________________
wwwm
१२०४
न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् देवास्यापि प्रवृद्ध्या, अचिन्त्यशक्तिपराभिभवनप्रभुशक्तियुक्तश्च सिद्धम् , सिद्धनामग्रहणश्च मङ्गलं कल्याणं शिष्यप्रशिष्यपरम्परया प्रतिष्ठातुमर्हति, प्रतिष्ठितसिद्धिविजयावहजगन्मूर्धस्थसिद्धवत् प्रतिष्ठितं यशस्करमिति ।। इति श्रीमल्लवादिक्षमाश्रमणपादकृतनयचक्रस्य तुम्बं समाप्तम्
ग्रन्थानम् ॥ १८०००
श्रीकल्याणमस्तु. सिद्धप्रतिष्ठितं चक्रवर्तिनश्चक्ररत्नं यथाऽद्यापि प्रवर्धत एव तथा नयचक्ररत्नमपि प्रवर्द्धते न व्याहन्यते क्वचित्कदाचिदपीति भावः । तथा चक्रवर्तिचक्ररत्नमिव ग्रन्थरत्नमप्यचिन्त्यशक्ति, परान् शत्रूनिव वादिनोऽभिभूय प्रभुत्वभवनशक्तियुक्तञ्च सिद्धमित्याहअचिन्त्येति । सिद्धपदग्रहणं मङ्गलार्थम्, तच मङ्गलं शिष्यप्रशिष्यादिपरम्परया ग्रन्थस्य प्रतिष्ठातुमर्हतीत्याह-सिद्धना. मग्रहणश्चेति, मुक्तवाचकपदग्रहणश्चेत्यर्थः । प्रतिष्ठितेति, शाश्वतसिद्धिस्वरूपविजयधारिजगन्मूर्धस्थसिद्धा यशस्करा तथा 10 ग्रन्थोऽयमपि थशस्कर इति भावः । इति शब्दो ग्रन्थसमास्यर्थः । तुम्बनिरूपणं पूर्णयति-इति श्री ति॥
श्रीमत्कमलसूरीशैः, कृता सहरुभिर्मम । प्रेरणा सफला जाता, प्रीतोऽहं लोमलोमशः॥१॥ प्रतीकार्थानुसन्धाने, कृत्वा मूलं पृथकृतम् । भवेच्चेत्स्खलना कापि, संशोध्या सा तु धीधनैः॥२॥ विजयानन्दसूरीश-पट्टालंकृतिकारिणाम् । श्रीमत्कमलसूरीणां, शिशुना लब्धिसूरिणा ॥ ३॥ विषमानां तु वाक्यानां, कृतं टिप्पणक लघु । बालास्तदनुसारेण, लभन्तां ग्रन्थहार्दकम् ॥ ४॥ युग्मम् द्वादशारविचारोऽयं, प्रचारः सत्पथस्य हि। आचारश्च मुनीन्द्राणां पालितौ भाग्यतो मया ॥५॥ हस्तेन्दुखद्विवर्षे हि, वैक्रमे शुक्ल आश्विने ।
इलादूर्गे तृतीयायामिदं पूर्णीकृतं मया ॥ ६॥ इति श्रीविजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रस्य तुम्बनिरूपणं समाप्तम्
समाप्तञ्च द्वादशारनयचक्रस्य विषमपदविवेचनम् ॥ शुभं भूयात् ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org