________________
जिनशासनसत्यतासाधनम्] द्वादशारनयचक्रम्
११९३ . एवं सर्वप्रभेदेष्वपीति, एकानेककारणकार्यसर्वगतासर्वगतसामान्यविशेषधर्मिधर्मादिवस्तुप्रभेदेवष्येवं नेतव्यमित्यतिदिशति, तन्निदर्शनार्थं द्वादशानां विकल्पानां त्रिधा सम्पिण्डनेन चतुरश्चतुरो विकल्पानेकत्र व्याकृत्याह-स्यादेक इत्यादि, तयैवानुपूर्व्या तत्र स्यादेक इत्यादि चत्वारो विकल्पाः संक्षिप्य पक्षीकृताः, स्यादेकानेक इत्युभयविकल्पाः, स्यादनेक इति नियमविकल्पाः, एवं स्यात्कारणं स्यात्कारणकार्ये स्यात्कार्यमेवेति, तथा स्यात् सर्वगतं स्यात् सर्वगतासर्वगतं स्यादसर्वगतमेवेति, इत्थं तथैव नित्यैककारणसर्वगतोभया-5 नित्यानेककार्यासर्वगतविकल्पानां पृथक् पृथक् द्वादशधा भिन्नानां सङ्गृह्य प्रतिज्ञाय हेतुरपि संक्षिप्योच्यते तथैवविधि-विधिनियम-नियमस्वभावत्वात्-विधेर्ग्रहणेन विधिविकल्पाश्चत्वारो गृहीताः, विधिनियमग्रहणेनोभयविकल्पाः, नियमग्रहणेन नियमविकल्पाश्चत्वारः, विधिश्च विधिनियमश्च नियमश्व-विधिविधिनियमनियमा इति विग्रहात् , तद्व्यक्त्यर्थमाह-विध्यादिद्वादशात्मकत्वादिति, घटवदिति दृष्टान्तः, भावितमेवेति-व्याख्यातमेव द्वादशनयव्याख्यानप्रपञ्चात्मकेन नयचक्रशास्त्रेणानेनेति, अतीतावेक्षणं तत्रयुक्तिः, अतिदेशो नाम 10 प्रकृतस्यातीतेन साधनमतिदेश इति लक्षणात् , घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति, परस्परापेक्षायामेव भवतीति विस्तरेण चरितार्थमेतत् , एवञ्चेत्यादि, सप्त[शतार]नयचक्रशास्त्रोक्तविध्यादिद्वादशारशास्त्रान्तराधारनाभीभूतस्याद्वादप्रबन्धकृतैकवाक्यतायां सर्वशास्त्रप्रवृत्तीयत्तायां च सत्यामित्थं प्रतिपादितायां यदर्थापत्त्या शास्त्रोत्थाने प्रतिज्ञातं विध्यादिवृत्त्येकात्मकत्वात् जैनशासनसत्यत्वप्राप्तिरिति तत्सिद्धम् , तच्चोपसंहृत्य साधनमिदम्-जिनशासनमेकान्तसत्यमेवेति प्रतिज्ञा, सम्यक्सम्प्रसि- 15
एकानेकत्वादिषु भाव्य इत्यतिदिशति-एवमिति । व्याचष्टे-एकानेकेति । द्वादशनयान् भागत्रये प्रविभज्यैकानेकत्वादिप्रभेदविषयाः प्रतिज्ञाः प्रतिभागं संपिण्ड्य दर्शयति-तन्निदर्शनार्थमिति । प्रथममेकत्वप्रतिज्ञा तत एकानेकत्वप्रतिज्ञा ततश्चानेकत्वप्रतिज्ञेति द्वादशनयानुपूर्व्या कार्येत्याह-तयैवानुपूर्येति। तदेव दर्शयति-तत्रेति। कारणत्वकार्यत्वप्रभेदाश्रयेणाहएवं स्यात्कारणमिति । सर्वगतासर्वगतप्रभेदाश्रयेगाह-तथेति । भावार्थमाह-इत्थं तथैवेति, स्यान्नित्यः स्यान्नित्यानित्यः स्यादनित्य इति प्रतिज्ञावत्, स्यादेकः स्यादेकानेकः स्यादनेक इति, स्यात्कारणं स्यात् कारणकार्य स्यात्कार्यमिति. स्यात्सर्वगतं 20 स्यात् सर्वगतासर्वगतं स्यादसर्वगतमित्येवं द्वादशनयक्रमेण प्रतिज्ञाः कृत्वा हेतुरपि तथैवोच्यत इति भावः । साधनमाहविधीति । व्याख्याति-विधेर्ग्रहणेनेति । समासमाह-विधिश्चेति । तस्य भावार्थमाह-विध्यादीति । घटो यथा विधिखभावो विधिनियमस्वभावो नियमस्वभावश्च विध्यादिद्वादशात्मकत्वात् ततश्च स्यान्नित्यः स्यानित्यानित्यः स्यादनित्यश्च तथैव शब्दादयोऽपीत्याशयेन दृष्टान्तमाह-घटवदिति। द्वादशनयेषु घटस्य तथाविधत्वं दर्शितमेवेत्याह-भावितमेवेतीति । अनेना- . तीतस्य नयचक्रशास्त्रार्थस्य संसूचनपूर्वकमतिदिशति प्रकृतार्थे, अतोऽतीतावेक्षणं नाम द्वादशनयतन्त्रस्य युक्तिः, ताभिर्युक्तिभिः 25 प्रकृतार्थसाधनमतिदेश इत्याशयेन लक्षणमाह-अतीतेति । दृष्टान्तं घटयति-घटो हीति । एवञ्च जैनसत्यत्वसाधनवृत्तानुवृत्तिदिशविकल्पविशेषणा, अन्यथाऽवृत्तित्वमेव वक्ष्यमाणत्वादिति यत्प्रागुक्तं शास्त्रारम्भे तत्सिद्धं भवतीत्याह-सप्तशतारेति, सप्तशतारनयचक्रशास्त्रं पूर्वाचार्यविहितं तथोक्तविध्यादिद्वादशारशास्त्रान्तरं तयोराधारनाभीभूतः स्याद्वादप्रबन्धः तेनैकवाक्यताया कृतायां सत्यां एकवाक्यतायामेव सर्वशास्त्राणां प्रवृत्तित्वाच्च तदेकवाक्यत्वस्यैवं प्रतिपादिते सति शास्त्रोत्थाने विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वाज्जैनादन्यच्छासनमनृतं भवतीत्युक्तौ यदर्थापत्त्या जैनशासनसत्यत्वं विध्यादिद्वादशवृत्त्येकवाक्यत्वादिति प्रतिज्ञातं 30 तत् सिद्धं भवतीति भावः । तदेव साधनेन समर्थयति-तच्चोपसंहत्येति । जिनशासनं एकान्तसत्यमेव, सम्यकसम्प्रसिद्ध्यप.
सि.क्ष, धा. डे, विधिनियमौच ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org