________________
सापेक्षनयसत्यार्थता] द्वादशारनयचक्रम्
१९९७ (जैनेति) एवञ्च सर्वनयात्मकैकवृत्तिजैन[ शासन ]सत्यत्वसाधनप्रवृत्त्यैवार्थापत्त्या शेषशासनासाधुत्वप्रतिपादनं कृतं, तदसाधुत्वप्रतिपादनेन च जैन[ शासन सत्यत्वप्रतिपादनं कृतं भवति, अन्योऽन्याविनाभावात् जैनशासनसत्यत्वेतरशासनासत्यत्वसाधनयोरेक[तर]स्य साध[ने]न साधर्म्य[वैधर्म्य दृष्टान्ताभ्यामन्वयव्यतिरेकप्रदर्शनात्मकाभ्यामर्थद्वयप्रतिपादनात् , विध्यादिनयानामेकभावे सर्वभावात् परस्परापेक्षत्वात् , एकाभावे सर्वाभावादिति, किमिव ? वर्षा भिधानमेघाभ्युन्नतिवचनवत्-यथा वृष्टिमेघोन्नमनमन्तरेण न । सम्भवतीत्यविनाभावादुच्यते तथा विध्यादीनामेकस्मिन्नप्युक्ते शेषनया अप्युक्ता एव, अन्योऽन्याविनाभावात् , प्रतिज्ञादावितरभङ्गार्थाव्यभिचारदिति यथैकस्यां नित्यप्रतिज्ञायामनित्योभयावक्तव्यादिप्रतिज्ञाऽवश्यम्भाविता तथा तत्साधनधर्माणां हेतूनां तदन्वयव्यतिरेकप्रदर्शनसाधर्म्यवैधर्म्यदृष्टान्तानाञ्चार्थाव्यभिचारात् द्वादशानामभिधानं कृतमेव भवत्यर्थतः, ततो निःशङ्कमेवैकस्मिन्नये विवक्षिते शेषनयाविनाभावात् स्याच्छब्दादिविशेषितानेकान्तसाधनप्रक्रियैव साधीयसीति प्राप्तम् ।
अत आह
तथा ह्ययमेव प्रयोगार्थो विधि-विधिविधि-विध्युभय-विधिनियमो-भयोभयविध्युभयोभयोभयनियम-नियम-नियमविधि-नियमोभय-नियमनियमाः ऐकमत्येनान्योन्यापेक्षवृत्तयः सत्याः , तत्तन्नयदर्शनविकल्पैकवाक्यात्मकत्वात् , घटवदित्येक एवायं हेतुः प्रत्येकनयविवक्षया प्रयोगेऽपि, तत्र यस्मिन् कस्मिंश्चित् नित्यानित्यादीनां साधने प्रयोगविधयो भवन्ति, तेषां 15 भङ्गानामेकैकयोगे द्वादश भङ्गाः, द्विकयोगे षट्षष्टिः, त्रिकसंयोगे द्वे शते विशे, चतुष्कयोगे चत्वारि शतानि पञ्चनवतियुतानि, पञ्चकयोगे द्विनवतियुतसप्तशतानि, षट्कयोगे चतुर्विंशत्युशत्युत्तरनवशतानि, सप्तकयोगे द्विनवतियुतसप्तशतानि, अष्टकयोगे चत्वारि शतानि पञ्चनवतियुतानि, नवकयोगे द्वे शते विंशे दशकयोगे षट्षष्टिरेकादशयोगे द्वादश द्वादशयोगे
10
विनाभावादित्याह-जैनशासनेति । व्याकरोति-एवञ्चेति । इत्थमेव च विध्यादीनामेकनयाभिधाने शेषनया अप्यभिहिता 20 एव, विध्याद्यन्यतमभावे सर्वनयभावात् , तदभावे तदभावात् , परस्परापेक्षत्वादित्याह-विध्यादिनयानामिति । तत्र निदर्शनमाह-यथा वृष्टिरिति, यथा वर्षोऽस्तीत्युक्तौ मेघोन्नतिरप्यस्तीति कथितमेव भवतीति भावः । दृष्टान्तं स्फुटयति-यथा वृष्टिरिति । दार्टान्तिकमाह-तथा विध्यादीनामिति, यथा जैनशासनं सत्यार्थमिति प्रतिज्ञाते तदन्यशासनस्यानृतत्वमपि प्रतिज्ञातं भवति तथा विधिनयः सत्यार्थ इत्युक्तावपीतरैकादशनयानां सत्यार्थत्वमुक्तम्भवति अन्योऽन्याविनाभाविवादितरभङ्गार्थाव्यभिचारादिति भावः । तत्र दृष्टान्तमाह-यथैकस्यामिति, शब्दः स्यान्नित्य इति प्रतिज्ञातायामविनाभावात् स्यादनित्यः 25 स्यादुभयम् , स्यादवक्तव्यः, स्यानित्योऽवक्तव्यः, स्यादनित्योऽवक्तव्यः, स्यादुभयोऽवक्तव्य इत्येवं प्रतिज्ञा अवश्यं भवन्त्येवेत्यर्थः, साधनादीनामपि तथाविधत्वमेवेत्याह-तत्साधनधर्माणामिति. अकृतकत्वकृतकत्वकृतकाकृतकत्वावक्तव्य साधयेवैधHदृष्टान्तानामन्वयव्यतिरेकप्रदर्शनरूपाणामप्येकाभिधानेऽपराभिधानं कृतमेव भवतीति भावः। एवञ्च विध्यादीनामेकतमाभिधाने द्वादशनयानामभिधानमर्थापत्त्याऽवश्यं कृतमेव भवति, एकनयेन सहापरनयानामविनाभावादित्याह-द्वादशानामिति । एवञ्च स्याद्वादलक्षणः शब्दः स्यान्नित्यः स्यादनित्य इत्यादिरूपेण स्याच्छन्दयुक्तानेकान्तसाधनप्रक्रियैव युक्तेत्याह- 30 स्थाच्छब्दादीति। एवञ्च सविकल्पद्वादशनयचकवाक्यानयनसाधनं नयचक्रशास्त्रसर्वार्थपिण्डनरूपं यदुक्तं प्राक् नाभिकरणावसरे तदेवोपदर्शयति-तथा ह्ययमेवेति । स्याद्वादलक्षणो विधिः सत्यार्थः, तत्तन्नयदर्शनविकल्पैकवाक्यात्मकत्वात् , घटवदिति
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org