________________
mmmmmmmm
१२०२
न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् ह[ष्ट]देशान्तरो मौर्यकुमारोऽन्यथा ब्रुवन् , एकावस्थामात्राभिधायी वा मैत्रकमुग्धकुमारोऽन्यः, तथाऽर्हन यथाभूतमित्यादि, सर्वावयवप्रभेदं वस्तु निरवशेषं ब्रुवन्ननुमीयतां तत्र निरावरणज्ञान इति, तत्र निरावरणज्ञानत्वेन व्याप्तत्वाद्धेतोः विवक्षितधर्मसाध्यत्वान्न विरुद्धा दिदोषाः, साधनस्यास्य प्रसाधितत्वाञ्च सर्वस्य सर्वत्र हेतुत्वप्रज्ञप्तेः, अर्हत्संदेशकथनव्यापृतस्याद्वादिसर्वज्ञत्वप्रसङ्गोऽप्यनिष्टो न भवति, अनुमानमपि सर्वभाव। स्वभावज्ञत्वात् स्याद्वादिनः, न्यायव्यवहारलोपप्रसङ्गः सपक्षविपक्षादिव्यवस्थालोपप्रसङ्गादिति चेन्न, प्रत्येकनयविवक्षाविषयायाः परमतापेक्षविधिपक्षादिव्यवस्थायाः प्रज्ञप्तेः परिहताशेषदोषाशङ्कमेवैतत्साधनमिति ।
अधुना तु शास्त्रप्रयोजनमुच्यते
सत्स्वपि पूर्वाचार्यविरचितेषु नयशास्त्रेषु तस्मिंश्चार्षे सप्तनयशतारचक्राध्ययने च द्वादशारनयचक्रोद्धरणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुबलोत्साहश्रद्धासंवेग10 श्रवणधारणादिशक्तीनां संक्षेपाभिवाञ्छिनां शैक्षकजनानामनुग्रहाय विहितं श्रीमच्छेतपट
मल्लवादिक्षमाश्रमणेन स्वनीतिपराक्रमविजिताशेषप्रवादिविजिगीषुचक्रविजयिना तदिदं नयचक्ररत्नं चक्रवर्तिनामिव चक्ररत्नं जैनानां वादिचक्रवर्तित्वविधये सिद्धप्रतिष्ठितम् , प्रतिष्ठितसिद्धविजयावहजगन्मूर्धस्थसिद्धवदिति ॥
mam
द्वीपविशेषे संजातस्तत्रैव सम्यक् प्रवृद्धोऽदृष्टदेशान्तरः पलाशं सदैव सर्वत्र सम्पन्नपत्रपुष्पफलछायं यदि ब्रूयात् न स तत्र निरावरणज्ञान इति भावः सम्भाव्यते । एतद्देशापेक्षयैव वैधर्म्यनिदर्शनमाह-एकावस्थेति, मैत्रकस्य कश्चिन्मूढः कुमारः 15 पलाशं नानावस्थखतत्त्वं सर्वकालमनिष्पन्नपत्रपुष्पफलछायं वा अङ्गार कितमित्येव वा किसलयितमेवेति वा सर्वकालमेकावस्थामात्रं
ब्रुवन्न निरावरणज्ञान इति भावः। तदेवं साधर्म्यवैधर्म्यदृष्टान्ताभ्यां तत्र निरावरणज्ञानत्वेन यथाभूतनिरवयवप्रभेदवस्तुविषयसम्यगभिधातृत्वस्य हेतोाप्तत्वाद्विवक्षितसाध्यसाधनसमर्थत्वेन नात्र विरुद्धादिदोषाः सम्भवन्तीत्याह-तत्र निरावरणेति । एवञ्चानेकान्ते सम्यगवलोकिते न स कश्चिद्यो न हेतुः, तृणादिरपि यस्यां कस्यांचित् प्रतिज्ञायां हेतुर्भवति, सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तेः, तस्मात् सर्वमेकात्मकं एकं च सर्वात्मकं सर्वं च सर्वात्मकमित्यादि, तत एवैकं यो वेद स सर्व वेद यः सर्व वेद 20 स एकं वेदेत्यादि प्रागुदितरीत्या यथाभूतसप्रभेदस्य सम्यगभिधातृत्वं प्रसाधितमेवेसाह-साधनस्यास्येति । शङ्कते-अर्हदिति।
यः स्याद्वादी भगवदर्हतः सन्देशं लोके कथयति सोऽपि सर्वज्ञः स्यात्, यथाभूतसप्रभेदस्य वस्तुनः सम्यगभिधातृत्वात् , यथाभूतसप्रमेदस्य वस्तुनः सम्यगभिधानं हि अर्हत्संदेशः, तथाविधस्याद्वादिनां सर्वज्ञत्वं नेष्टंमिति सर्वज्ञप्रसङ्गः, तथा च हेतुर्व्यभिचारी स्यादिति भावः। अनुमानमपि दर्शयति-अनुमानमपीति, स्याद्वादी सर्वज्ञः सर्वभावखभावज्ञत्वादर्हद्वदिति भावः । भवतु सोऽपि सर्वज्ञ इत्यत्राह-न्यायव्यवहारेति, न्यायस्य व्यवहारस्य च लोपः प्रसज्यते. यतो हि भगवता सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तेः सर्वस्य सर्वत्र हेतुत्वं प्रज्ञप्तं, स्याद्वादिनापि तथैवाभिधानेऽयं पक्षोऽयं सपक्षोऽयं विपक्षो नान्योऽयमेव हेतुरयं न हेतुरित्यादिव्यवस्थाया अभावेन न कोऽपि न्यायो व्यवहारो वा स्यादिति भावः। इत्यमर्हत्संदेशकथकस्याद्वादिनः प्रसक्तं सार्वज्ञं निराकरोति-प्रत्येकनयेति, तस्य हि प्रज्ञप्तिः प्रत्येकनयविवक्षाविषयिणी परमतापेक्षया प्रसिद्धविधिनिषेधपक्षसपक्षादिव्यवस्थामाश्रित्यैव तत्प्रज्ञप्तेर्भावान्न सर्वज्ञत्वापत्तिः तस्मान्न भगवद्वत् सर्वभावखभावज्ञ इत्युक्तसाधने न कश्चिद्दोष इति भावः । तदेवं
नयचक्रशास्त्रप्रतिपाद्यनिरूपणं प्रविधाय सम्प्रति विद्यमानेष्वपि पूर्वाचार्यप्रणीतनयशास्त्रेषु नययकशास्त्रस्यास्य विधाने कारणमाह30 सत्स्वपीति । भगवदहत्प्रणीतं सप्तनयशतारचक्राध्ययनं तच्च नैगमादिसप्तनयानां प्रत्येकं शतसंख्यप्रभेदात्मकं तदनुसारीणि
सि.क्ष. छा. डे. व्यावृत्त ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org