः सतः साधूनीसुरन्तर्भूतणिगर्थतया वर्धयितुमिच्छुः सन्नीप्सति स्म प्राप्तुमिच्छति स्म । तथा ज्ञीप्सति स्म ज्ञपयितुं तोयितुमियेष । तथा धिप्सति दम्भितुमिच्छति शत्रौ विषयोभिधीप्सति स्म च । तथा क्षत्रियोत्तमत्वेन शस्त्रं विमुमुक्षति मोक्तुमिच्छति शस्त्रमोक्षमिच्छतीत्यर्थः । शत्रौ विषये शस्त्रमुच्चैरतिशयेन मोक्षति स्म च । तथा शस्त्रमनिमित्सति कातरत्वेन निमातुं प्रक्षेप्नुमनिच्छति शत्रौ शस्त्रं नामुमुक्षन्न प्रक्षेप्नुमैच्छत् ॥ न ह्यमित्सदपशस्त्रममित्सत्क्ष्मां बलैर्जलधिमप्यमिमासत् । दित्सया सँ च स धित्सति लक्ष्मी दित्सति स खलु नार्थिन आशाम्
__३६. स भीमोपशस्त्रं शस्त्ररहितं न हि नैवामित्सद्धन्तुमैच्छत् । तथा बलैः सैन्यैः कृत्वा क्ष्माममित्सजलधिमप्यमिमासद् मातुमैच्छत् । एतेन सार्वभौमत्वोक्तिः । तथा दित्सया दानेच्छया लक्ष्मी धित्सति स्म वर्धयितुमियेष । अत एव खलु निश्चयेनार्थिन आशां मनोरथं न दित्सति स्म न खण्डयितुमैच्छत् ॥
१ सी डी ईत्सुः स्मा. २ ए नाममुक्ष. ३ बी मिच्छति. ४ ए मिच्छद. ५ ए दिच्छया. ६ डी स्म स. ७ ए लक्ष्मी दिच्छति. ८ डी स्म न ख.
१ डी र्थस्तया. २ बी मित्सुः स. ३ ए पमि. ४ ई °न वि०. ५ ए ई ये उचै. ६ ए बी सी मिच्छति. ७ ए सतुमा. ८ सी डी थिनामाशां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org