Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 213
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः त्वात् , अन्यदेव हि रूपाद्युत्पद्यमानं दृश्यते प्रत्यक्षत एव, तद्यथा-वहतीवोदके, यथा स्रोतसि नद्यादीनां वहदुदकमन्यदन्यदेवागच्छति, गतन्तु गतमेव, अथ च मन्दबुद्धेः-भ्रान्तस्य सन्ताने-अनवरते स्रोतसि तदेवेति मिथ्याप्रत्यय उपजायते तथा सर्वरूपादिषु।। अत्राह अथ सन्तानवत् सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु दृश्येत, सन्तानमपि वा न दृश्येत सूक्ष्मोत्पादविनाशवत् , अत्रोच्यते न हि दृष्टेऽनुपपन्नं नाम, उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य, प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम् , प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् , तथा हि-'योकस्मिन् क्षणे जातं.............॥' ( ) इति, तस्मात् स्थितमेतत्क्षणिकं रूपादि बाह्यं वस्त्विति। 10 अथ सन्तानवदित्यादि, यथा सन्तानोऽवस्थितो दृश्यते स्वोत्पादविनाशयोरन्तरे तथा सूक्ष्मोत्पादविनाशयोरप्यन्तरे वस्तु-रूपादि दृश्येत, सूक्ष्मोत्पादविनाशौ स्वान्तरेऽप्युपलभ्यमानस्वव्यपदेशहेतुको स्याताम् , उत्पादविनाशत्वात् , सन्तानोत्पादविनाशवत्, सन्तानगतौ वोत्पादविनाशौ स्वान्तरानुपलभ्य[व]व्यपदेशहेतुकौ स्यातामुत्पादविनाशत्वात् सूक्ष्मोत्पादविनाशवत्, अत्रोच्यते, न हि दृष्टेऽनुपपन्नं नाम, उक्तं हि बुद्धिमान्द्यादुदकस्रोतोवदवस्थानदर्शनमसतः सन्तानस्य, प्रत्यक्षं दृश्यमानत्वादेव वा न चोद्यम् , 15 न हि प्रमाणज्येष्ठं प्रत्यक्षमतिक्रम्योपपन्नमिति प्रत्यक्षविरुद्ध प्रतिपत्तुं योग्यम् , प्रत्यक्षस्य प्रमाणान्तरेणाबाध्यत्वात् , तथा हीत्येतस्यार्थस्य संवाद्युपपत्त्यन्तरवादिज्ञापकमाह-'यद्येकस्मिन् क्षणे जात' ( ) मिति श्लोकः, यद्युत्पत्तिरेव विनाशकारणं न स्यात् द्वितीयक्षणाद्यवस्थानवत् सदाऽवस्थानमेव स्यात् , विनाशहेत्वभावादित्युक्तम् , न चैतदेवं भवति, तस्माजन्मैव विनाशहेतुरात्मनः, तद्विनाश एव चोत्तरोत्पत्तिकारणमिति स्थितमेतत्क्षणिकं रूपादि बाह्यं वस्त्विति । mananminara Mmmmwww 20 प्रत्यक्षत एव सिद्ध्यतीत्याह-अथ वेति । प्रवहदुदकनिदर्शनं दर्शयति-बहतीवोदक इति, उदकस्यान्यान्यत्वेऽपि तत्सन्ताने भ्रान्तस्य पुरुषस्य तदेवेदमित्ययथार्थप्रत्यय उपजायते तथैव रूपादावपि विज्ञेयमिति भावः । ननु महदुत्पादविनाशयोरन्तरे हि सन्तानो घटादिवस्तु दृश्यते, एवमेव सूक्ष्मोत्पादविनाशयोरन्तरेऽपि वस्तु दृश्येत, अन्यथा तद्वत् सन्तानोऽपि न दृश्यतेत्याशङ्कतेअथेति । व्याचष्टे-यथा सन्तान इति । एतदेव प्रयोगेण दर्शयति-सूक्ष्मोत्पादविनाशाविति । स्वान्तर इति, उत्पादविनाशयोर्मध्ये उपलभ्यमानमुत्पादविनाशव्यपदेशहेतु च वस्तु ययोस्तावुत्पादविनाशौ खान्तरेऽप्युपलभ्य25 मानवव्यपदेशहेतुको, उत्पादविनाशौ धर्मी वान्तरेऽप्युपलभ्यमानखव्यपदेशहेतुकत्वं साध्यधर्मः, उत्पादविनाशत्वादिति खरूपहेतुः, सन्तानस्योत्पादविनाशवदिति दृष्टान्तः । अन्यथा विपरीतानुमानमाह-सन्तानगतौ वेति। न हि सन्तानस्याप्यवस्थानम् , अवस्थानप्रत्ययस्य भ्रान्तत्वात् , क्षणे क्षणे उत्पादविनाशेनान्यान्यत्वस्य दर्शनात्, न हि दृष्टे क्षणिकत्वे युक्त्याऽनुपपन्नत्वात्तत्त्यागः शक्यः कर्तुमित्याशयेन समाधत्ते-न हि दृष्ट इति । प्रमाणान्तराबाध्यत्वं प्रत्यक्षस्याह-न हीति। क्षणिकत्वानङ्गीकारे दोषमाह-तथा हीति । यद्यैकस्मिन्निति 'यद्यकस्मिन् क्षणे जातं न विनश्येदकारणात् । अवस्थानं सदा 30 तस्य स्याद्वितीयक्षणे यथा' ॥ इत्येवं कारिका सम्भाव्यते । भावार्थमाह-यद्युत्पत्तिरेवेति । कारिकोदितामापत्ति सदावस्थानरूपां दूरीकर्तु जन्मैव विनाशकारणं वाच्यं स एव विनाश उत्तरोत्पत्तेहेतुरिति क्षणिकत्वं वस्तूनां रूपादीनां सेत्स्यति सन्तानश्चेत्याह-न चैतदेव रूपादिवस्तु सदावस्थानरूपं न च भवतीत्यर्थः । निगमयति-तस्माजन्मैवेति । एवञ्च सन्ता Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364