________________
१९८८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ तुम्बनिरूपणम्
wwww
सत्यार्थी इति संपिण्डरूपेण प्रतिज्ञा - एतद्भङ्गनियतस्याद्वादलक्षणः शब्द इति, स्यान्नित्यः स्यान्नित्यानित्यः स्यादनित्यः शब्द इति संक्षेपेण त्रिविधा, हेतुरपि विध्यादिद्वादशविकल्पनियताकृतक - कृतकाकृतक - कृतकत्वानेकान्तविकल्पात्मकत्वादिति प्राग्व्याख्या[ता ]र्थभङ्गार्थसमाहारात्मक एवायं प्रतिज्ञावत्, तत्तन्नयदर्शनविकल्पैकवाक्यात्मकत्वात्, घटवदिति दृष्टान्तः, परस्परापेक्षवृत्तिसमस्तनय मतैकमत्यानुवृत्तिनित्य - नित्यानित्य5 [[नित्य] वनेकान्त विकल्पात्मकानुगताकृतक - कृतकाकृतक - कृतकत्वानेकान्तविकल्पात्मकः सिद्ध एवेति प्राग् व्याख्या[ता ]र्थत्वात् ।
wwwwwwwwwwww
व्याख्यानदिक्प्रदर्शनसाधनन्तु व्यवहारैकत्व- सर्वैकत्व- सर्व सर्वत्वो भयप्राधान्या-न्यतरप्रधानोपसर्जनत्वे- तरेतराभाव-भेदप्रधानत्वा-वक्तव्यत्वभेद समुदायिमात्रत्व क्षणिकत्व-शून्यतानित्यः शब्दः, व्यवहारकत्व सर्वैकत्व सर्व सर्वत्वोभयप्राधान्यान्यतरप्रधानोपसर्जनत्वेतराभावभे10 दप्रधानत्वावक्तव्यत्वभेदसमुदायिमात्रत्वक्षणिकशून्यताऽकृतकत्वात्, व्याख्यार्थघटवत्। ( व्याख्यानेति ) व्याख्यान दिक् प्रदर्शन साधनन्तु - एतस्यानन्तराभिहितनाभिक्रियाने कान्तत्वप्रज्ञा
www
Jain Education International 2010_04
www.ww
दिति तथैव भावनोभयभङ्गेषु क्रियत इति प्रत्येकनयानां वृत्तय एत इति भावः । नामग्राहं नयान् दर्शयति-विधिरिति, अनुवृत्तिव्यावृत्त्यनपेक्षया यथालोकग्राहं वस्तु, यथा गौरित्यादीति प्रतिपादनपरो विधिरिति भावः, मेदवादिनं प्रत्यभेदप्रतिपादनपरो विधिविधिः, यथालोकप्राहवस्तुनः सर्वसर्वात्मकत्व विधानात्मस्वतंत्र कर्तृज्ञस्यैव भवननियमात्मविधेर्विधिनियमम्, प्रकृतिपुरुषयोः परस्परानापत्तौ 15 कर्मफलसम्बन्धाभावादेकं सर्वं सर्वञ्चैकमिति विधेरतिप्रसक्तस्य विशेषेऽवस्थापनं विधिप्राधान्य तयैवेति विधेर्नियमनाद्विधिनियम इति प्रथमभङ्गचतुष्टयम् । तुल्यबलानुभयप्रधानौ विधिनियमौ द्रव्यभावपरिग्रहात्मकौ तत्त्वमिति विधिनियमम्, द्रव्यभावयोः परस्परनिरपेक्षत्वे प्रधानत्वे चोत्पादाद्यभावेनासत्त्वात्तयोर्गुणप्रधानभावेन विधानात् विधिनियमयोर्विधिः, द्रव्यभावयोः सत्त्वस्य परतः स्वतश्वासम्भवात् प्रवृत्तिरूपमितरेतराभावलक्षणमभवद्भवति वस्त्विति विधिनियमस्य विधिनियमम्, द्रव्यभावयोर्भवितृप्रधानं भवनोपसजनमिति नियमनात् विधिनियमयोर्नियम इति मध्यमभङ्गचतुष्टयम् । द्रव्यभावयोस्तत्त्वान्यत्वोभयरूपैर वक्तव्यत्वनियमनान्नियमः, 20 देशभिन्नरूपरसादिविशेषसमुदायमात्रं वस्तु, नावक्तव्यं स्ववचनविरोधादिति नियमस्य विधानान्नियमविधिः, कालभिन्नरूपाद्यसाधारणानिर्देश्यपरमार्थं वस्त्विति नियमस्य विधानान्नियमनाच्च नियमस्य विधिनियमम्, असिद्ध्यादिभ्योऽभावपरमार्थं वस्त्विति शून्यत्व -- नियमनान्नियमस्य नियम इति पाश्चात्यभङ्गचतुष्टयम् । एतेऽरा द्वादशनया यदैकमत्येन परस्परापेक्षवृत्तयो भवन्ति, नैकान्तग्राहिणः परस्परप्रतिक्षेपपरा भवन्ति तदा सत्यार्था इति प्रतिज्ञामाह - एते द्वादशेति । पूर्वं शब्दविषयाः प्रतिज्ञाः प्रत्येकभङ्गाश्रयेण दर्शिताः, अधुना स्याद्वादाश्रयेणान्योऽन्यापेक्ष वृत्त्यपेक्षया ताः दर्शयति- एतद्भङ्गेति, द्वादशभज्ञैर्मिलितैः सह व्याप्तः स्याद्वादः 25 तमाश्रयेण स्यान्नित्यः शब्द इति स्यान्नित्यानित्यः शब्द इति स्यादनित्यः शब्द इति वा त्रिविधाः प्रतिज्ञाः भवन्तीति भावः । तत्र हेतुमाह - हेतुरपीति, द्वादशविधविकल्पैर्नियतो योऽकृतकत्वानेकान्तविकल्पः कृतकाकृतकत्वानेकान्तविकल्पः कृतकत्वाने कान्तविकल्पो वा तदात्मकत्वादिति भावः । अयमपि हेतुः प्रतिज्ञावत् पूर्वं व्यावर्णिता ये द्वादश भङ्गाः तदर्थानां समाहाररूपोऽकृतकत्वानेक्रान्तविकल्पात्मकत्वादिरित्याह-प्राग्व्याख्यातार्थेति । सामान्येन हेतुमाह-तत्तन्नयदर्शनेति, अयं विधिविधीत्यादिप्रागुक्तप्रतिज्ञाया हेतुः, घटवदिति दृष्टान्तः । ननु भङ्गानां द्वादशानां प्रत्येकं वृत्तिः स्वविषयसम्पातनेन तथैव भवन्ति नान्यथेत्य30 र्थानां भावनारूपा, नित्य एव शब्दोऽकृतकत्वादाकाशादिवदित्यादि, जैनसत्यत्वसाधने प्रवर्त्तमानाऽनुवृत्तिस्तु परस्परापेक्षवृत्तिरूपा समस्तनयमतैक्यमत्याऽनुवर्त्तनात्मिका द्वादशनयविकल्पविशेषणा, नियनित्यानित्यानित्यानेकान्तविकल्पात्मकत्वाविनाभाव्यकृतककृतकाकृतककृतकत्वानेकान्तविकल्पात्मकत्वं शब्दस्य सिद्धमेवेत्याह- परस्परापेक्षेति, द्वादशविधनयविकल्पव्याख्यानेन नाभिक्रियया च व्याख्यातार्थ एवेति भावः । द्वादशनयभङ्गानां प्रत्येकं पिण्डितार्थव्याख्यानप्रदर्शनेन द्वादशविधविकल्पविशिष्ट प्रतिज्ञाहेतु प्रदर्शनं क्रियते व्याख्यानदिगिति । व्याख्याति - एतस्येति, जैनसत्यत्वसाधनस्य द्वादशविधविध्यादिनयभङ्गा ऐकमत्येनान्योऽन्यापेक्ष, 35 वृत्तयः सत्यार्थाः, तत्तन्नय दर्शन विकल्पैकवाक्यात्मकत्वादिति नाभिकरणरूपाने कान्तत्व प्रज्ञापनसाधनस्य साधनेनानेन व्याख्यानदिशं
For Private & Personal Use Only
www.jainelibrary.org