SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ११९८ न्यायागमानुसारिणीव्याख्यासमेतम् [ तुम्बनिरूपणम् एक एव, एवं सर्वसङ्ग्रहेणैताः प्रतिज्ञाः, तासाञ्चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतियुतानि ( ४०९५) विकल्पशो भवन्ति, एवञ्च प्रतिज्ञाभङ्गहेतु भङ्गाश्चान्योन्यगुणिता भङ्गानामेका - कोटी - सप्तषष्टिः शतसहस्राणामेकोनसप्ततिश्च सहस्राणां पञ्चविंशेति (१६७६९०२५), एवं तावन्नित्यादिप्रतिज्ञासु भङ्गानां भेदाः । ww www.m ( तथा हीति ) तथा ह्ययमेव प्रयोगार्थो योऽस्माभिरुपसंहृत्य शास्त्रपिण्डितार्थत्वेनोक्तः विधिविध्यादीति, एक एव चायं हेतुः प्रत्येकनयविवक्षया विद्यते, अन्यतम प्रयोगेऽपि सामर्थ्यात्सर्वसम्भवात्, तत्र यस्मिन् कस्मिंश्चित् साधने - नित्यानित्यादीनामन्यतमस्मिन् पक्षे प्रयोगविधयो भवन्ति - विकल्पा भङ्गा इत्यर्थः, तेषां - द्वादशानां भङ्गानामेकैकयोगे द्वादश भङ्गाः, द्विकयोगे षट्षष्टिः, विधिश्च विधिविधिश्च सहितावेको भङ्गः, एवं विधिरेकैकेनैकादशानां योज्यः तथा विधिविधिः, तथा विधिविधिनियमः, विधिनियमश्च, एवमष्टानां 10 शेषाणामपि भङ्गानां द्विकयोगे षट्षष्टिर्भवति एतेनैव संयोगविधिना त्रिकसंयोगे द्वे शते विंशे, इत्यादिनाऽऽचार्येणैव भङ्गविधिरुक्तो यावद् द्वादश [ योगे एक ] एवेति, एवं सर्वसङ्ग्रहेणैताः प्रतिज्ञाः, एवं तावचत्वारि सहस्राणि पञ्चनवतियुतानि तासां चैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतियु [ता ] नि ( ४०९५ ) विकल्पशो भवन्ति, हेतौ हेतौ च प्रतिज्ञा अपि तावत्य एव, सर्वस्य परस्पराविनाभावेन नयभङ्गानामुक्तत्वात् एवञ्चेत्यादिना, प्रतिज्ञाभङ्गा हेतुभङ्गाञ्चान्योऽन्यगुणिता भङ्गानामेका कोटी सप्त15 षष्टिः शतसहस्राणामेकोनसप्ततिश्च सहस्राणां पञ्चविंशेति, ( १६७६९०२५ ) एवं तावन्नित्यादिप्रतिज्ञासु द्वादशानां भङ्गानां भेदा उक्ताः, एवं कारण सर्वगतैकत्वादिप्रतिज्ञासु विध्यादिद्वादशभङ्गभेदाः प्रत्येकं नेतव्याः । www 5 एवमयमनेकान्तवाददिगुपदर्शिता, एवञ्चानेकान्ते सम्यगवलोकिते न स कश्चिद्यो न हेतुः, तृणादिरपि यस्यां कस्याश्चित् प्रतिज्ञायां हेतुर्भवति, सर्वस्य सर्वात्मकत्वेन सर्वद्रव्य पर्या20 यार्थविपरिवृत्तेः, तस्मात् सर्वमेकात्मकमेकञ्च सर्वात्मकं सर्वश्च सर्वात्मकमित्यादि तत एवैकं यो वेद स सर्व वेद यः सर्व वेद स एकं वेद । ( एवमिति ) एवमियमनेकान्तवाददिगुपदर्शिता, कोऽस्य भगवतो महतो महानुभावस्य स्याद्वाप्रयोगः प्रत्येकनयविवक्षया, एवं विधिविध्यादिप्रत्येकनयविवक्षया प्रयोगा वाच्याः सर्वत्र हेतुरयमेक एव, अन्यतमनयप्रयोगेऽपि अन्योऽन्याविनाभावित्वेन सर्वनयार्थसम्भवादित्याह एक एव चायमिति । अथ नित्यानित्यैकानेक कारणकार्य सर्वगतासर्वंग25 तसामान्यविशेषादिषु यस्मिन् कस्मिंश्चित् साधने क्रियमाणे प्रयोगविकल्पान् दर्शयति-तत्र यस्मिन्निति । तथैव विधिविधिनयेन विधिविधिनियमेन विधिनियमेन एवं शेषैः प्रत्येकेन विध्यादीनामेकैकेषां योगेन षट्षष्टिद्विकयोगे भङ्गा भवन्तीत्याह तथा विधिविधिरिति । एवं त्रयाणां योगे भङ्गानाह - एतेनैवेति । निखिलप्रतिज्ञाभङ्गानां निरुतानां संख्यामाह एवं तावदिति । प्रत्येकत्वपेक्षया तावत्य एव प्रतिज्ञा भवन्ति, सर्वेषां नयभङ्गानां परस्परमव्यभिचारित्वेन हेत्वाभासासम्भवादित्याह - हेतौ eat चेति । एवञ्च निखिलहेत्वपेक्षया प्रतिज्ञाभेदानाह - प्रतिज्ञाभङ्गा इति । संख्येयं नित्यप्रतिज्ञायाम्, इत्थमेव कारण30 सर्वगतादिप्रतिज्ञाभेदा विज्ञेया इत्याह-एवं तावदिति । एवमनेकान्तवादः संक्षेपेण द्वादशनयभङ्गापेक्षया संख्याः भङ्गानामुपदर्शिताः, विस्तरेण तु स्याद्वादमहासमुद्रस्य तरङ्गरूपाणां नयानां संख्या वक्तुं क इष्टे केवलमेवं दिङ्मात्रप्रदर्शितो विद्वान् मार्गेणानेनैव विवेचयेदित्याह - एवमियमिति । व्याकरोति - कोऽस्य भगवत इति । इत्थं भङ्गावलोकनस्य फलमाह - Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy