________________
[है० १.४.५८.] प्रथमः सर्गः।
१२१ सैन्ये । उपलक्षणत्वाद्रथपत्तिबले अपि । परिवारमानं परिच्छद एवास्तामभूतां स्वबलेनैवास्य जगच्छासितुं क्षमत्वात् ।। __ यति अभवन् । तति न्यधुः । षट् पञ्च हराः। षडष्ट त्रातुम् । इत्यत्र "डतिष्ण" [५४ ] इत्यादिना जस्-शसोलुक् ॥
स्थामानि । भुवनानि । इत्यत्र “नपुंसकस्य शिः" [५५ ] इति जस्-शसोः शिः॥ नपुंसकस्येति किम् । हराः । बले आस्ताम् । तूणे दधतः । इत्यत्र "औरीः" [५६] इति-ईः ॥
परिवारमात्रम् । भृशं दधतः । इत्यत्र “अतः स्यमोम्" [५७ ] इति स्यमोरम् ॥ वसन्ततिलका छन्दः।सर्गान्ते छन्दोन्तरं क्रियत इति हि कविसमयः॥ अन्यदलं किल महोन्यतरद्रवीन्द्वोधैर्य च नेतरदतीतरमस्य सर्वम् । सैन्यं द्विषां कतमदेष न संजहार हृष्टं जगत्कतरदेकतरं न चक्रे १९८
१९८. अस्य राज्ञो बलं पराक्रमोन्यदपूर्व लोकोत्तरमित्यर्थः । तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोर्मध्येन्यतरदेकतरं द्विषां संतापकत्वाद्रवितेजो वा सज्जनानामाह्लादकत्वादिन्दुतेजोवेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरन्नान्यादृशमापद्यप्यविचलमित्यर्थः । किं 'बहुनास्य सर्वमौदार्यगाम्भीर्याद्यतीतरमितरानन्यानतिक्रान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा द्विषां सैन्यं कतमन्न संजहार । तथा कतरदेकतरं जगद्धृष्टं न चक्रे किं तु सर्वमपि ।
अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । इत्यत्र “पञ्चत" [५८] इत्यादिना स्यमोदः ॥ अनेकतरस्येति किम् । एकतरम् ॥ अन्यादेरिति किम् । सर्वम् ॥ अन्यादिसंबन्धिनोः स्यमोर्ग्रहणादिह न स्यात् । अतीतरम् ॥
१ एफ °ति क. २ बीदृशामा . ३ एफ चतोन्या इ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org