________________
१२००
न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् येन त्वेवंविधमित्यादि, साधनं-स्याद्वादसत्यत्ववैधर्म्यमात्रप्रकाशनं परवादप्रयासविफलीकरणसाधनं वा य-एवंविधस्याद्वादाधिगम्यानेकान्तात्मकवस्तुज्ञानरहितः पुमान् नासौ कस्यचिद्वस्तुनोऽवयवमात्रस्यापि ज्ञाता तदेकदेशमात्रस्यैव परिगृहीतत्वात्-नित्यानित्यत्वाद्यनन्तधर्मात्मके वस्तुनि नित्यमेवानित्यमेवेत्याद्यभिनिविष्टबुद्धित्वात् , तदेव व्याचष्टे-अनवधार्यस्यावधारयितृत्वात्-इदमेव इत्थमेवेत्यनवधारण5 योग्यस्यावधारणक[]त्वात् , किमिव ? त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्-यथा क्षेत्रविषये कश्चित् परिशटितसकलपलाशं तमवलोक्य कस्मिंश्चित् कालविशेषे ब्रूयात् सर्वकालमेव[1]निष्पन्नपुष्पफलच्छाय इति, चैत्रमासे चाङ्गारकितमिव वनदवज्वालामालापरीतमिव वाऽशोककुसुमसदृशकुसुमं मृगगमभयजननमवलोक्य ब्रूयात् हव्यवाहन एवायं सर्वकालमिति स तत्कालक्षेत्रमात्रनियतपलाशवतत्त्वग्राहित्वात् व्यङ्गुलमात्रप्रज्ञाभिरामीरीभिरपि संवेद्यं यत् ऋतुवशापदेश्यनानारूपानेकान्ताङ्कुरकिसलयपत्रकुसुमफलादिविचित्रावस्थं 10 खंतत्त्वं तन्न वेत्ति, द्राधीयःकालविसर्पिविज्ञानहीनत्वात् , तदन्यतमावस्थामात्रावलम्बिहसिष्ठज्ञ[ न]त्वात् एवमेकान्तवादिनो वस्तुतत्त्वानभिज्ञत्वमिति ।
युगपदनन्तद्रव्यपर्यायपरिणतिविषयाव्याहतनिरावरणस्वपरिणतिनिमित्ताविर्भावाक्षलिङ्गशब्दादिनिमित्तान्तरा[न] पेक्षकेवलज्ञानोऽर्हन् भगवान् यत् यद्यद्भावे परिणमति विस्रसाप्रयोगाभ्यां तत्तदवैति तथा
वादिनामेकान्तात्मकवस्तुप्रतिपादनप्रयासवैफल्यप्रदर्शकसाधनप्रतिपादनपर इत्याह-स्याद्वादेति । एवंविधवस्तुविषयविज्ञानरहितः 15 पुमान् कस्यचिदपि वस्तुनोऽवयवमात्रविषयविज्ञानेनापि शून्य इति प्रतिजानीते-एवंविधेति । अज्ञातृत्वे हेतुमाह-तदेकदे
शमात्रस्यैवेति, नित्यानित्याद्यनेकान्तात्मकवस्तुनो नित्यमेव वस्तु, अनित्यमेव वस्त्वित्येवमितरधर्मव्यावर्तनपूर्वकमेकधर्मवत्तया आग्रहेण विज्ञानादिति भावः । हेतुं टीकाकारो व्याकरोति-नित्यानित्यत्वादीति । मूलकृव्याख्या दर्शयति-अनवधार्यस्येति । नित्यमेवेत्याद्यवधारणायोग्यस्य वस्तुनस्तथाऽवधारणविधानादित्यर्थः । व्याचष्टे-इदमेवेति, घट एवानित्यः न परमाण्वादिरिति, घटोऽनित्य एव न नित्य इत्येवमवधारणायोग्यस्येत्यर्थः । निदर्शनमाह-त्वगङ्गारकितेति, कालविशेषे पलाश ० त्वङ्मात्रावशिष्टं विगलितपत्रादि दृष्ट्वा कश्चित्सर्वदेवायं त्वयात्रतत्त्वमिति पाटलकुसुमपरिपूर्ण तमेव कालविशेषे दृष्ट्वा सर्वकालमेवार्य
जलन एवेति वाऽनवधार्यमवधारयति तद्वदित्यर्थः । दृष्टान्तं स्फुटयति-यथेति, परिशटितसकलपलाशं पक्कतः परिपतितसकलपलाशपत्रम् , अनिष्पन्नाः पुष्पाणि फलानि छाया च यस्य सोऽनिष्पन्नपुष्पफलछायः, वनदवस्य ज्वालामालाभिर्व्याप्तमिव, अशोककुसुमसदृक्षकुसुमः पलाशोऽझारकित इवास्ते, दावानलज्वालामालालिङ्गितत्वसदृक्षत्वाच्च मृगगणभयजनकः, एवंविधं पला
शवृक्षमुवीक्ष्य सर्वकालमेवार्य हव्यवाहन एवायमिति यो गृह्णीयात् स कालविशेषक्षेत्र विशेषनियतपलाशतत्त्वग्राही न तु वास्तविका25 नेकावस्थवस्तुतत्त्वग्राही, अल्पप्रज्ञामिभिल्लवनिताभिः संवेदनीयमपि तत्तदृतुविशेषसहकारेण नानाखरूपमनेकान्तात्मकमकुरकिस
लयपत्रकुसुमफलादिविचित्रावस्थं पलाशादिखतत्त्वं न विजानाति, प्रचुरकालव्यापिविज्ञानशून्यत्वात् , अत एव च वर्तमानकालमात्रवय॑न्यतमावस्थामात्रग्रहणसमर्थ हखं ज्ञानं बिभर्ति, एवमेवैकान्तवादिनोऽपीति भावार्थः । एवंविधवस्तुपरिज्ञाता भगवानहन्नेव, नान्यः' 'जं जं जे जे भावे परिणमइ पयोगवीससा दव्वं । तं तह जाणाइ जिणो अपजवे जाणणा पत्थि ॥ इति गाथाभावार्थमाह-युगपदिति, भगवतोऽर्हतः केवलज्ञानं युगपदनन्तद्रव्यपर्यायपरिणतिविषयं अव्याहतं निरावरणं खपरिण
सि. क्ष. छा. डे. यथामैत्र. । २ सि.क्ष. छा. प्रयाद्रव्यएवा.।३सि.क्ष. छा. डे. यध्वनुवशा.। ४सि.क्ष. छा.डे. स्वतत्त्वतेनचेन्निद्रा.। ५ सि.क्ष. छा. डे. 'वलेहिहसिष्वज्ञत्वात् । ६ सि.क्ष. छा. डे. यद्यात्यानावात्परिणमिति हि विस्तसा।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org