________________
तुम्बकरणम् ] द्वादशारनयचक्रम्
१९८७ द्वादशानामराणामित्थं तुम्बक्रिया, तत्प्रतिबद्धसरावस्थानात् , अतोऽन्यथा विशरणात् , तद्यथा विधि-विधिविधि-विध्युभय-विधिनियम-उभय-उभयविधि-उभयोभय-उभयनियमनियम-नियमविधि-नियमोभय-नियमनियमा ऐकमत्येनान्योन्यापेक्षवृत्तयः सत्यार्थाः, तत्तन्नयदर्शनविकल्पैकवाक्यात्मकत्वात् , घटवत् , एतद्भङ्गनियतस्याद्वादलक्षणः शब्दः स्यान्नित्यः, स्यान्नित्यानित्यः, स्यादनित्यः, विध्यादिद्वादशविकल्पनियताकृतक-कृतकाकृतक-कृतकत्वाने 5 कान्तविकल्पात्मकत्वात् , घटवदिति ।
___ (द्वादशानामिति) द्वादशानामराणामशेषशासनसङ्ग्राहिणामित्थं तुम्बक्रिया-स्याद्वादनाभिकरणं तत्प्रतिबद्धसरावस्थानात् , अतोऽन्यथा विशरणात् यथोक्तं-जंमि कुलं आयत्तं तं पुरिसं आयरेणरक्खाहि । ण हु तुम्बम्मि विणढे अरया साहारणं होंति ॥' (आ० नि० गा. ७५९) इति तद्यथाविधिविधीत्यादिसाधनदण्डको यावद् घटवदिति दृष्टान्तः, एवं तुम्बकरणं-सविकल्पद्वादशनयचक्रैकवाक्या- 10 नयनसाधनम् , तत्र विधिभङ्गाश्चत्वारः आद्याः, उभयभङ्गा मध्यमाश्चत्वारः, नियमभङ्गाश्चत्वारः पाश्चात्याः, यथासंख्यं नित्यप्रतिज्ञाः ४ नित्यानित्यप्रतिज्ञाः ४ अनित्यप्रतिज्ञाश्च ४ विधिः, विधि [विधिः, विधे विधिनियम, विधिनियम इति प्रथमभङ्गचतुष्टयम् , मध्यमं विधिनियम, विधिनियमयोर्विधिः, विधिनियमस्य विधिनियमम् , विधिनियमस्य नियम इति, पाश्चात्यमपि नियमः, नियमस्य विधिः, नियमस्य विधिनियमौ, नियमस्य नियम इति, एते द्वादशाप्यरनया ऐकमत्येनान्योऽन्यापेक्षवृत्तयः 15
धौं खतत्त्वं यस्यास्तस्या रत्नप्रभायाः प्रत्येक षड्विकल्पाभ्यां द्रव्यार्थपर्यायार्थरूपाभ्यां कारणाभ्यां तौ धर्मों स्वतत्त्वं तस्या इति कारितमनेकान्तात्मकत्वं विदधतो जिनवचनस्यानुगमादित्यर्थः । एवमेव द्वादशाराणां नाभिक्रियेत्याह-द्वादशानामिति । व्याचष्टे-द्वादशानामराणामिति, सर्वे द्वादशाराः निखिलशासनसङ्ग्राहका एकवाक्यतारूपायां वृत्तौ यदाऽनुपतन्ति द्रव्यार्थपर्यायार्थाभ्यां तदा नाभिकरणं जातमिति विज्ञेयम् , इदमेव स्याद्वादनाभिकरणम् , स्याद्वादनाभौ सर्वेऽरा यदा प्रतिबद्धा भवन्ति तदैव तेषामवस्थानं भवति, अन्यथा ते विशीयन्ते, परस्पर विरोधेन प्रतिहतत्वात् , द्रव्यार्थपर्यायार्थाभ्यां यदैकवाक्यतां यान्ति तदा विरो-20 धाभावेन सर्वे सुस्थिरा भवन्तीति भावः। तत्प्रतिवद्धानामबस्थानमन्यथाविशरणञ्च दृष्टान्तेन प्ररूपकं प्राचां वचनमुपन्यस्यति-यथातमिति, यस्मिन् कुलमायत्तं तं पुरुषमादरेण रक्षेत् । नहि तुम्बे विनष्टे अरका साधारा ननु भवन्ति ॥ इति छाया कुलाधारं पुरुषं परिरक्षेत्, न हि विनष्टे तस्मिन् कुलं तिष्ठति, न हि तुम्बे विनष्टेऽरकाः साधारा भवन्ति, निराधारा विशीर्यन्त इति भावः । एतदर्थसंवादिनी कारिका यथा-यस्मिन् कुले यः पुरुषः प्रधानो यत्नेन सोऽयं परिरक्षणीयः। तम्मिन् विनष्टे च कुलं विनश्येत् न नाभि- . भङ्गे ह्यरकाः स्थिराः स्युः ॥ इति ॥ नाभिकरणे प्रयोगं दर्शयति-विधिविधीत्यादीति, विध्यादयो द्वादशाराः ऐकमत्येन परस्परा- 25 पेक्षवृत्तयो यथार्थाः, तत्तन्नयविकल्पैः सहैकवाक्यत्वात् , घटवदिति द्वादशनयसमूहस्यैकवाक्यतायामानयनसाधकमनुमानं तुम्बकरणरूपमित्यर्थः। तत्र प्रतिज्ञायां विधि-विधिविधिविध्युभय-विधिनियमनयाश्चत्वारो विधिभता उच्यन्ते, उभय-उभयविधि-उभयोभयउभयनियमाः उभयभङ्गाः नियम-नियमविधि-नियमोभय-नियमनियमनयाः नियमभता इत्याह-तत्रेति। एषु भङ्गेषु शब्दविषयाः प्रतिज्ञाः प्रदर्शयति-यथासंख्यमिति,शब्दो नित्य इति प्रतिज्ञाश्चत्वारो विधिभङ्गेषु, शब्दो नित्यानित्य इति चत्वार उभयभङ्गेषु, शब्दो ऽनित्य इति चत्वारो नियमभङ्गेषु विज्ञेयः, शब्दः नित्य एवाकृतकत्वादाकाशवदिति निजे विषयेऽवतार्य तथैव शब्दो भवति नान्यथेति 30 भावनाऽद्येषु क्रियते,शब्दोऽनिय एव कृतकत्वात् , घटवदिति तथैव भावना नियमभङ्गेषु क्रियते, शब्दो नित्यानित्यः, अकृतककृतकत्वा
सि.क्ष. छा. डे. मध्यम विधिनियमौ विधिनियमयोविधिविधिनियमयोर्विधिनियमयोर्विधिनियमनियमनियमयोनियमः । २ सि.क्ष. छा. डे. विधिनियमौ । ३ सि. क्ष. . ऐकपद्येना० छा० एकप्रद्ययेना० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org