SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२५ [है० १.४.७८.] प्रथमः सर्गः । एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना ऋभुक्षेन्द्रः सुखी कृतः । एतेनोव॑लोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमग्रे वर्णयिष्यत इति सूचितम् ।। प्राङ् । इत्यत्र "अचः" [६९] इति नोन्तः ॥ ऋदित् । भवन् । उदित् । चकृवान् । दोष्मान् । इत्यत्र "ऋदुदितः” [७० ] इति नोन्तः॥ युङ् । इत्यत्र “युजोसमासे" [१] इति नोन्तः ॥ असमास इति किम् । बलयुग्॥ अनड्डान् । इत्यत्र “अनदुहः सौ” [७२] इति नोन्तः ॥ पुमान् । इत्यत्र “पुंसोः पुमन्स्" [७३] इति पुमन्सादेशः ॥ गौः। द्यौः । इत्यत्र "ओत औ" [७४] इति-औः॥ गाम् । गाः । इत्यत्र “आ अम्शसोता" [७५] इति-आः ॥ पन्थाः । मन्थाः । ऋभुक्षाः । इत्यत्र “पथिन्मथिन्" [७६] इत्यादिनान्तस्य आः । “ए:" [७७] इत्यनेनेकारस्याप्याः । “थोन्थ्” [७८] इत्यनेन थस्य न्थादेशश्च ॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनव्याश्रयवृत्तौ प्रथमः सर्गः समर्थितः ॥ १ ए बी सी एफ °न्तः । भ. २ सी डी सो पु. ३ सी डी °त औः ।।. ४ एसोना इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy