________________
१९९२
न्यायागमानुसारिणीव्याख्यासमेतम् [ तुम्बनिरूपणम् दग्नीन्धनवत् तत्त्वान्यत्वोभयत्वावक्तव्यता श्रेयसीति ९ नियमनयमतमेतत् , एतदपि मत[मयुक्त]मवक्तव्यमिति वक्तव्यत्वानतिवृत्तेः स्ववाग्विरोधाद निरूपितवस्तुस्वतत्त्ववादिनश्चावादित्वप्रसङ्गात् रूपरसाद्यत्यन्तविविक्तदेशभिन्नविशेषसमुदायिमानं वस्त्विति १० नियमस्य विधिः, इदमपि नयमतमशोभनम् , द्रव्यभवनव्यावृत्तौ
प्रतिज्ञातायां कोऽत्र भेदभावो नाम समुदायसंवृतिसमुदायिनामुत्पादविनाशव्यतिरिक्तस्वरूपाभावादभाव। त्वापत्तेः क्षणे क्षणेऽत्यन्तभिन्नं रूपादि, असाधारणानिर्देश्यपरमार्थत्वाद्वस्तुन इति नियमो विधीयते नियम्यते चेति ११ नियमोभय[नय]मतम् , अस्यापि नयमतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्ययषष्ठ्यर्थाभ्यां सहभाविभावाभ्युपगमात्, अनिर्वहनीयत्वात् , अभावपरमार्थवस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति [१२ नियमस्य नियमः], एतेषु चतुर्पु नियमविध्यादिषु कृतकत्वादनित्य
इति हेतुप्रतिज्ञाव्याख्याविकल्पः, सर्वत्र व्याख्यार्थघटवदिति दृष्टान्तः, एकसर्वार्थपिण्डनैकसाधनप्रयोगः सह10 व्याख्यानदिक्प्रदर्शनेन कृतः ।
एवं सर्वप्रभेदेष्वपि, स्यादेकः स्यादेकानेकः, स्यादनेकः विधिविधिनियमनियमस्वभावत्वात् , विध्यादिद्वादशात्मकत्वात्, घटवत् , भावितमेव नयचक्रशास्त्रेणानेन, एवञ्च जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्ध्यपनिबन्धनसम्प्रतिष्ठितार्थत्वात् सदसदर्थपदाव्यभिचारिप्रमाणप्रबन्धसंसिद्धबहुभेदार्थसिद्धादेशनैमित्तिकवाक्यार्थवत् ।
15 स च परस्परविविक्तैकरूप इत्येतन्मात्रसत्यमेव वस्तु, तस्य प्रतिपत्तिनिमित्तं समुदायवचनं घटः पटः रथ इत्यादि, परिकल्पनामात्रार्थत्वाच्छब्दस्येति देशभिन्नमत्यन्तविविक्तं विशेषसमुदायिमानं वस्त्विति नियमविधिनयमतमित्याह-एतदपीति । रूपादिभवनमेव भाव इति मतमशोभनम् , रूपादिभिर्हि भावरूपेणाभावरूपेण वा भवितव्यम् , द्रव्यार्थिकमतस्य पर्यायार्थिकैयावर्त्तनात् भावरूपेण भवनाभावो रूपादेः, तस्मादुत्पादविनाशाभ्यामेषां भवनमव्यावृत्तम् , तस्यापि व्यावर्तनेऽत्यन्तासदेव रूपादि स्यात् , एवञ्च विनाशधर्मणो विनाशविघ्नाभावादुत्पन्नमेव विनाशमनुभवतीति क्षणिक रूपादि वस्तु तच्चासाधारणमनिर्देश्य 20 प्रतिक्षणमन्यं भवदेव भवतीति नियमोभयं वाञ्छत्ययं नय इत्याह-इदमपि नयमतमिति । अन्ते क्षयदर्शनादादौ क्षय इति क्षणिकताभ्युपगमोऽपि न साधुः, तथा सति स्थितघटादिक्षयप्रसिद्धिवत् प्रसिद्धरभ्युपगमो भवेत् , उत्पादविनाशयोः प्रसिद्धवस्तुविषयत्वात्, भवत एव हि भवनमित्यभ्युपगमस्ते, तस्माद्वस्तुव्यवस्थासिड्युपहितनियमानतिकमात् घटादिवस्तुवदन्तवत्त्वान्निष्ठितं वस्त्विति प्राप्तम् , ततश्चारम्भक्रिये स्याताम् , निष्ठितत्वात्, न च क्षणिकत्वात् क्रिया नेति वाच्यम् , क्षणिक
शब्दार्थान्वीक्षणादेव क्षणभङ्गवादभङ्गसम्भवात् , क्षणोऽस्यास्तीति क्षणिक इति क्षणेन तद्वता चार्थेन विना क्षणिकशब्दस्यार्थवत्त्वं 25 नास्ति दण्डोऽस्यास्तीति दण्डिक इतिवत् , एवञ्च तत्समवस्थातृद्रव्यार्थलक्षणोऽर्थ एव स्यात्, न क्षणक्षयी, अन्यथा क्षणिक
शब्दार्थोऽनिर्वहनीय एव स्यात्, य एवोत्पादः स एव क्षणिकः उत्पादातिरिक्तार्थाभावादित्युक्तो क्षणतद्वतोरभावात् क्षणिक. शब्दार्थविनाश एव स्यात् , भाविविनाशेन प्राच्यस्य क्षणिकत्वव्यपदेशोऽपि न सम्भवति, अवस्थितद्रव्यमन्तरेण भाविधर्मेण तस्य व्यपदेशासम्भवात् , असम्बन्धात्, त्वन्मतवत् क्षणिकत्वे तूत्पादविनाशावेव न स्याताम् , स्थितवस्त्वभावात्, स्थितस्यै
वोत्पादविनाशदर्शनात् , एवञ्च परमतप्रवेशापत्तिः स्यात् तस्मानिःस्वभावं सर्वमिदम्, तदतत्स्वभावतया विज्ञानकल्पिताकारसुप्त30 मत्तादिविज्ञानविषयवत् किमपि किमपीत्याभासात् परमार्थतो नास्ति कश्चिदाकारः, शून्यमेव, न खतो नापि परतो न द्वाभ्यां नाप्यहेतुतः स्वभावोऽस्ति असिद्ध्ययुक्त्यानुत्पादसामग्रीदर्शनादर्शनेभ्य इति शून्यमेव वस्त्विति नियमनियमनयमतमित्याह
स्यापि नयमतस्येति । एषु नियमादिषु चतुषु नयेषु कृतकत्वाच्छब्दो नित्य इति प्रतिज्ञाहेतू विज्ञेयावित्याह-एतेष्विति, उक्तप्रतिज्ञात्रयेषु व्यावर्णितो घटो दृष्टान्त इत्याह-सर्वत्रेति । सर्वार्थसङ्ग्रहेणोक्तैकसाधनप्रयोगो व्याख्यापूर्वकं दर्शित इत्याहएकसर्वार्थति, व्यवहारैकत्वेत्यादिसाधनप्रयोग इत्यर्थः । इत्थं नित्यानित्यत्वप्रमेदं गृहीत्वा कृतःसाधनप्रयोगोऽन्यप्रमेदेषुः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org