________________
न्यायागमानुसारिणीव्याख्यासमेतम् [ तुम्बनिरूपणम् विध्युभयनयदर्शनस्य प्रकृतिपुरुषयोर्गुणत्रयव्यवस्थानुपपत्तेः स्थित्युत्पत्तिविनाशानात्मकत्वादसत्त्वापत्तेश्व भावद्वैतं भाव्यभवितृभेदात् प्रतिविशिष्टबुद्धिस्वतंत्राधिष्ठात्रधिष्ठेयास्वतंत्रत्वद्वैविध्यात् ईश्वरेशितव्यात्मकं द्वैतमिदमिति, एतस्यापि प्रकृतिपुरुषस्य परस्परात्मानापत्तौ कर्मफलसम्बन्धाभावे संसारमोक्षाद्यनुपपत्तेः, ईश्वरस्यापि च प्रवर्त्यपुरुषकर्मकृतत्वात् कर्मणां पुरुषकृतत्वात् आत्मनैवात्मनः कार्यकार[ग]त्वादेकं सर्व 5 सर्वश्चैकमिति विधिनियम्यत्वात् ४ विधिनियमनयदर्शनमिति, एषां चतुर्णा द्रव्यार्थत्वादकृतकनित्यत्वै. कान्तः। भवितृभवनयोर्द्रव्यक्रिययोरन्यतरप्रधानोपसर्जनत्वानुपपत्तिरभावापत्तेरतो विधिनियमौ प्रधानावेव द्रव्यभावपरिग्रहात्मकाविति ५ उभय[नय]दर्शनम् , अस्यापि नयस्य परस्परनिरपेक्षस्वातंत्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशस्वावस्थयोरभावत्वं खपुष्पवदतः परतः स्वतश्च तद्व्यक्त्याकृत्याख्यं गुणप्रधानभावेन
अनापन्नस्य सन्निधिभवनस्य पुरुषस्याभावात् , आपत्तिभवनस्यापि प्रधानस्य भाव्यत्वेन भावायितारमन्तरेणानुपपत्तेः गुणत्रय10 व्यवस्थाऽसम्भवः, एवञ्च प्रवर्तनवृत्तः खतंत्रः कर्ता भवति मुख्यः सः प्रतिविशिष्टबुद्धिः स्वतंत्रोऽधिष्ठाता ईश्वरः तदधिष्ठयोऽस्वतंत्र
श्चेशितव्य इति भावद्वैतपरिग्रहात् विध्युभयनयोपपत्तिरिति भावः । उभयमतमपि निराकरोति-एतस्यापीति । प्रकृतिपुरुषयोः परस्परस्वरूपत्वानापत्तौ कर्मफलेनाभिसम्बन्धो न स्यात् , ततश्च संसारो मोक्षश्चानुपपद्यते, ईश्वरोपि यद्यभूतस्य कर्मणः प्रवर्तकस्तर्हि अद्वैतवादापत्तिः कर्मणोऽपीश्वरात्मकत्वादीश्वरः कर्म स्यात्, भूतकर्मप्रवर्तकत्वे प्रागपि कर्मणः सत्त्वात् तस्य
चेश्वरात्मकत्वात् सुतरामद्वैतवाद एव स्यात्, यस्मै प्राणिने कर्मेश्वरेण प्रवर्त्यते कर्मणस्तदात्मकत्वे तत्कर्मवशादीश्वरस्य प्रवृत्ती 15 कर्म एवेश्वरः स्यात् , तस्यापि प्रवर्तकत्वात् कर्मणः, ईश्वरस्य स्वातंत्र्यमपि न स्यात् पुरुषकृतकर्म प्रययेन ईश्वरप्रवृत्तिप्रतिघातात्, ८ कर्मणः पुरुष एव कर्ता, कर्मयोगानां पुद्गलानां कर्मत्वेनादिकरत्वात्, तदपि कर्म आदिकरम् , नरनारकादि नानाप्रभेदशरीराणां
तत्सम्बद्धात्मनाचादिकरत्वात्, आत्मकर्मगोश्चैकत्वात् , आत्मा हि परिणमयति गतिजात्यादिना कर्मपुद्गलान् , तेऽपि मिथ्यादर्शनादित्वेनात्मानं परिणमयतीत्यन्योन्यपरिणामकत्वादनादित्वमेकत्वम्, तथैवात्मनोऽवगाहादिलक्षणैरस्तिकायैः सहैक्यम्, प्रवर्त्य
