________________
११८ घ्याश्रयमहाकाव्ये
[ मूलराजः] भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् ।
दैवे युगसहस्रे द्वे ब्राह्ममिति ।। . एतद्गुणानां वर्ण्यमानानां पैत्रदैवतब्राह्मदिनान्यप्यतिक्रामन्ति न तु ते पूर्यन्त इत्यर्थः ॥ नृणाम् नृणाम् । इत्यत्र “नुर्वा' [ ४८ ] इति वा दीर्घः ॥ प्राणान् । इत्यत्र “शसोता" [ ४९ ] इत्यादिना शसोता सह दीर्घः पुंसि शसः सस्य नश्च । पुलिङ्गाभावे तु दीर्घत्वमेव । शक्तीः ॥
चतुरह्नि । यहनि । सायाहि । सायाहनि। व्यहि । व्यहनि । इत्यत्र "संख्यासाय' [ ५० ] इत्यादिनाह्वस्याहनादेशो वा । अहनादेशे च "ईडौ वा" [ २. १. १०९ ] इति वानोस्य लुक् । पः त्र्यढे । असायाह्ने । व्यङ्गे ॥
अष्टाभ्यो दिग्गजेभ्यश्चाष्टभ्योद्रिभ्यश्च धूनियाम् ।
अत्यष्टानोत्र निधयोत्यष्टाचाभिमुखा ग्रहाः ॥ १९५ ॥ १९५. अत्र नृपंविषयेष्टावतिक्रान्ता अत्यष्टानो नव महापद्म १ पद्म२ शङ्ख ३ मकर ४ कच्छप ५ मुकुन्द ६ कुन्द ७ नील ८ चर्चाख्या ९ निधयः । तथात्यष्टा नव । अर्क १ सोम २ मङ्गल ३ बुध ४ गुरु५ शुक्र ६ शनैश्चर ७राहु ८ केतवो९ ग्रहा अभिमुखा अनुकूला अभवन् । यतः किंभूते । अष्टाभ्य ऐरावत १ पुण्डरीक २ वामन ३ कुमुद४ अञ्जन ५ पुष्पदन्त ६ सार्वभौम ७ सुप्रतीकेभ्यो ८ दिग्गजेभ्यश्च । तथाष्टभ्यो विन्ध्य १ पारिजात २ शुक्तिमत् ३ ऋक्षपर्वत ४ माहेन्द्र
१ एफ् त्यष्टश्चा.
१ सी डी एफ ब्राहयमि. २ एफ बाहयदि'. ३ सी डी न्यति'. ४ सी डी द्यह्नि सा. ५ एफ नि व्यह. ६ एफ क्षे अढे. ७ बी पतिवि. ८ एफ शनि७°. ९ सीडी अनु. १० सी डी न् । किं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org