SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [है० १.४.८५. ] द्वितीयः सर्गः । १२९ तत्पिता । दण्डोशना । पुरदंशा । अनेहा । सखा । इत्यत्र " ऋदुशन" [ ८४] इत्यादिना डा- अन्तादेशः ॥ सज्यधन्वा । दिङ्मुखानि । इत्यत्र “नि दीर्घः " [८५ ] इति दीर्घः ॥ I अथ प्रबुद्धः स महान्नृपाणां श्रेयानयं स्वप्न इति प्रहर्षी । द्विड्डा नृपूषाथ च बन्दिनोपि जगुर्वचांस्युक्तनवार्यमाणि ॥ ५ ॥ ५. अथ स्वप्नदर्शनानन्तरं स मूलराजः प्रबुद्धः । कीदृशः । द्विड्ढा शत्रूच्छेदकः । अत एवं प्रतापैः सकललोकोच्योतकत्वाच्च नृपूषा नरेषु रवितुल्योत एव च नृपाणां मध्ये महान् गुरुस्तथायं स्वप्नः श्रेयानतिप्रशस्य इति हेतोः प्रहर्षी सन् । अत्र च महान् सर्वलोकेन पूज्यः - यानतिश्लाघ्यो द्विड्ढा मन्देहाख्यदैत्योच्छेदकः पूषा प्रबुद्धः । उदित इत्यtयर्थो व्यज्यते । अथ प्रबोधानन्तरम् । चो युगपदर्थः । यदैव प्रबुद्धस्तदैव बन्दिनोपि । अपिः पुनरर्थे । मङ्गलपाठकाः पुनरुक्तो वर्णितो नाम नूतनवर्येषु तानि वचांसि वक्ष्यमाणानि जगुः पेठुः । एतेन राज्ञो रात्रिशेष इदं शुभस्वप्नं जातमिति त्वरितमभीप्सितकार्यसिद्धिः सूच्यते ॥ । अथ प्रभातवर्णकानि बन्दिवचांस्येव त्रिचत्वारिंशता वृत्तैराह । जगन्त्यपूपाण्यभितः प्रसारण्यालोकहानि प्रसभं तमांसि । हन्त्यर्यमाथाददिरे द्विजेन्द्रः सरांस्यनु स्वाम्पि तदर्घ आपः ॥ ६ ॥ ६. तमांस्यर्यमा प्रसभं बलाद्धन्ति । कीहंशि । प्रसारीणि । क । अपूषाणि रविरहितानि जगन्त्यभितः सर्वतः । अभित इति सर्वार्थे निपातः । न तसन्तः । उभयार्थे विहितत्वात्तसः । द्वितीया तु " गौणात्" [२. २. ३३] १. २ बीत्वान्नृपू ३ एफ व्यञ्जते. ४ एफ पिपु Q10 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy