________________
Amwww
भगवतस्सर्वशता] द्वादशारनयचक्रम्
१२०१ अर्हज्ज्ञानं नापर्यायेऽस्तीति ज्ञानस्य सर्वार्थेष्वव्याहतवृत्तित्वादनवधृतविषयत्वात् तस्य च वस्तुनोऽनन्तत्वात् यु[ग]पदनन्तार्थवृत्तिज्ञान एव तद्वस्तुस्वतत्त्वं वेत्ति नान्यः, स चाहन्नेवेत्यत आह
भगवांस्त्वर्हन् यदेतत् सर्व नाम तत्र निरावरणज्ञानः, तस्य यथाभूतसप्रभेदस्य सम्यगभिधातृत्वात् , यस्य यथाभूतप्रभेदवस्तुविषयसम्यगभिधातृत्वं स तत्र निरावरणज्ञानो दृष्टः, तद्यथा मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वं देशकालाकारप्रमाणादिविशिष्टं शिशिर-5 वसन्तनिदाघवर्षाशरद्धेमन्तेषु तां तामवस्थां बिभ्रतं पलाशं त्वङ्मात्रोऽङ्गारकितः किसलयितः पत्रित इत्यादि ब्रुवन् , तथाऽर्हन् यथाभूतं वस्तु निरवशेषं ब्रुवन्निरावरणज्ञान इत्यनुमीयताम्।
(भगवानिति) भगवास्त्वहन् यदेतत्सर्वं नाम तत्र निरावरणज्ञानः-सर्वार्थे वस्तुनि निरावरणमव्याहतमस्य ज्ञानमित्यर्थः, तस्य यथाभूतसप्रभेदस्य सम्यगभिधातृत्वात्-तस्य-सर्वाख्यवस्तुनो यथाभूतंयद्यद्भूतं यथाभूतं वीप्सार्थत्वाद्यथाशब्दस्य, येन प्रकारेण भूतं वा वस्तु सप्रभेदं-सप्रतिपक्षनित्यकारणैक- 10 सर्वगतादिसङ्ग्रहविशेषप्रस्तारात्मकानन्तभेदप्रभेदं तच्च वस्तु तैरनन्तैर्भेदैरवयवैरशेषैः सह स्याद्वादे अनेकनयविकल्पयुक्तमतः सर्वाख्यवस्तुनि च[]शेषावयवप्रभेदकविषयसम्यगभिधायित्वमस्य सिद्धम् , समस्तनयात्मकत्वात् स्याद्वादस्य, यस्य यथाभूतनिरवयवप्रभेदवस्तुविषयसम्यगभिधातृत्वं स तत्र निरावरणज्ञानो दृष्टः, तद्यथा-मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वस्य देशकालाकारप्रमाणादिविशिष्टस्य शिशिरवसन्तनिदाघवर्षाशरद्धेमन्तेषु तां तामवस्थां बिभ्रतं तथा विशेष्य त्वङ्मात्रोऽङ्गारकितः किसलयितः पत्रित 15 इत्यादिब्रुवन् मैत्रकः पलाशं निरवयवप्रभेदं तत्र निरावरणज्ञान इति प्रसिद्धो न रेवतीद्वीपपमध्यजातसंवृद्धा
wwwww
तिनिमित्ताविर्भाव अक्षलिङ्गशब्दादिनिमित्तान्तरानपेक्षञ्च तथाविधकेवलज्ञानेन भगवान् यद्यद्वस्तु यद्यद्भावेषु प्रयोगविस्रसाभ्यां परिणमति तत्तद्विजानाति, तज्ज्ञान नापर्यायविषयम्, यदि तज्ज्ञानं द्रव्यमात्रविषयमवधारणरूपं स्यात्तर्हि तत् पर्यायग्रहणे केनचित्प्रतिहतवृत्तीति वक्तव्यं स्यात्, परन्तु तज्ज्ञानं न तथाविधम् , अपि तु सर्वार्थेष्वव्याहतवृत्ति अत एवानवधृतविषयम् , एवञ्च तस्य वस्तुनोऽनन्तत्वात् , एवम्भूतवस्तुखतत्त्वञ्च स एव जानाति यस्य ज्ञानं युगपदनन्तार्थेषु वृति भवेत् , नान्यः, 20 तस्मात्तथाविधज्ञानवानहन्नेव न त्वन्य इति भावः । अमुमर्थ मानेन दर्शयति मूलकारः-भगवाँस्त्वहन्निति । भगवाँस्त्वर्हन् निखिलार्थविषयनिरावरणज्ञान इति प्रतिज्ञामाह-भगवानिति । हेतुमाह-तस्येति । हेतुं व्याचष्टे-सर्वाख्यवस्तुन इति। यथा शब्दस्य वीप्सार्थतामाश्रित्याह-यद्यद्भूतमिति । येन प्रकारेण यथेति प्रकारार्थथालप्रत्ययघटितयथाशब्दाश्रयेणाह-येन प्रकारेणेति । सप्रमेदशब्दार्थमाह-सप्रतिपक्षेति, प्रभेदेन प्रतिपक्षेणानित्यकार्यानेकासर्वगतादिना सहितं नित्यकारणैकसर्वगतादि, अर्थात् सङ्ग्रहविशेषप्रस्तारात्मकानन्तभेदप्रभेदरूपं वस्तु स्याद्वादे निःशेषैरनन्तभेदप्रभेदैः सहानेकविकल्पयुक्तं वर्तते, 25 तस्मादेव स्याद्वादप्ररूपके भगवति सर्वाख्यवस्तुविशेष्यकाशेषावयवप्रभेदप्रकारकयथार्थाभिधायित्वं सिद्धमिति भावः। कारणमाहसमस्तेति. स्याद्वादो हि निखिलनयसमूहात्मक इति भावः । व्याप्तिं दर्शयति-यस्येति । यो हि यद्वस्तुविशेष्यकाशेषावयवप्रमेदप्रकारकसम्यगभिधाता स तद्विषयनिरावरणज्ञानो दृष्ट इत्यर्थः । दृष्टान्तमन्वयमाचष्टे-मैत्रक इवेति । पलाशवतत्वं हि देशकालाद्यपेक्षया तत्तदृतुविशेषेषु त्वगङ्गारकिसलयपत्रफलितादिप्रभेदं भवति, तथावस्थं पलाशं तत्तदपेक्षया विशेष्य त्वङ्मात्रोऽनारकितः किसलायितः पत्रितः फलित इत्येवं निरवयवप्रमेदं ब्रुवन् मैत्रकस्तद्विषये निरावरणज्ञानो भवतीति प्रसिद्ध इति 30 भावः। वैधर्म्यदृष्टान्तमाह द्वीपविशेषमात्रवर्तिपुरुषापेक्षया-न रेवतीद्वीपेति, मौर्यकुमारः कश्चित् सदा सर्वर्तुगुणयुते रेवती
१ सि.क्ष. छ.डे. प्रसिद्धेन ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org