SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [है० १.४.५२.] प्रथमः सर्गः । ११९ ५ सह्य ६ व(म?)लय ७ हिमवद्भ्यो ८ दिभ्यश्च कुलाचलेभ्यश्च सकाशात्सम्यक्पालनया भूभारस्यात्मनि निक्षेपाङ्कुरं भूभारं नयत्यात्मानं प्रापयति यस्तस्मिन्धूर्नियां सकलभूभारघर इत्यर्थः । अष्टभिर्दिग्गजैः कुलाचलैश्च भूयित इति कविरूढः । अथ च यो धूर्नीः कार्यप्राग्भार करणक्षमः स्यात्तस्मिन्सर्वोप्यनुकूलः स्यादिति ॥ नियाम् । इत्यत्र "निय आम्” [ ५१ ] इत्याम् ॥ अष्टाभ्यः । अष्टभ्यः । अत्यष्टाः । अत्यष्टानः । इत्यत्र "वाष्टन आः स्यादौ " [ ४२ ] इति वा आकारः ॥ ४ अष्टावष्ट तथात्यष्टावस्य भावान्विजानतः । कीर्त्यात्यष्टौ कृताः क्ष्मांशा दिशोष्टाष्टौ नगाः सिताः।। १९६॥ १९६. अस्य राज्ञः कीर्त्या सिताः श्वेताः कृताः । क इत्याह । अष्टावतिक्रान्ता अत्यष्टौ नवेन्द्रद्वीप १ कशेरुमत् २ ताम्रपर्ण ३ गभस्ति मत् ४ नागद्वीप ५ सौम्य ६ गन्धर्व ७ वरुण ८ कुर्मांरीद्वीपाख्याः ९क्ष्मांशाः पृथ्वीखण्डानि । तथाष्टावैन्यानेयीयाम्यानैरृतीवारुणीवायव्याकौबेर्यैशान्यो दिशः। तथाष्टौ नगाः कुलाचलाः । यतोष्टौ तथाष्ट तथात्यष्टौ नव । सर्वसंख्या पञ्चविंशतिं भावांस्तत्त्वानि विजानतो वेदितुः । सांख्यमते हि पञ्चविंशतिः पदार्था वर्ण्यन्ते । तथाहि सत्वरजस्तमसां साम्यावस्था प्रकृतिः १ तदुद्भूतं महत्तत्त्वं २ तस्मादहंकारः ३ तस्माच्च स्पर्शन ४ रसन ५ घ्राण ६ चक्षुः ७ श्रोत्र ८ नामानि पश्च बुद्धीन्द्रियाणि । पायु ९ उपस्थ १० वचः ११ पाणि १२ पादा१३ ख्यानि पञ्च कर्मेन्द्रियाणि । तथा मनः १४ । तथा रूप १५ रस ง ९ O १ एफ् श्च स २ ए °ति रू. ३ एफ् अत्यष्टानः । इ. ४ ए सी डी °ति आ. ५ सीडी प १ सकेरु ८ सी डी एफ शति भा. ६ बी मारद्वी ९ सी डी एफ तिप Jain Education International ७ए एफू नैऋती. १० सी डी णि म. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy