Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 314
________________ बावशनपविषयाः] शादशारनयचक्रम् द्रव्यादि सत् परतः सत्तादि स्वत इत्यसदपि भवतीति विधिनियमं विधीयते इति ६ विधिनियमविधिनयदर्शनम् , अस्याप्यसदुत्पत्तिवाञ्छिनो नयस्यासन्निहित[भवितृकत्वात् ]खपुष्पादिवत् सतोऽसतः सदसतो वा सताऽसता सदसता वा सम्बन्धाभावात् सत्करत्वाभावाच्चासदुत्पत्त्ययुक्तेः प्रवृत्तिरूपमितरेतराभावलक्षणमभवद्भवति[व]स्त्विति ७ उभयोभयनयदर्शनम् , अस्यापि दर्शनस्य पराभावस्य विशेषस्य स्वरूपविशेषासम्भवेऽनवस्थानात् द्वयोरप्यभावसङ्कररूपादिदोषादयुक्तर्भवितृप्रधानं भवनोपसर्जनमिति ८ उभय[नियम]नयमत[म् ] ; एषु चतुषूभय[ोभय]विध्यादिषु कृतकाकृतकत्वादनित्यानित्यत्वावलम्बिचतुरवयवः प्रतिज्ञाहेतुव्याख्याविकल्पः, अस्यापि नयस्य भेदप्राधान्येऽन्वयाभावः, उपसर्जनत्वात् , भेदस्यापि तदविनाभाविनोऽभावो गगनोदुम्बरकुसुमवत् सामान्यविशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां त्यागा सम्भवति, शशविषाणादेः सत्करत्वप्रसंगात् सत्तासम्बन्धात् प्राक् द्रव्यादेविचार्यत्वाच्च, सत्तायाः सतोऽसतः सदसतो वा सत्करत्वासम्भवात् कारणसमवेतस्य खत एव सत्त्वासम्भवात् सत्तासम्बन्धात् सत्त्वे तस्य खतो निरुपाख्यत्वेनासत्त्वं स्यात् , सतश्च 10 सत्तया सत्करत्वं वैयर्थ्यान्न सम्भवति तस्मात् सतामसतां वा द्रव्यादीनां न सत्करी सत्ता, सदसतामप्यभूतत्वादप्रसिद्धत्वात्त्वन्मतेनैव न सत्करी, सत्कार्यपक्ष इव चासत्कार्यपक्षेऽपि क्रियागुणव्यपदेशाभावः, तस्मात् सामान्य विधीयते नियम्यते च विशेषोऽपि तथा, सामान्य प्रवृत्तिर्विशेषो निवृत्तिः, प्रवृत्तिनिवृत्ती अन्योन्याविनाभाविन्यौ, एवञ्च सामान्य सामान्य विशेषश्च भवतः विशेषोऽपि विशेषः सामान्यश्च भवत इति इतरेतराभावरूपेण स्वेन च भावरूपेण सदेवासत् सर्वमिति अभवद्भवनरूपं वस्त्वित्युभयोभयनयमतमित्याह-अस्याप्यसदुत्पत्तीति । भावाभावात्मकवस्तुनो भावनायां विशेषस्य पराभावरूपत्वे वगतविशेषस्याभावे 15 खत्वपरत्वयोरव्यवस्थितत्वं स्यात्, स्वं स्वं न भवति, पराभावविशेषत्वात् , परमपि परं न भवति स्वभावविशेषशून्यत्वादिति भावाभावयोर्भदेनोपादानं न स्यात् स्वपरयोरितरेतरात्मापत्तेः, एवञ्च भावाभावयोरैक्यम्, खतोऽप्यसत्त्वं परतोऽपि सत्त्वमिति सङ्करोऽपि स्यात्, भावाभावयोरुभयोः प्राधान्येऽङ्गाङ्गिभावो न स्यात् , अन्यतरप्रधानोपसर्जनभावे एतन्नयसम्मतं विशेषस्य भवितुः प्राधान्यं सामान्यस्य भवनस्यैवोपसर्जनत्वं युक्तं स्यान्नान्यथा, उपसर्जनावेव भावाभावी चेदन्येन प्राधान्येन भवितव्यम्, तदभावे प्रवृत्त्यभावादिति उभयनियमनयमतमिति भावयति-अस्यापि दर्शनस्येति । एते चत्वारो नयाः द्रव्यं भावञ्चेच्छन्ति 20 तस्मादेषु शब्दविषयः प्रतिज्ञा नित्यत्वानित्यत्वकृतकत्वाकृतकत्वरूपचतुरवयवः शब्दो नित्यानित्यः अकृतककृतकत्वादिति भाव्यमित्याह-एषु चतुर्घिति । उक्तनयमतं न युक्तम् , यदि हि भेदप्रधानो भावः स्यात् , तवेष्टोऽन्वयः भावः कथं भवितारमन्तरेण प्राप्तं समर्थोऽखतन्त्रत्वात् तस्मादभविता. अभवितत्वादसन् खपुष्पवत्, एवं तस्यान्वयस्याभावे भेदा विप्रकीर्णा भेद्यवस्तुरहिताः स्युः, मेद्यवस्तुनोऽभावाच्च मेदा अपि न भवितुमर्हन्ति खपुष्पवदिति अन्वयोपसर्जनो मेदप्रधान इत्यसत्, एवञ्च घटादिमेदाभावः भेत्तव्याभावात्, गगनोदुम्बरकुसुमवत् , एवं निराकृतसामान्यं विशेषो वा भावोपसर्जनं विशेषप्रधानं वा, 25 निराकृतविशेषो भाव एव वा विशेषोपसर्जनं सामान्यप्रधानं वा अत्यन्तनिराकृतखातंत्र्यसामान्यविशेषं वा, अत्यन्तस्वतंत्रसामान्यकक्षसामान्यविशेषं वा वस्तु न भवति, सर्वेषु विकल्पेष्वणुभावापत्तिदोषदर्शनात्, तस्मादग्नीन्धनयोरिव सामान्यविशेषयोरेकत्व- . नानात्वोभयत्वानुभयत्वान्यतरप्रधानोपसर्जनत्वानां सर्वथाऽघटमानत्वात् सर्वथाप्यवक्तव्यतैवेति नियमनयमतमित्याह-अस्यापि नयस्यति। सर्वमप्यवक्तव्यमेवेति मतमप्ययुक्तमेव, स्ववचनविरोधादिदोषात् , तदेव विधीयते तदेवापोद्यते, अवक्तव्यत्वं विधीयते. अवक्तव्यशब्देनोच्यमानत्वादपोद्यते, सर्वोक्तानृतपक्षवत्, एकत्वप्रतिषेधेऽन्यत्वस्यान्यत्वप्रतिषेधे एकत्वस्य सिद्धेरेवमुभयत्वानुभय-30 त्वयोरपि, न चोभयतोऽपि प्रतिषेधे कतमत्तद्वस्तु यदवक्तव्यं भवेत् , किं भावो विशेष उभयं वा, भावादेरेकत्वादीनि यद्यप्रविभागेन पुरुषादिवत्तर्हि सति द्वितीये तेन सहासंपर्कादेक स्यात्, द्वितीयन्तु नास्ति, उपाख्यानाशक्यत्वेन प्रतिषिद्धत्वात्, यदि प्रविभागेन तदपि न. सहासहभवनस्य द्विष्ठत्वादित्यादिना निषिद्धत्वात् , एवमन्यत्वादीन्यपि, अवक्तव्यशब्दस्य च प्रतिपक्षः सम्भाव्यते नज्युक्तत्वादब्राह्मणवत्, संवृत्त्या तु न वाग्व्यवहारः, अवक्तव्यत्वस्यापरमार्थत्वापत्तेः धर्मधर्मिविभागव्यवस्थाभावात् प्रतिपादनप्रमाणाभावेनावक्तव्यं वस्त्वविदितमेव स्यात् , अनिरूपितवस्तुवतत्त्ववादिनचावावित्वं प्रसज्यते, तस्माद्रूपादय एव 35 समुदायिनः वस्तु भवति, न समुदायः रूपाद्यन्यतमानात्मकत्वात् खपुष्पवत्, प्रत्येकंवृत्तरूपादिर्भेदरूपैव, न सामान्यम्,. द्वा० न० २५ (१४९) ___Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364