SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ १२४ ट्याश्रयमहाकाव्ये मूलराजः] प्राङ् वीरेषु भवञ्जगन्ति चकृवान् वश्यानि दोष्मानसौ युङ् बुद्ध्या बलयुग् दृढांससुभगोनड्डानिवैकः पुमान् । गौद्यौर्गामवतामुनानयमयः पन्था ऋभुक्षाः सुखी गा विमानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृतः ॥ २०१ ॥ २०१. असौ राजा जगन्त्यू/धोमर्त्यलोकान् वश्यानि स्वायत्तानि चकृवांश्चक्रे । कीदृशः । अनवानिव वृषभ इव दृढौ बलिष्ठौ स्थूलौ च यावसौ स्कन्धौ ताभ्यां सुभगः । तथा शत्रुवधादिस्वकार्यकरणालंकर्मीणत्वात्प्रशस्यौ दोषौ भुजावस्य स्त: प्रशंसायां मतौ दोष्मान । अतएव वीरेषु शूरेषु मध्ये प्राङ् प्रथमो मुख्यः । एतैर्विशेषणैरुत्साहशक्त्यतिशय उक्तः । तथा बुद्ध्या यथौचित्योपायादिप्रयोगविषयया मत्या युङ् युक्त: । एतेन मन्त्रशक्तिरुक्ता । तथा बलयुक् सैन्येन युक्तः । एतेन प्रभुत्वशक्तिरुक्ता। अत एवैकोसाधारणः पुमान् भवन्संपद्यमानः । यथा वश्यानि चवांस्तथाह । गौरित्यादि । अमुना राज्ञा गां पृथ्वीमवतान्यायिभ्यो रेक्षता सता पन्था मार्गो नयः प्रकृतोस्मिन्नयमयो न्यायचुरो न्यायप्रधानो वा कृतो न्यायमार्गः प्रवर्तित इत्यर्थः । अत एवामुना गौ: पृथ्वी द्यौरिव स्वर्गतुल्या कृता। इवो ज्ञेयः । एतेन मर्त्यलोकस्य वश्यत्वमुक्तम् । तथा गा धेनूविप्रांश्चावितुं दैत्येभ्यो रक्षितुं विपक्षजलधौ विपक्षशब्देन सामान्यतः शत्रुवाचकेनापि गा विप्रानवितुमिति विशेषोक्तेर्दैत्या उच्यन्ते । त एव हि गा विप्रांश्च नन्ति । त एव दुर्विगाहत्वाजलधि: समुद्रः । तत्र खड्गः कृपाणो मन्था मन्थानकतुल्यः कृतः । विपक्षाः खङ्गेन मथिता इत्यर्थः । १ एफ ॥२०१॥ इति श्रीहेमचन्द्राचार्यविरचिते घ्याश्रयमहाकाव्येणहिलपत्तनश्रीमूलराजयोर्वणनो नाम प्रथमः सर्गः समाप्त: ।। अं. १ डी स्य स प्र. २ बी एफ रक्षिता. ३ एफ तोस्ति । नय. ४ ए सी डी प्रधा. ५ ए इवेशे'. ६ एफन्ते । अत एव च हि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy