SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ शास्त्रप्रयोजनम् ] १२०३ wwwww wwwwwwwww. ( सत्खपीति ) सत्स्वपि पूर्वाचार्यविरचितेषु सम्मतिनयावतारादिषु नयशास्त्रेषु अर्हत्प्रणीत - नैगमादिप्रत्येकशतसंख्यप्रभेदात्मक सप्त नयशतारचक्राध्ययनानुसारिषु तस्मिंश्चार्षे सप्तनयशतारचक्राध्ययने च सत्यपि द्वादशारनयचक्रोद्धरणं दुःषमाकालदोषबल प्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहश्रद्धासंवेगश्रवणधारणादिशक्तीनां भव्यसत्त्वानां श्रवणमेव तावदुर्लभम् श्रुत्वापि तत्त्वबोधः बुद्धा तत्त्वमन्यस्य व्यवहारकाले परप्रत्यायनं प्रत्यादरो दुर्लभः, सत्यप्यादरे ग्रन्थार्थसंस्मरणं तदुग्राहणमुद्रा हितार्थप्रतिपादनं चात्यन्त- 5 खेदायेति मत्वा तत्त्वात् खिन्नान् विस्तरग्रन्थमीरून् संक्षेपाभिवान्छिन: शैक्षकजनाननुग्रहीतुं कथं नामाल्पी - या कालेन नयचक्रमधीयेरन्नमे सम्यग्दृष्टय इत्यनयाऽनुकम्पया संक्षिप्तग्रन्थं बह्वर्थमिदं नयचक्रशा खं श्रीमच्छेतपटमल्लवादिक्षमाश्रमणेन विहितम्, स्वनीतिपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना सक् लभरतविषेयवासिनृपतिविजिगीषुचक्रविजयिनेव भरत चक्रवर्त्तिना देवता परिगृहीताप्रतिहतचक्र रत्नेन स्वपुत्रपरम्परानुयायि जगद्व्यापिविपुल विमलयशसा चक्ररत्नमिव तदिदं नयचक्ररत्नं - चक्रवर्त्तिनामिव चत्ररत्नं 10 पुत्रपौत्रादिनृपतीनां विहितं कृतं किमर्थमिति चेदुच्यते - चक्रवर्त्तिनामिव चक्रवर्त्तित्वविधये वादिनां जैनानांजिनशासनप्रभावनाभ्युद्यतानां वादिचक्रवर्त्तित्वविधये - वादिचक्रवर्त्तित्वं विधेयादित्येतमर्थमित्येतस्य नयचक्रशास्त्रस्य विधाने प्रयोजनमभिहितम्, तदेतदेवं द्वादशारनयचक्रं सिद्धप्रतिष्ठितं - अव्याहतं चक्रवर्त्तिचक्ररत्नव www.w www.wwwwwww. द्वादशारनयचक्रम् Jain Education International 2010_04 www. wwww पूर्वाचार्यविरचितानि सम्मतिनयावतारादिनयशास्त्राणि तेषु सत्स्वपि तथा सप्तनयशतारचक्राध्ययने चार्षे विद्यमानेऽपि कालदोषेण क्षीयमाणसामर्थ्यानां भव्यानां सुखावबोधायैतद्वादशारनयचकशास्त्रं सप्तनयशतारचक्राध्ययनमहासमुद्रादेवोद्धृतमित्या - 15 शयं वर्णयति - सत्स्वपि पूर्वाचार्येति । दुष्षमेति, दुःषमानामा कालविशेषो वर्त्तमानकालः स एव दोषः, तद्बलेन प्रतिदिनं प्रक्षीयमाणाः मेघाऽऽयुर्बलोत्साहश्रद्धासंवेग्श्रवणधारणादिशक्तयो येषां तेषां भव्यजीवानां तावत्तत्तद्रन्थार्थश्रवणे प्रवृत्तिरेव दुर्लभा, कथंचित् श्रवणेऽपि तत्तत्त्वावबोधो दुर्लभः, तत्त्वं कथमपि बुद्धापि व्यवहारे परप्रतिबोधनाय प्रवृत्तिर्दुर्लभा, सत्यामपि प्रवृत्तौ तग्रन्थार्थस्मरणं तदर्थपर्यालोचनं पर्यालोचितार्थं प्रतिपादनं चात्यन्तखेदाय भवतीति मत्वा तत्त्वेभ्यः खिन्नान् प्रचुर - विस्तृतं तद्व्रन्थमुदीक्ष्य भीलुकान् संक्षेपाभिलाषिणः शिक्षणीयानन्तेवासिनोऽनुग्रहीतुं भव्यसत्त्वा इमेऽल्पीयसा कालेन कथं 20 नय चक्रशास्त्रमधीयेरन्नित्येवमनुकम्पया श्रीमच्छेताम्बर मलवादिक्षमाश्रमणेन संक्षिप्तकलेवरं विस्तृतार्थं नयचक्रशास्त्रमिदमुपनिबद्धमिति भावार्थः । अथ सोपमं ग्रंथकर्तृग्रन्थचक्रादीन् वर्णयति - स्वनीतीति, खस्य नीतिपराक्रमाभ्यां विजिता अशेष प्रवादिनो येन विजिगीषुचक्रेण तमपि विजिगीषुसमूहं जेतुं शीलेन सूरिणेत्यर्थः । उपमानमाह-सकलेति, सकले भरतक्षेत्रे विजये निवासिनां नृपतीनां विजिगीषुचक्रस्यापि विजेत्रा भरतचक्रवर्त्तिनेव सूरिणेत्यर्थः । विशेषणान्तरमाह - देवतापरिगृहीतेति यस्य भरतचक्रवर्त्तिनश्चक्ररत्नं देवताधिष्ठितमप्रतिहतं तथाविधेन तथा निजपुत्रपौत्रादिपरम्परानुगामिलोकव्यापिनिर्मल महाकीर्त्तियुतेन चेति भावः 25 सूरिर्नयचक्ररत्नं न्यबध्नात् भरतचक्रवर्त्तिरपि पुत्रपौत्रादिनृपतीनां चरत्नम्, तत् किमर्थमित्याशङ्कते - चक्रवर्त्तिनामिवेति । समाधत्ते-चक्रवर्त्तिनामिवेति, इवशब्दो भिन्नक्रमः, चक्रवर्त्तिनां चक्रवर्त्तित्वसिद्धय इवेति योजना, सङ्घगतानां सङ्घवर्त्तित्वसिद्धय इवेति तदर्थः । जैनानां जिनशासनप्रभावनाविधानोद्यतानां वादिचक्रवर्त्तित्वसिद्धये नयचक्ररत्नं विहितमिति दर्शयतिवादिनामिति, एते जैनाः स्वात्मनो वादिचक्रवर्त्तित्वं विदध्यादित्याशयेनेति भावः । इदमेव प्रयोजनमित्याह - वादीति । स्वप्रन्थनाम निर्दिशति - द्वादशेति, ईदृशं प्रन्थरत्नमिदं सिद्धप्रतिष्ठितं सिद्धा-अव्याहता प्रतिष्ठा गौरवं तदस्य संजातमिति 30 १ सि.क्ष. छा. डे. 'द्वारेण । २ सि. भ. छा. डे. विजये । For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy