SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२८ व्याश्रयमहाकाव्ये [ मूलराजः] सामान्येनोक्त्वाथ विशेषेणोपदेशमाह । विष्णोः सखा यान निहन्तुमीशो न तत्पिता वा पुरदंशऋद्धः। प्रभासविध्वंसपरेषु तेषु दण्डोशना त्वं भव सज्यधन्वा ॥४॥ ४. विष्णोः सखार्जुनो यान् निहन्तुं नेशो न क्षमः । विष्णोः सखेति साभिप्रायम् । विष्णोर्दैत्यारेरपि यः सखा सोपि तथा । वाशब्दोप्यर्थे । तत्पिताप्यर्जुनजनकोप्युद्धः सैन्यादिसंपद्युक्तः पुरदंशा इन्द्रो यान् न निहन्तुमीशः । एतेनातिबलिष्ठत्वोक्तिः । प्रभासविध्वंसपरेषु प्रभासाख्यतीर्थविनाशकारिषु तेषु ग्राहरिप्वादिषु दैत्येषु विषये त्वं सज्यधन्वारोपितचापः सन् । दण्डोशना दण्डो निग्रहः स एवान्यायिशिक्षाहेतुस्वाहण्डो दण्डशास्त्रम् । तत्रोशना शुक्रो भव । यथा शुक्रोन्यायिषु दण्डमुपदिष्टवांस्तथा त्वमेतेषु निग्रहं कुर्वित्यर्थः । एतेनार्जुनेन्द्राजय्यानप्येतान्दैत्यान्मत्प्रसादात्त्वं जेष्यसीति शंभुना सूचितम् । पुरदंशऋद्ध इत्यत्र "ऋति इस्त्रो वा" [१.२.२] इति इस्वः ॥ उशनन् । अत्युशन । इत्यत्र "वोशनस" [0] इत्यादिनानो लुक् चान्तादेशी वा ॥ पक्षेनुशनः ॥ अत्यननन् । प्रियचत्वः । इत्यत्र "उत:" [१] इत्यादिना सस्वरो वादेशः ॥ अनवान् । अतिचत्वाः । चत्वारि । इत्यत्र "वाः शेषे" [१२] इति वाः ॥ शेष इति किम् । अननन् । प्रियचत्वः ॥ सखायः । इत्यत्र “सख्युः [८३] इत्यादिना-ऐकॉरोन्तादेशः ॥ १ एफ पुरुदं. १ बी दिदै'. २ एफ पु वि'. ३ बी इतीति. ४ एफ रोव आदे'. ५ एफ न् प्रि. ६ एफ ख्युरितोशावैत् इति ऐ. ७ बी कारान्ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy