________________
[है० ३.२.१.] षष्ठः सर्गः ।
४४५ इतरेतरस्माद्युतेन पार्थक्येन दृष्टे तथापि ते शक्तिक्षमे यौवनसंयमित्वे चात्र कुमारेन्योन्यां चिरं योगं संबन्धं चक्रतुः । यतस्तादृशनीतिभाज्यनन्यसदृशन्यायनिष्ठे शक्तिक्षमाद्यनुरूपाचरिते वा । यो हि ताहशनीतिभागपूर्वन्यायनिष्ठो विरुद्धभृत्यानुरूपाचरणभाग्वा स्वामी स्यात्तत्र मिथो विरुद्धोपि भृत्यजनः स्वाम्यावर्जनाविशेषेण विरोधं विहायान्योन्यं चिरं योगं करोति ॥ संकेतयोगादितरेतरं नु कलाश्च शास्त्राणि च धीगुणाश्च । चकुर्विशेषानितरेतरस्यान्योन्यस्य भूषां च वितेनिरेस्मिन् ॥४॥
४. इतरेतरं संकेतयोगान्नु संकेतो वयमत्र कुमारेन्योन्यं विशेषान्भूषां च विधास्याम इति मिथोभ्युपगमस्तल्लक्षणो यो योग: संबन्धस्तस्मादिवास्मिन्कुमारे कलाश्च धनुःकलाद्याश्च शास्त्राणि च धनुर्वेदादीनि च धीगुणाश्च शुश्रूषाद्या अष्टौ बुद्धिगुणाश्चेतरेतरस्य विशेषान् गुणोत्कर्षांश्चक्रुराधारस्यास्य विशिष्टत्वात्कलादयोन्योन्यं विशेषितवन्त इत्यर्थः । अत एवान्योन्यस्य भूषां च शोभां च वितेनिरे । कृतसंकेता हि संकेतिते स्थाने मिलिताः संकेतितमर्थं कुर्वन्ति ॥
वाक्कमला च तेजःसौम्ये च परस्परां मिषती। शक्तिक्षमे यौवनसंयमित्वे अन्योन्यां योगं चक्रतुः । शक्तिक्षमे यौवनसंयमित्वे इतरेतरां युते । अत्र "परस्पर" [१] इत्यादिनापुंसि स्थादेरामादेशो वा ॥
परस्परमप्रतिबाधनेन मित्रैरिव विद्याँभिः । अन्योन्यमुत्कर्षितया मित्रैरिव
१ सी नु काला
१डी न्योन्यं चि०. २ डी ते च । यो. ३ सी °षा भू|श्च वि. ४ ए भूषांश्च वि. डी भूषाश्च वि. ५ ए सी थोत्युप. ६ सी शिषत्वा. ७ बी
धादिभिः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org