________________
परेषामझत्वोक्तिः] द्वादशारनयचक्रम्
११९९ दमहासमुद्रस्यानन्तनयतरङ्गभङ्ग[पारा]वारपारीणस्य संख्यां कर्तुं शक्नुयात् , किन्त्वस्यां दिशि प्रदर्शितायां विपश्चिता दिशमुपपातिना शेषं तथाऽनुगन्तव्यम् , एवञ्चानेकान्ते सम्यगवलोकिते न स कश्चिद्यो न हेतुः, तृणादिरपि यस्यां कस्यांचिदप्यनित्यः शब्द इत्यादिकायां प्रतिज्ञायां हेतुर्भवति–अनेकान्तवादिनोऽनन्तहेतुः कस्मात् ? सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तः-एकैको द्रव्यार्थः सर्व एकैकसर्वद्रव्यार्थतया विपरिवर्तितः सर्वपर्यायार्थतया च, तथा सर्वपर्यायार्थः सर्वो द्रव्यपर्यायार्थतया विपरिवर्त्तते, तेषु तेषु नय- 5 दर्शनेषु स्वविषयव्यवस्थापनविदग्धेषु विस्तरेण प्रदर्शितं सर्वद्रव्यपर्यायार्थविकल्पात्मकमेकैकं वस्तु, तस्मात् सर्वमेकात्मकमेकञ्च सर्वात्मकं सर्वश्च सर्वात्मकमित्यादि, तत एवैकं यो वेद स सर्वं वेद, यः सर्वं वेद स चैक वेद, यथोक्तं-'जे एगं जाणति स सव्वं जाणति, जे सव्वं जाणति, स एगं जाणति' (आचा० ४-१४४) इति, तथा-‘एको भावः सर्वभावस्वभावः सर्वे भावा एकभावस्वभावाः । एको भावस्तत्त्वतो येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः ॥' (
) इति, स्याद्वादिनाञ्च सर्वभावस्वभावैक- 10 भावत्वादेकभावस्वभावसर्वभावत्वाच्च यः कश्चित्तृणादिरप्यों हेतुर्भवत्येव यस्यां कस्याञ्चित् प्रतिज्ञायामिति साधूक्तम् ।
येन त्वेवंविधं वस्तु न ज्ञायते नासौ कस्यचिद्वस्तुनोऽवयवमात्रस्यापि ज्ञाता, तदेकदेशमात्रस्यैव परिगृहीतत्वात् , अनवधार्यस्यावधारयितृत्वात् , त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत् । एवञ्चेति, यस्याः कस्याश्चित् नित्यादिप्रतिज्ञायाः सर्व वस्तु हेतुर्भवितुमर्हति, न तादृग् वस्तु यो हेतुर्न भवेत् तृणादि घटादि सर्व हेतुर्भवतीति भावः । एवञ्चानेकान्तवादिन एकस्या अपि प्रतिज्ञाया अनन्ता हेतवः सम्भवन्ति, न तस्य हेतुदौर्लभ्यम् , सर्वस्य सर्वात्मकत्वेन सर्वेण साकं सर्वस्याविनाभावावश्यम्भावादित्याह-अनेकान्तवादिन इति । हेतुमाह-सर्वस्येति । सर्वस्य द्रव्यस्य सर्वस्य च पर्यायस्य सर्वद्रव्यार्थतया सर्वपर्यायार्थतया च विपरिणामादित्यर्थः । हेतुं व्याचष्टे-एकैक इति, प्रत्येक द्रव्यार्थः सर्वात्मकतया-सर्वव्यतया सर्वपर्यायतया च विपरिवर्तते सर्वे पर्यायार्थाः सर्वपर्यायतया सर्वद्रव्यतया च विपरिवर्तन्ते, 20 उक्तं हि घटपटादिद्रव्यमेव सकलद्रव्यतया निखिलपर्यायतया रूपादिपर्याय एव च घटपटादिसर्वद्रव्यरूपतया सर्वपर्यायरूपतया च विपरिवर्तत इति तत्तन्नयनिरूपणावसरे इति भावः । इदमेवाह-तेषु तेष्विति, स्वखविषयव्यवस्थानपटिष्ठेषु नयेषु सर्वद्रव्यार्थविकल्पात्मकत्वं सर्वपर्यायार्थविकल्पात्मकत्वं प्रत्येकवस्तुनः प्रतिपादितमेवेति भावः । एतदेव दिशा दर्शयति-तस्मादिति, सर्वमेकैकात्मकं, एकैकं सर्वात्मकं एकं सर्वात्मकं सर्व सर्वात्मकमिति वस्तुगतिमनुरुध्य व्याख्यातमेवेति भावः। एवञ्च तत्फलमाहतत एवेति । एकैकस्य वस्तुनः सर्वव्यपर्यायार्थविकल्पात्मकत्वादेव एक वस्तु यो जानाति स सर्व वस्तु जानात्येव, सर्वञ्च 25 यो जानाति स एक जानात्येव, सर्वस्यैकात्मकत्वादेकस्य सर्वात्मकत्वाच्चेत्यर्थः । अत्रैवाऽऽगमं प्रमाणयति-यथोक्तमिति । तथान्यवचनान्तरमाह-एको भाव इति, सर्वभावस्वभावत्वमेकभावस्य, एकभावस्वभावत्वं सर्वभावानामिति वस्तुस्थितिः, तथा च येन धीमता सर्वभावस्वभावत्वेनैको भावो दृष्टस्तेन सर्वे भावा दृष्टा एव तत्त्वत इति भावः । अत एव नित्यत्वादिप्रतिज्ञायां यः कश्चित्तृणादिरपि हेतुर्भवत्येव, स्याद्वादिनां मतेनैकभावस्य सर्वभावखभावत्वात् सर्वभावस्य चैकभावस्वभावत्वात् कस्यापि दोषस्थानवतारादित्याह-स्याद्वादिनाश्चेति । जैनशासनसत्यत्वसाधकतत्तन्नयदर्शन विकल्पैकवाक्यात्मकत्वविधिनियम-30 भङ्गवृत्त्यात्मकत्व-सम्यक्सम्प्रसिद्ध्युपनिबन्धनसम्प्रतिष्ठितार्थत्वादिसाधनैः सत्यभूतजैनशासनप्रतिपाद्यानेकान्तात्मकवस्तुस्खतत्त्वपरिज्ञानविधुरो न किमपि जानातीत्याह-येनेति । ग्रन्थोऽयं जैनसत्यत्ववैधर्म्यभूतेतरवादासत्यत्वप्रकाशकसाधनप्रतिपादकः यद्वा पर
द्वा० न० २६ (१५१)
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org