Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 145
________________ wwm www mom ammmmmmmm wwwwwwwww १०२२ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमभङ्गारे अन्यत्वप्रतिषेध एकत्वमिति चेत् न, तस्याप्यवक्तव्यत्वात् , एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एवेति सर्वथाप्यवक्तव्यतैव ।। __ (अनुभयश्चेदिति) अनुभयश्चेन्नास्त्युभयमस्ति तर्हि, तच्चोभयं भिन्नव्यवस्थानवृत्तमपि, एवं नाभ्युपगम्यते ततो-भिन्नव्यवस्थानवृत्तोभयत्वा[न] भ्युपगमे तु प्राप्तं कीगुभयम् ? तद्यथा सर्वात्मकैकेत्यादि, । एकं सर्वात्मकं नित्यं सर्वगतमनुत्पादव्ययं कालनियतिस्वभावप्रधानपुरुषादीनामन्यतमद्भावतत्त्वमसपोहनिरुपाख्यमवस्त्वत्यन्तासत् खपुष्पादि चेत्येतदुभयं स्यात् , एकत्वान्यत्वानुभयत्वाभावे गत्यन्तराभावात् , तच्च न भवति निष्ठितत्वादेषां पक्षाणाम् , अनुभयप्रतिषेधादुभयत्वमिति चेत् स्यान्मतमनुभयमुभयाभावोऽसत्वम् , असत्त्वस्य प्रतिषिद्धत्वादुभयं तत्प्रतिपक्षः सती एव द्वे वस्तुनी भवितुमर्हत इति, तन्न, अन्यत्वाव क्तव्यत्वात् , एतदुभयत्वमन्यत्वमेव परस्परभिन्नलक्षणे अग्नीन्धने अन्योऽन्यस्मादन्ये इति, तच्च अन्यत्वं 10 विचारितमसदेवेति, तस्मादस्याप्यवक्तव्यत्वम् , असत्त्वादवक्तव्यत्वान्नानुभयत्वप्रतिषेधादुभयत्वम् , अन्यत्वप्रतिषेध एकत्वमिति चेत्-स्यान्मतमन्यत्वप्रतिषेधे तर्खेकत्वमेव सिद्ध्यतीत्येतच्च न, तस्याप्यवक्तव्यत्वात् एकत्वस्याप्यसत्त्वस्योत्पततैव मयोक्तत्वादवक्तव्यतैव, इत्थमेकत्वान्यत्वोभयत्वानुभयत्वानि प्रतिषिद्धानि, स्यादाशङ्का-सामान्यविशेषयोरग्नीन्धनयोश्चैकत्वाद्यभावेऽप्यन्यतरप्रधानोपसर्जनतया प्रवृत्तेरस्तु वक्तव्यतैवेत्ये तच्चायुक्तम् , एकत्वाद्ययुक्तिवत्तद्युक्तेरिति तदतिदिशन्नाह-एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानो16 पसर्जनभावोऽपि प्रतिषिद्ध एवेति, यस्मादेतयोः सामान्यविशेषयोरप्रवृत्तेरनीन्धनयोश्चासत्त्वमेव , एकत्वा उभयत्वपक्षः प्रसज्यते, अग्नीन्धनोभयञ्च भिन्नव्यवस्थानलक्षणसद्भावमित्याह-तच्चोभयमिति । यदि तदुभयं परस्परासङ्कीर्णप्रतिनियतलक्षणं न स्यात्तर्हि तत् कथं भवेदित्याशङ्कते-एवं नाभ्युपगम्यत इति, ईदृशोभयत्वानभ्युपगमश्चैकत्वान्यत्वानुभंयत्वासम्भवस्योक्तत्वादिति भावः । तयोरेको भावः एकत्वसर्वात्मकत्वनित्यत्वसर्वगतत्वानुत्पादव्ययत्वादिधर्मात्मकः कालो वा नियतिवा स्वभावो वा प्रधानं वा पुरुषादि वा स्यात् , अपरश्चासदपोहात्मक निरुपाख्यं वा वस्तु अत्यन्तासत् खपुष्पादि चेत्युभयं स्यादिति 20 समाधत्ते-एकं सर्वात्मकमिति, ईदृशं सदसद्धटितमुभयत्वं ग्राह्यमिति भावः । कथमीदृगेवोभयं वस्तु स्यादित्यत्र हेतुमाह एकत्वेति, एकत्वस्यान्यत्वस्यानुभयत्वस्य चामीन्धनयोः प्रतिषिद्धत्वात्तथाऽभ्युपगन्तुमशक्यतयोक्तगतिं विनाऽन्यस्या गतेरभावादिति भावः। भवत्वीदृगेवेति, न, तथाविधकालादिभावानां प्राक् प्रतिषिद्धत्वादित्याह-तच्च न भवतीति । नन्वनुपदमसद्रूपमनुभयमभावस्तर्हि ते इत्यादिना प्रतिषिद्धम् , तथा चानुभयाभावोऽसदभावः सद्रूप एवेति सदात्मकवस्तुद्वयमेवोभयं भवितुमर्हतीति शङ्कते-अनुभयेति । व्याचष्टे-स्यान्मतमिति । उभयत्वं ह्यन्यत्वमेव, परस्परभिन्नलक्षणवस्तुविषयत्वात्ते चाग्नीन्धनरूपे 25 वस्तुनी परस्परतोऽन्ये इति वाच्यं, तत्र चान्यत्वमप्रवृत्तेरसदित्युक्तं प्राकु, असत्त्वमभ्युपगम्याप्यन्यदिति न वक्तव्यमित्यपि प्रतिपादितमेव, तथा चासत्त्वादन्यत्वावक्तव्यत्वाच्चानुभयत्वप्रतिषेधे उभयत्वं प्राप्नोतीत्यपि न सुन्दरमिति समाधत्ते-अन्यत्वावक्तव्यत्वादिति । अभिप्रायं स्फुटयति-एतदुभयत्वमिति, अग्नीन्धनोभयत्वमित्यर्थः । ननु तद्यन्यत्वप्रतिषेधात्तत्प्रतिपक्ष एकत्वं सिद्ध्यतीत्याशङ्कते-अन्यत्वेति । एकत्वस्याप्यसत्त्वैकत्वावक्तव्यत्वयोः प्रागुपपादितत्वादिल्याह-तस्यापीति । तदेवमेकत्वा दीनां प्रतिषेधमुपसंहरति-इत्थमिति । नन्विन्धनं सामान्यमग्निर्विशेषः, तयोश्चैकत्वान्यत्वाद्यभावेऽपि प्रधानोपसजेनभावेन 30 प्रवृत्तिसम्भवात्तथाभावेन वक्तव्यता स्यादित्याशङ्कते-स्यादाशङ्केति । एकत्वादीनां तयोरसम्भवस्य प्रतिपादनेन प्रधानोपसर्जनभावोऽपि न सम्भवतीत्सतिदेशतो निराकरोति-एकत्वान्यत्वेति। तत्कथमित्यत्राह-यस्मादेतयोरिति, एतयोः सामान्य १ सि. क्ष. छा. डे. तत्त्वोभयं । २ सि. क्ष. छा. डे. स्थानवृत्तो न वृत्तोभ० । ३ सि. १. छा. डे. °सदनीहनिरु० । ४ सि.क्ष. छा. डे. तदनान्यत्वा० । ५ सि.क्ष. छा. डे. °दव्यक्तं व्यत्वाच्चानुभयत्व०। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364