SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ याश्रयमहाकाव्ये द्वितीयः सर्गः। प्रथमसर्गे गोविप्ररक्षाविपक्षमथनमुख्यमस्यावदातम वर्णयिष्यंत इति यत्सूचित्तं तच्छंभूपदेशेन प्रवृत्तमिति पूर्व तमेवाह । महीऋभुक्षोस्य मथोरिदनां नीतेः पथा मां सुपथीं विधातुः॥ रिरक्षिषोर्चा सऋभुक्षिकां च स्वप्ने कदापीदमुवाच शंभुः ॥१॥ १. कदापि शंभुः सोमनाथोस्य राज्ञः स्वप्न इदं वक्ष्यमाणं दैत्यवधेन देवानां सुखीकरणरूपं कार्यमुवाच । यतो महीऋभुक्षः परमैश्वयेण मह्यामिन्द्रतुल्यस्य । तथारय एव स्थूलत्वादधीनि तेषां मथो मन्थानकस्य । शत्रून् मन्नत इत्यर्थः । तथा क्ष्मां पृथ्वी नीते: पथा न्यायमार्गेण कृत्वा शोभनाः पन्थानो मार्गा यस्यां "स्त्रियां नृतः" [२. ४. १] इत्यादिना ङीः । सुभ्वादित्वात्कजभावः । [ ७.३.१८१] तां सुपथीं विधातुः सन्न्यायान्वितां पृथ्वी कुर्वत इत्यर्थः । तथा सह ऋभुक्षा शक्रेण वर्तते या पूर्ववद् ड्या कजभावे च सऋभुक्षी दैत्यभीतिनिष्प्रतापत्वात् । कुत्सिताल्पाज्ञाता वा सऋभुक्षी कपि “ड्यादीदूतः के" [२. ४. १०३] इति हस्वे सऋभुक्षिका । तां द्यां स्वर्ग रिरक्षिषोश्च पालयितुमिच्छोश्च शंभूपदेश्यं कार्य स्वयमेव चिकीर्षत इत्यर्थः । एवंविधगुणोपेतश्चेदशोपदेशाहः स्यात् ।। १ सी इतःप्रभृति ८ श्लोका न सन्ति. १ एफ प्य इ. २ बी एफ ना प. ३ ए तहा स. ४ बी एफ निःप्रता. ५ डी इत्यनेन ह. ६ एफू देशका. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy