________________
बावशनपविषयाः]
शादशारनयचक्रम् द्रव्यादि सत् परतः सत्तादि स्वत इत्यसदपि भवतीति विधिनियमं विधीयते इति ६ विधिनियमविधिनयदर्शनम् , अस्याप्यसदुत्पत्तिवाञ्छिनो नयस्यासन्निहित[भवितृकत्वात् ]खपुष्पादिवत् सतोऽसतः सदसतो वा सताऽसता सदसता वा सम्बन्धाभावात् सत्करत्वाभावाच्चासदुत्पत्त्ययुक्तेः प्रवृत्तिरूपमितरेतराभावलक्षणमभवद्भवति[व]स्त्विति ७ उभयोभयनयदर्शनम् , अस्यापि दर्शनस्य पराभावस्य विशेषस्य स्वरूपविशेषासम्भवेऽनवस्थानात् द्वयोरप्यभावसङ्कररूपादिदोषादयुक्तर्भवितृप्रधानं भवनोपसर्जनमिति ८ उभय[नियम]नयमत[म् ] ; एषु चतुषूभय[ोभय]विध्यादिषु कृतकाकृतकत्वादनित्यानित्यत्वावलम्बिचतुरवयवः प्रतिज्ञाहेतुव्याख्याविकल्पः, अस्यापि नयस्य भेदप्राधान्येऽन्वयाभावः, उपसर्जनत्वात् , भेदस्यापि तदविनाभाविनोऽभावो गगनोदुम्बरकुसुमवत् सामान्यविशेषयोरन्यतरोभयप्रधानोपसर्जनपक्षविकल्पानामत्यन्ताभावाभिमुखानां त्यागा
सम्भवति, शशविषाणादेः सत्करत्वप्रसंगात् सत्तासम्बन्धात् प्राक् द्रव्यादेविचार्यत्वाच्च, सत्तायाः सतोऽसतः सदसतो वा सत्करत्वासम्भवात् कारणसमवेतस्य खत एव सत्त्वासम्भवात् सत्तासम्बन्धात् सत्त्वे तस्य खतो निरुपाख्यत्वेनासत्त्वं स्यात् , सतश्च 10 सत्तया सत्करत्वं वैयर्थ्यान्न सम्भवति तस्मात् सतामसतां वा द्रव्यादीनां न सत्करी सत्ता, सदसतामप्यभूतत्वादप्रसिद्धत्वात्त्वन्मतेनैव न सत्करी, सत्कार्यपक्ष इव चासत्कार्यपक्षेऽपि क्रियागुणव्यपदेशाभावः, तस्मात् सामान्य विधीयते नियम्यते च विशेषोऽपि तथा, सामान्य प्रवृत्तिर्विशेषो निवृत्तिः, प्रवृत्तिनिवृत्ती अन्योन्याविनाभाविन्यौ, एवञ्च सामान्य सामान्य विशेषश्च भवतः विशेषोऽपि विशेषः सामान्यश्च भवत इति इतरेतराभावरूपेण स्वेन च भावरूपेण सदेवासत् सर्वमिति अभवद्भवनरूपं वस्त्वित्युभयोभयनयमतमित्याह-अस्याप्यसदुत्पत्तीति । भावाभावात्मकवस्तुनो भावनायां विशेषस्य पराभावरूपत्वे वगतविशेषस्याभावे 15 खत्वपरत्वयोरव्यवस्थितत्वं स्यात्, स्वं स्वं न भवति, पराभावविशेषत्वात् , परमपि परं न भवति स्वभावविशेषशून्यत्वादिति भावाभावयोर्भदेनोपादानं न स्यात् स्वपरयोरितरेतरात्मापत्तेः, एवञ्च भावाभावयोरैक्यम्, खतोऽप्यसत्त्वं परतोऽपि सत्त्वमिति सङ्करोऽपि स्यात्, भावाभावयोरुभयोः प्राधान्येऽङ्गाङ्गिभावो न स्यात् , अन्यतरप्रधानोपसर्जनभावे एतन्नयसम्मतं विशेषस्य भवितुः प्राधान्यं सामान्यस्य भवनस्यैवोपसर्जनत्वं युक्तं स्यान्नान्यथा, उपसर्जनावेव भावाभावी चेदन्येन प्राधान्येन