SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [ है ० १.४.७९. ] द्वितीयः सर्गः । १२७ सुपथीम् | पथा । मथः । सऋभुक्षिकाम् । ऋभुक्षः । इत्यत्र "इन् ङीस्वरे लुक्” [७९] इति-इनो लुक् । सर्गेस्मिन्नुपजातिच्छन्दः ॥ अथ वृत्तद्वयेन शंभुः सामान्येनोपदेशमाह । बुद्ध्योशनन्नत्युशन प्रभाभिर्देवेषु भक्त्यानुशनलुक्य | धुर्यत्यनड्डून् प्रियचत्वरेभिर्वर्णैरुपायैः श्रुतिभिः पुमर्थैः ॥ २॥ धुर्योस्यनड्रानिव मेतिचत्वा हरेर्भुजस्त्वं तव के सखायः । चत्वारि पातस्तव दिङ्मुखानि भूयाननेहा स्मर देवकार्यम् ॥३॥ २, ३. हे चुलुक्य चुलुकवंशोद्भव बुद्ध्या कृत्वोशनन् दैत्यगुरुतुल्य । तथा प्रभाभिः कान्तिभिः कृत्वात्युशन शुक्रमतिक्रान्त । तथा देवेषु विषये भक्त्यान्तरप्रीत्या कृत्वानुशनादैत्यगुरो देवेषु हितवांछकेत्यर्थः । तथा धूः कार्यप्राग्भारो धैरिव दुर्वहत्वात् धूर्यानमुखं तत्र धुर्यत्यनन्ननाहं वृषैमतिक्रान्त । तथैभिः सर्वजनप्रत्यक्षैरित्यर्थः । वर्णैर्ब्राह्मणक्षत्रियवैश्यशूद्रैरुपायैः सामदानभेददण्डैः श्रुतिभिः ऋग्यजुःसामाथर्वभिः पुमर्थैर्धर्मार्थकाममोक्षैश्च कृत्वा प्रियाश्चत्वारो यस्य हे प्रियचत्वः प्रियवर्णादिचतुष्टयेत्यर्थः । एतेन जनानुरागादिका सर्वसंपदुक्ता । चत्वारि दिड्युखानि सकलभूमिमित्यर्थः । पाँतो रक्षतः सतस्तव भूयाननेहा प्रभूतः कालो भूत् । अथ देवकार्यं स्मर । ननु कियन्मात्रोहं का च मे सहायसं - पद्यदेवंविधं कार्यं भगवता मय्युपदिश्यत इत्याह । असि त्वं हरेश्चतुर्भुजस्य चतुरो भुजानतिक्रान्तोतिचत्वाः पञ्चमो भुजो बाहु: । एतेन नारा - यणांशत्वेनातिपराक्रमित्वमुक्तम् । अतएव मे ममानवानिव वृषभ इव त्वं धुर्यः सर्वकार्यप्राग्भारवहनक्षमः । अतश्च तव के सखायः का तव सहायापेक्षेत्यर्थः ॥ १ एफ् ॥ ३ ॥ युग्मम् । हे. १ डी एफ चुलक्य. २ ए एफ चुलक ५ एफ पम ६ए तो रक्षकस्य स . Jain Education International ३ डी 'नो देवगु ४ बी घूरेव. ७ एफ भूतका For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy