Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 327
________________ wwwm १२०४ न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् देवास्यापि प्रवृद्ध्या, अचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तश्च सिद्धम् , सिद्धनामग्रहणश्च मङ्गलं कल्याणं शिष्यप्रशिष्यपरम्परया प्रतिष्ठातुमर्हति, प्रतिष्ठितसिद्धिविजयावहजगन्मूर्धस्थसिद्धवत् प्रतिष्ठितं यशस्करमिति ।। इति श्रीमल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम् ग्रन्थानम् ॥ १८००० श्रीकल्याणमस्तु. सिद्धप्रतिष्ठितं चक्रवर्तिनश्चक्ररत्नं यथाऽद्यापि प्रवर्धत एव तथा नयचक्ररत्नमपि प्रवर्द्धते न व्याहन्यते क्वचित्कदाचिदपीति भावः । तथा चक्रवर्तिचक्ररत्नमिव ग्रन्थरत्नमप्यचिन्त्यशक्ति, परान् शत्रूनिव वादिनोऽभिभूय प्रभुत्वभवनशक्तियुक्तञ्च सिद्धमित्याहअचिन्त्येति । सिद्धपदग्रहणं मङ्गलार्थम्, तच मङ्गलं शिष्यप्रशिष्यादिपरम्परया ग्रन्थस्य प्रतिष्ठातुमर्हतीत्याह-सिद्धना. मग्रहणश्चेति, मुक्तवाचकपदग्रहणश्चेत्यर्थः । प्रतिष्ठितेति, शाश्वतसिद्धिस्वरूपविजयधारिजगन्मूर्धस्थसिद्धा यशस्करा तथा 10 ग्रन्थोऽयमपि थशस्कर इति भावः । इति शब्दो ग्रन्थसमास्यर्थः । तुम्बनिरूपणं पूर्णयति-इति श्री ति॥ श्रीमत्कमलसूरीशैः, कृता सहरुभिर्मम । प्रेरणा सफला जाता, प्रीतोऽहं लोमलोमशः॥१॥ प्रतीकार्थानुसन्धाने, कृत्वा मूलं पृथकृतम् । भवेच्चेत्स्खलना कापि, संशोध्या सा तु धीधनैः॥२॥ विजयानन्दसूरीश-पट्टालंकृतिकारिणाम् । श्रीमत्कमलसूरीणां, शिशुना लब्धिसूरिणा ॥ ३॥ विषमानां तु वाक्यानां, कृतं टिप्पणक लघु । बालास्तदनुसारेण, लभन्तां ग्रन्थहार्दकम् ॥ ४॥ युग्मम् द्वादशारविचारोऽयं, प्रचारः सत्पथस्य हि। आचारश्च मुनीन्द्राणां पालितौ भाग्यतो मया ॥५॥ हस्तेन्दुखद्विवर्षे हि, वैक्रमे शुक्ल आश्विने । इलादूर्गे तृतीयायामिदं पूर्णीकृतं मया ॥ ६॥ इति श्रीविजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रस्य तुम्बनिरूपणं समाप्तम् समाप्तञ्च द्वादशारनयचक्रस्य विषमपदविवेचनम् ॥ शुभं भूयात् ॥ Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364