SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १२० व्याश्रयमहाकाव्ये [मूलराजः] १६ गन्ध १७ स्पर्श १८ शब्द १९ संज्ञानि पञ्च तनुमात्राणि । इति पोडशको गणः। तनुमात्रोद्भूतानि तेजो २० जल २१ पृथ्वी २२ नभो२३ वायु २४ संज्ञानि पञ्चभूतानि । अकर्ता विगुणो भोक्ता चात्मा २५ चेति । सांख्यमते पञ्चविंशतितत्त्वव्यतिरिक्तमन्यजगन्नास्ति । ततश्च सकलजगत्स्वरूपज्ञस्येत्यर्थः । एवंविधस्य च कीर्तिः सर्वत्रापि प्रसरति ।। अष्टौ नगाः । अष्टौ भावान् । इत्यत्र “अष्ट और्जसूशसोः' [ ५३ ] इत्यौः ॥ कृतात्वस्य निर्देशादिह न स्यात् । अष्ट दिशः । अष्ट भावान् । अतत्संबन्धिनोरपीच्छन्त्येके । अत्यष्टौ आमांशाः । अत्यष्टौ भावान् ॥ त्रातुं पडष्ट भुवनान्युचिते ततीह स्थामान्यधुर्यति हराः किल पञ्च पेट् च । तूणे भृशं जयकृते दधतोस्य चास्तां मन्ये हयद्विपबले परिवारमात्रम् ॥ १९७ ।। १९७. किलेति संभावनायाम् । पञ्च षट् च हरा एकादश रुद्रा यति यावन्ति स्थामान्यभवंस्तति तावन्ति स्थामानि बलानीह राशि न्यधुः । स्वकीयानि सर्वाण्यपि बलान्यस्मिंस्थापितवन्त इत्यर्थः । यतः पडष्ट भुवनानि भूर्लोक १ मुँवर्लोक २ स्वर्लोक ३ महर्लोक ४ जनलोक५ तपोलोक ६ सत्यलोका ७ ख्यानि सप्त सप्तभिर्वायुस्कन्धैर्मिलितानि चतुर्दश जगन्ति त्रातुं रक्षितुमुचिते । रक्षितुं क्षमे हि सर्वोपि स्ववस्तु निदधाति । अत एव तथाहं मन्येस्य राज्ञो जयकृते विजयाथं तूणे तूणावुपलक्षणत्वाद्धनुश्च । भृशमत्यर्थं दधतः सतो हयद्विपबले अश्वगज___ १ सी षड्डा. १ बी एफ न्यज्जग'. २ एफ टौ नागाः. ३ एफ् औरित्यादिना औः. ४ बी च ए'. ५ ए° न्ति ब. ६ ए बी भुवोलोक. एफ भुविलोक. ७ डी कज. ८ बी क ४ शान. ९ डी क ५ पाताललो'. १० बीडीएफ तूणीरौ उप.सी. तूणीर उप. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy