________________
१२२
ध्याश्रयमहाकाव्ये
[मूलराजः]
महः । जगत् । इत्यत्र "अनतो लुप्" [ ५९] इति स्यमोलुप् । अनत इति किम् । धैर्यम् । सैन्यम् ॥
सजरसमजरः परित्यजद्विजरः सज्जरसं च संगरे। स्वादो क नु वारि तिष्ठसीत्याक्रन्दत्तृषयास्य शात्रवम्॥१९९॥
१९९. हे स्वादो मिष्ट वारि जल । क न्विति प्रश्ने । कस्मिन् स्थाने त्वं तिष्ठसि । आत्मानं दर्शयेत्यर्थः । इत्येवंप्रकारेणास्य राज्ञः शात्रवं शत्रुसमूहस्तृपया हेतुनाकन्द व्यलपत् । यतः किंभूतम् । संगरे रणेजरो जरारहितं तरुणं शात्रवं कर्तृ सजरसं जरान्वितं वृद्धं शात्रवं कर्म परित्यजत् । तथा सज्जरसं विद्यमानजरं वृद्धं शात्रवं कर्तृ विजरस्तरुणं शात्रवं कर्म परित्यजत् । अन्योन्याप्रतीक्षया भयातिरेकात्पलायमानमित्यर्थः । पलायमानस्य हि गाढायासेन तृषातिरेकः स्यात् ॥
अजरः । संजरसम् । विजरः । संजरसम् । इत्यन्न "जरसो वा” [६० ] इति वा स्यमोलक् ॥
स्वादो । इत्यत्र "नामिनो लुग्वा" [ ६१ ] इति लुग्वा ॥ पक्षे लुबेव । हे वारि ॥ वैतालीयं छन्दः ॥
सक्नायुः पथि खेत्तृणा रिपुनृपा अक्ष्णास्रमोकान्तरं दनोस्भश्च न जानते स्म मधुनोम्बूनां च पर्याकुलाः । अश्वीयानि सुवल्झ्यवल्गिसुमहास्यत्यूर्यर्जि क्षणातेषां दन्तिकुलानि चालमभवनस्मिन् रणारम्भिणि ॥२०॥ १ ए क्ष्णाश्रमो. एफ क्ष्णाश्रुमो. १ सी डी लुक् ।. २ ए °न् त्वं. ३ सी डी °त् विल. ४ सी डी त्। स. ५ एफ सजर', ६ एफ् सज्जर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org