भवितव्यम्, तदभावे प्रवृत्त्यभावादिति उभयनियमनयमतमिति भावयति-अस्यापि दर्शनस्येति । एते चत्वारो नयाः द्रव्यं भावञ्चेच्छन्ति 20 तस्मादेषु शब्दविषयः प्रतिज्ञा नित्यत्वानित्यत्वकृतकत्वाकृतकत्वरूपचतुरवयवः शब्दो नित्यानित्यः अकृतककृतकत्वादिति भाव्यमित्याह-एषु चतुर्घिति । उक्तनयमतं न युक्तम् , यदि हि भेदप्रधानो भावः स्यात् , तवेष्टोऽन्वयः भावः कथं भवितारमन्तरेण
प्राप्तं समर्थोऽखतन्त्रत्वात् तस्मादभविता. अभवितत्वादसन् खपुष्पवत्, एवं तस्यान्वयस्याभावे भेदा विप्रकीर्णा भेद्यवस्तुरहिताः स्युः, मेद्यवस्तुनोऽभावाच्च मेदा अपि न भवितुमर्हन्ति खपुष्पवदिति अन्वयोपसर्जनो मेदप्रधान इत्यसत्, एवञ्च घटादिमेदाभावः भेत्तव्याभावात्, गगनोदुम्बरकुसुमवत् , एवं निराकृतसामान्यं विशेषो वा भावोपसर्जनं विशेषप्रधानं वा, 25 निराकृतविशेषो भाव एव वा विशेषोपसर्जनं सामान्यप्रधानं वा अत्यन्तनिराकृतखातंत्र्यसामान्यविशेषं वा, अत्यन्तस्वतंत्रसामान्यकक्षसामान्यविशेषं वा वस्तु न भवति, सर्वेषु विकल्पेष्वणुभावापत्तिदोषदर्शनात्, तस्मादग्नीन्धनयोरिव सामान्यविशेषयोरेकत्व- . नानात्वोभयत्वानुभयत्वान्यतरप्रधानोपसर्जनत्वानां सर्वथाऽघटमानत्वात् सर्वथाप्यवक्तव्यतैवेति नियमनयमतमित्याह-अस्यापि नयस्यति। सर्वमप्यवक्तव्यमेवेति मतमप्ययुक्तमेव, स्ववचनविरोधादिदोषात् , तदेव विधीयते तदेवापोद्यते, अवक्तव्यत्वं विधीयते. अवक्तव्यशब्देनोच्यमानत्वादपोद्यते, सर्वोक्तानृतपक्षवत्, एकत्वप्रतिषेधेऽन्यत्वस्यान्यत्वप्रतिषेधे एकत्वस्य सिद्धेरेवमुभयत्वानुभय-30 त्वयोरपि, न चोभयतोऽपि प्रतिषेधे कतमत्तद्वस्तु यदवक्तव्यं भवेत् , किं भावो विशेष उभयं वा, भावादेरेकत्वादीनि यद्यप्रविभागेन पुरुषादिवत्तर्हि सति द्वितीये तेन सहासंपर्कादेक स्यात्, द्वितीयन्तु नास्ति, उपाख्यानाशक्यत्वेन प्रतिषिद्धत्वात्, यदि प्रविभागेन तदपि न. सहासहभवनस्य द्विष्ठत्वादित्यादिना निषिद्धत्वात् , एवमन्यत्वादीन्यपि, अवक्तव्यशब्दस्य च प्रतिपक्षः सम्भाव्यते नज्युक्तत्वादब्राह्मणवत्, संवृत्त्या तु न वाग्व्यवहारः, अवक्तव्यत्वस्यापरमार्थत्वापत्तेः धर्मधर्मिविभागव्यवस्थाभावात् प्रतिपादनप्रमाणाभावेनावक्तव्यं वस्त्वविदितमेव स्यात् , अनिरूपितवस्तुवतत्त्ववादिनचावावित्वं प्रसज्यते, तस्माद्रूपादय एव 35 समुदायिनः वस्तु भवति, न समुदायः रूपाद्यन्यतमानात्मकत्वात् खपुष्पवत्, प्रत्येकंवृत्तरूपादिर्भेदरूपैव, न सामान्यम्,.
द्वा० न० २५ (१४९)
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org