________________
१३०
ध्याश्रयमहाकाव्ये [ मूलराजः] इत्यादिसूत्रे बहुवचनात् । सर्वजगत्स्वित्यर्थः । तथालोकहानि दर्शनप्रतिघानीति । अथ तथा तस्यार्यम्णोर्घः पूजा तदर्घस्तस्मिन् । निमित्तससमीयम् । सूर्यार्घार्थ शोभना आपो येषु तानि स्वाम्पि सरांस्यनुलक्ष्यीकृत्य या आपस्ता द्विजेन्द्रैराददिरेजलौ गृहीताः । एतेन त्वमपि प्रतापेनोदीयमानार्यमश्रीरसि । तस्मात्सर्वजगद्व्यापकान् आः कष्टं लोकान् नतस्तमःप्रकृतीन ग्राहरिप्वादीन् दैत्याञ्जहि । येर्ने द्विजेन्द्ररय॑स इति राज्ञो ज्ञापितम् । एवं च दैवादनुवदद्भिर्बन्दिभिरपि शंभूपदेशोवश्यं कर्तव्यतया राज्ञो ज्ञापितः ॥ कुर्वन्करैः स्वम्पि सरांस्युदेति तमिस्रपिण्डग्र इहोग्रतेजाः । क्रोष्टेव भीमान्विशति प्रभूतकोष्टूनि कुञ्जानि तमिस्रपुञ्जः॥७॥
७. इहास्मिन्प्रभात उग्रतेजा उष्णांशुरुदेति । कीहक्सन् । करैः किरणैः कृत्वा सरांसि स्वम्पि निर्मलजलानि कुर्वन् । तथा करैरेव तमिस्रपिण्डं तिमिरौघं असते तमिस्रपिण्डग्रः । अत एव क्रोष्टेव यथा शृगाल: प्रातः स्वभावत एव भीमान् भययुक्तः सन् प्रभूतक्रोष्ट्रनि बहुशृगालानि कुञानि वनगहराणि प्रविशति तथा तमिस्रपुञ्जो रवितेजसो भीमान् कुञानि प्रविशति । एतेन त्वमप्युग्रतेजाः प्रचण्डप्रतापोसि । तस्मात्तामसप्रकृतीन ग्राहरिप्वादिदैत्यान् असमानश्चेत्त्वमुत्थितस्तदा ते भीमन्तः कुलेषु प्रवेक्ष्यन्तीति राज्ञो विजयो ज्ञापितः । अत्रं च तमिस्रशब्दद्वयोपादानेपि भिन्नवाक्यत्वान्न पुनरुक्तदोषः ।
१ एफ ° रैः स्वांपि. २ ए मिश्रमि'. ३ ए एफ मिश्रपु.
१ एफ सर्व ज° २ डी मित्ते स. ३ एफ °लक्षीकृ. ४ डी न त्वं द्वि'. ५ एफ °सि स्वापि. ६ बी मिश्रपि. ७ एफ ल: स्व. ८ बी मिश्रपु. ९ बी सो भीमानिव भी. १० एफ व त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org