________________
विध्यादिनयविषयाः ]
द्वादशारनयचक्रम्
१९८९
wwwwwwww.mm
पनसाधनस्य व्याख्यानदिशं दर्शयत्येतत्साधनम्, अतीतानां द्वादशानामराणां प्रत्येकं यथासंख्यं प्रस्थानार्थोपन्यासार्थत्वात्, तद्यथा-व्यवहारैकत्वेत्यादिदण्डकप्रतिज्ञोपन्यासो यावत् शून्यतानित्यः शब्द इति हेतु: व्यवहारैकत्वेत्यादिदण्डको यावत् क्षणिकशून्यताऽकृतकत्वादिति, १ विधिनयस्य तावद्यथालोकग्राहमेव वस्तु, यथा लोकेन परिगृहीतमेव नित्यानित्यकारणकार्यैकनानात्वाद्यशक्यप्राप्त्यप्रयोजनत्वाविचारेण शक्यप्राप्तिप्रयोजनत्वकर्मफलसम्बन्धमात्रपरिज्ञानमपौरुषेयानाद्य निधनागमगम्यमिति दर्शनम् २ विधिविधिस्तु क्रियावि- 6 धायिवाक्य परिज्ञानस्याप्यशक्यप्राप्त्यप्रयोजनत्वादिदोषाविमोक्षात् स्ववचनादिविरोधात् वस्तुतत्त्वपरिज्ञानाविनाभावादयुक्तेः सर्वैककारणमात्रत्वम्, तच्च पुरुषकालनियतिस्वभावभावाद्यन्यतमात्मकम्, आत्मप्रभेदमात्रावस्थाभेदमात्रव्यवहृतेरिति, तस्यापि विधिविधेरवस्थावस्थावद्भेदोपादाना वश्यम्भावात् परमशून्यक्षणिकाद्यनभिप्रेतवादप्रसङ्गाच्च सन्निधिव्यापत्तिभवनवृत्तिद्वैतवादः श्रेयान् प्रकाशप्रवृत्तिनियमात्मभोग्यसत्त्वरजस्तमोमयप्रकृतिव्यापारस्योदासीनभो कृपुरुषोपभोगार्थ प्रवृत्तेरिति विधिर्विधीयते नियम्यते चेति विधि - 10 विधिनियमनय मतदर्शनम्, न सर्वमेकात्मकं किं तर्हि ? सर्वं सर्वात्मकमिति, ३ अस्यैव वा विकल्पान्तरं
www.wm
दर्शयतीत्यर्थः । कारणमाह- अतीतानामिति प्रोक्तानां द्वादशनयाराणां यथासंख्यं स्वस्वप्रस्थानविषय प्रदर्शन फलत्वादित्यर्थः । स्व प्रस्थानविषयघटितशब्दविषयप्रतिज्ञाहेतुवाक्ये प्रागुदितनाभिक्रियासाधनव्याख्यानरूपे प्रदर्शयति-व्यवहारैकत्वेत्यादितिशब्दः विध्यादि द्वादशनयप्रस्थानविषयैः स्यान्नित्यः स्यान्नित्यानित्यः स्यादनित्यो वा, तथाविधस्यादकृतकत्वात् तथाविधस्यात्कृतकाकृतकत्वात्, तथाविधस्यात्कृतकत्वाद्वेति प्रयोगार्थः । प्रत्येकनय प्रस्थानार्थोपदर्शनं दिशा विदधाति - विधिनयस्येति यथा - 15 लोकेन परिगृह्यते तथैव वस्तु सर्वथाऽन्तरङ्गे येन केनचित्प्रतिविशिष्टेनाकारेण उदकाहरणादिसमर्थेन घटादेर्भवनरूपं सामान्यविशेषाद्यनपेक्षं नित्यत्वानित्यत्वकारणत्वकार्यत्वैकत्वनानात्वादिधर्माणि शास्त्रकार प्रकल्पितान्यध्यारोपेण यथा कारणमेव नित्यमेव सामान्यमेव सर्वमिति, विशेष एव कार्यमेवानित्यमेवेति च तस्माल्लोकव्यवहारफलातिरेकेण प्रवर्तमानानि शास्त्राणि वृथैव, किन्त्वतीन्द्रिये पुरुषार्थसाध्यसाधनसम्बन्धादावेव शास्त्रमर्थवत्, न तु लौकिके गृह्यमाणेऽर्थे, ततश्च लोकतत्त्वस्य ज्ञातुमशक्यत्वात्तद्विवेकयनः शास्त्रेष्वफल एवं कर्मफलसम्बन्धपरिज्ञानं इदंकाम इदं कुर्यादित्येवं शक्यप्राप्ति सफलञ्च तच्चापौरुषेयनित्यागमगम्यमिति प्रतिपादनपरः प्रथमो भङ्ग इति भावः । विधिविधिस्त्विति क्रियाविधायकवाक्यस्य परिज्ञानमपि न सम्भवति संसेव्य- 20 वस्तुतत्त्वपरिणामस्याशक्यप्राप्त्यफलत्वाभ्यां विज्ञानासम्भवात् क्रियोपदेशस्य ज्ञानपूर्वकत्वेऽज्ञानानुविद्धं सर्वमिति स्ववचनविरोधः, अज्ञातपूर्वकत्वेऽपि वैद्यौषधोपदेशवदुपदेशासम्भवः सर्वमज्ञानानुविद्धमिति ज्ञानाभावे तद्वचनस्य कथं प्रतिपादकत्वं साधकत्वं च स्यात्, हिताहितप्राप्तिपरिहारार्थो ह्युपदेशः, तत्र हिताहितपदार्थपरिज्ञानाभावे शक्यप्राप्तिसफलत्वे कथं विज्ञायेयाताम् वस्तुतत्त्वपरिज्ञानाविनाभावित्वाद्धिताहितत्वयोः साध्यसाधनभावस्य च तदभावे तदभाव एव, तस्मादात्मैव सामान्यं स्वावस्थानामिति सर्वैककारणमात्र वस्तु, स च पुरुषः कालः नियतिः स्वभावो भावो वा तद्वस्तुप्रभेदाः अवस्थाः घटादेर्देशकालभेदभिन्नग्रीवाबुधा- 25 दिनवपुराणादिवत्, तन्मात्रेणैव सर्वे व्यवहाराः प्रवर्त्तन्त इति विधिविधिनयमतम् । तस्यापीति, अवस्थावस्थावतोरभेदे पुरुषमात्ररूपत्वे नावस्थाः काश्चित्सन्ति यथा घट एव रूपादयो न रूपादयो नाम केचिदिति, अवस्थामात्ररूपत्वे तु न पुरुषः कश्चित्, समुदायमात्रवाद एव स्यात् यथा रूपादिसमुदाय एव घटो न ततोऽन्य इति, तस्मात्तयोर्भेदेनोपादानमुचितम् सुप्तसुषुप्तजाद्विनिद्रावस्थानाञ्च विशुद्धिक्रमेणान्यथावृत्तेरवस्थाक्षयो वाच्यः, अन्ते क्षयदर्शनादादावपि क्षयात् क्षणिकत्रादप्रसङ्गः, चतुर्ष्वप्यवस्थासु ज्ञानावश्यम्भावात् ज्ञान स्वरूपादनपेता रूपरसादिघटा दिसृष्टिः सा च कल्पनाज्ञानमात्रम्, तन्मात्रसत्यत्वाच्च विज्ञानव्यतिरिक्तार्थशू- 30 न्यवादश्च प्रसज्यते, एवञ्च सन्निधिभवनरूपस्य पुरुषस्याऽऽपत्तिभवनरूपस्य प्रधानस्य भावात् प्रधानपुरुषद्वैतवादः श्रेयान् साच प्रकृतिः भोग्या सत्त्वरजस्तमोमया, सत्त्वरजस्तमांसि प्रकाशप्रवृत्तिनियमस्वरूपाणि, प्रकृतिव्यापारस्य भोक्ता चोदासीनः पुरुषः तदर्था प्रकृतेः प्रवृत्तिर्न सर्वमेकात्मकं किन्तु सर्वं सर्वात्मकमिति विधिविधिनियमनयमतम् । विध्युभयनयदर्शनस्यैव विकल्पान्तरमाह - अस्यैव वेति, सर्वसर्वात्मकत्वपरिग्रहो नोचितः किन्तु भवति भावद्वैतम् भवतो भावस्य भाव्यभवितृभ्यां भेदाभ्यां भावोपपत्तिः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org