________________
[है० १.४.६७.]
प्रथमः सर्गः।
१२३
2. २००. अस्मिन्नृपे रणारम्भिणि सति रिपुनृपाः सक्श्नोरुणा हेतुनायुर्जग्मुः। नेशुरित्यर्थः । कीदृशेन । पथि मार्गे खेत्तृणा खिद्यमानेन श्रावितेन । एतेनैषां पूर्व कदाचिदपि न रणे भङ्ग इति सूचितम् । यदि पूर्वमपि रणेमी भग्नाः स्युस्तदाभ्यासेन श्रमजयादेषां सक्थि नो खिद्येत । तथा दध्नोस्भश्च मधुनो माक्षिकस्याम्बूनां चान्तरं विशेषं न जानते स्म । यतोभूतपूर्वपराभवोत्पत्त्यास्रमोका बाष्पमोचनशीलेनाक्ष्णा दृष्ट्योपलक्षिता रोद॑नाजलाविलाक्षा इत्यर्थः । तथा पर्याकुला भयेनोद्धान्ताः । ये पूर्व रणे कदापि न भग्ना न रुदिता न च भीतास्तेप्यस्मिन् रणारम्भिणि सति भग्ना रुदिता भीताश्चेत्यर्थः । ततश्च तेषां रिपुनृपाणां सुमहांसि शोभनतेजस्कान्यत एव सुशिक्षितत्वाञ्च सुष्टु वलगन्ति गतिविशेषान् कुर्वन्ति क्विपि सुवल्जयश्वीयान्यश्वसमूहाः प्रहारैर्जर्जराङ्गतयावलि गतिविशेषरहितानि क्षणाच्छीघ्रमलमत्यर्थमभवन् । तथा सुमहांसि दन्तिकुलानि गजौघा अतिशयेनोर्जयन्ति क्विपि अत्युर्जि । अतिबलिष्ठान्यनूर्जि बलरहितान्यभवन् ॥
अस्रमोनाक्ष्णा । खेत्तृणा । सक्ला । इत्यत्र "वान्यत" [२] इत्यादिना वा पुंस्त्वम् ॥
दनः । अस्भः । सक्ला । अक्ष्णा । इत्यत्र “दध्यस्थि' [६३] इत्यादिनान्त. स्यान् ॥
मधुनः । इत्यत्र "अनामस्वरे नोन्तः" [६४] इति नोन्तः ॥ अनामिति किम् । अम्बूनाम् ॥
अश्वीयानि । इत्यत्र "स्वराच्छौ” [६५] इति नोन्तः ॥ सुमहांसि । इत्यत्र "धुटां प्रा" [६६] इति नोन्तः ॥ अत्यूर्जि अनूर्जि । सुवल्ङ्गि अवलिग। इत्यत्र “ो वा[६७] इति वा नोन्तः॥ शार्दूलविक्रीडित छन्दः॥ - १ सी डी माश्रिते. २ एफ त्याश्रुमो. ३ एफ °दनजला. ४ सी अनुमो. एफ अश्रुमो . ५ ए ना पुं. ६ सी डी क् नो. ७ डी एफ ति नो'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org