प्रवर्तकन्यायात् पृथिव्यादिव्रीह्यादिपृथिव्यादिवत् , एवञ्चैकं सर्व सर्वं चैकमिति विधिनियम्यत्वाद्विधिनियमनयमतम् , एते 20 चत्वारो नया द्रव्यमात्राभ्युपगमपराः तस्मादेषु शब्दो नित्य एव, अकृतकत्वादित्येकान्त इत्याह-एषामिति । भवतीति भाव
इति भवनधर्मा केवलं द्रव्य एवेति न युक्तम् , भवतीति प्रकृत्यर्थस्य भवनस्य प्रत्ययार्थेन द्रव्येण का विशिष्यमाणत्वात् द्यर्थत्वाभ्युपगमात्, द्रव्यं भावोऽपि भवतीति भाव इति व्युत्पत्त्या भावस्यापि भावः, द्रव्यमात्रन्त्वप्रवृत्तत्वादसत् भवदेव हि भवति, अद्रव्या क्रिया भावोऽपि नैव स्यात् , अद्रव्यत्वादभूतत्वान्नि/जत्वात् , तस्मादुभयं द्रव्यं भावश्च, तुल्यबलत्वाच्चानयोः प्रधा
नता, तत्र क्रियाया उपसर्जनत्वे बालकुमारादीनां देवदत्तादेरंशवत् क्रियाया द्रव्यांशापत्त्यांऽशांशिनोश्वामेदात् क्रियाया अभाव 25 एव स्यात् तस्माद्रव्यभावी प्रधानभूतौ सर्वमिति उभयनयमतमित्याह-भवितृभवनयोरिति । एवं द्रव्यभावयोः प्राधान्ये
परस्परानपेक्षत्वेऽवस्थारहितत्वेनावस्तुत्वं प्रसज्यते स्थित्युत्पत्तिविनाशा ह्यवस्थाः, तदभावे द्रव्यमनवस्थमतो द्रव्यप्रभेदसम्भवः, ताः क्रियाया एव भवेयुः, तद्भेदस्य तदात्मकत्वात् क्रियैव द्रव्यमापन्नं संज्ञाभेदमात्रात् , द्रव्यस्यैव स्थित्यादित्वे तु सर्वप्रभेदनिर्भेदत्वमसत् स्यात्, किन्तु सत्ताद्रव्यत्वादि सामान्यं पृथिव्यादिचतुष्टयपरमाणवः आकाशकालदिगात्ममनांसि विभुत्वपरिमंडलत्वादि
गुणाश्च नित्यानीति विधिः, आरब्धद्रव्यगुणानां कर्मणश्चानित्यत्वं प्रागुक्तेभ्यो विशेषः, खवजातिप्रभेदेभ्यश्चान्यत्वं कार्यकारण30 तया चेति, तयोरुत्सर्गापवादयोः सामान्यविशेषयोरेवंविधानामुभयविधिः एते द्रव्यादयोऽन्यापेक्षेण भूयत इति भावः, असौ भावो
महासामान्यं सत्ता, येन च भूयते सोऽपि चास्य भावः, न केवलं सत्तैव भावः किन्तु तदाश्रयोऽपि द्रव्यादि वः, सत्ता खतो. भावः द्रव्यादिः तत्सम्बन्धाद्भावः, असदपि च कार्य भवतीति विधिनियमयोर्विधानाद्विधिनियमविधिनयमतमित्याह-अस्यापि नयस्येति । द्रव्यार्थिकनयानां सन्निहितभवितृकत्वमभिप्रेतम् , तत्र यद्यसत् कार्य न तद्भवितुमर्हति, असन्निहितभवितृकत्वात्
खपुष्पवत्, असतश्च खपुष्पवदेव सत्तासमवायित्वाभावात् , स्वतः सत्त्वे च सत्तासम्बन्धकल्पनानर्थक्यात् , भूतत्वात् , सत्तावत्, 35 सदसताञ्च ऐकात्म्यानुपपत्तेः सदसतोवैधात् घटखपुष्पवत् , उभयदोषप्रसङ्गाच न सत्तासम्बन्धः, गुणस्यागुणवत् स्वरूपसदेव
प्रागसदुच्यते तस्यासतः सत्तासम्बन्धो न सर्वथाऽसत इति चेत् तयसतः सत्त्वं न सम्भवतीत्यभ्युपगतं भवतापि, तदपि न
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org