Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 319
________________ ११९६ न्यायागमानुसारिणीव्याख्यासमेतम् [तुम्बनिरूपणम् (एवमिति) एवमनेन समस्तेन ग्रन्थेनैतदभिहितं-विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवत् जैनादन्यच्छासनमनृतम् , जैनमेव शासनं सत्यम् , विधिनियमभङ्गवृत्त्यात्मकत्वात् , भवतिवद्धूटवद्वेति, एकमेव वा साधनम् , तत्साधर्म्यवैधाभ्यां सर्वैकान्तवादिदूषणाय अनेकान्तवादिपक्षसाधनाय च प्रभवतीति यथाप्रतिज्ञं व्याख्यातम् , एतदुभयं कुतो लभ्यमिति चेत् वृत्तिवचनात् , तद्भावनार्थमाह-एवश्च 5 कृत्वा विधिनियमभङ्गव्यतिरिक्तत्वादिति सिद्धे वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् , किमुक्तं भवति ? स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मिकैकैव वृत्तिः सत्या, रत्नावलीवत्-यथा प्रतिविशिष्टजातिवर्णच्छायासारशुद्धिप्रभवार्थसंस्थानादिगुणगणोपेतमणिगणसमूहात्मिकै कै]व रत्नावलीत्युच्यते यथास्थानविन्यासरत्ना, न प्रत्येकं तथा विध्यादिनयाराणामपि तुम्बप्रतिबद्धवृत्तिवत् स्याद्वादप्रतिबद्धैकान्त नयवृत्तिः, अन्यथा वृत्त्यभाव एवेति चक्रदृष्टान्तसाधर्म्यम् , नयचक्रशास्त्रयथार्थनामत्वादेव दृष्टान्तान्तर10 प्रतिपादनेन नार्थो वा, तथैव च सर्वैकान्तप्रक्रम इति–एवञ्च कृत्वा सर्वेषामेकान्तनयानामवृत्तिरेव, असत्यत्वादिति प्रक्रान्तमेव तत्र तत्र । जैनशासनसत्यत्वेतरशासनासत्यत्वसाधनयोरेकतरस्य साधनेन साधर्म्यवैधाभ्यामर्थद्वयप्रतिपादनं कृतं भवति, अन्योऽन्याविनाभावात् , विध्यादीनामेकस्मिन्नप्युक्ते शेषनया उक्ता एव वर्षाभिधानमेघाभ्युन्नतिवचनवत् , प्रतिज्ञादावितरभङ्गार्थाव्यभिचारात् , तत्सा16 धनधर्माणां तदन्वयव्यतिरेकप्रदर्शनसाधर्म्यवैधयंदृष्टान्तानाश्चार्थाव्यभिचारात् द्वादशानामभिधानं कृतमेव । यमभङ्गवृत्तिव्यतिरिक्तत्वात्, अनर्थकवचनवत्, तथा जैनमेव शासनं सत्यं विधिनियमभङ्गवृत्त्यात्मकत्वात् भवतिवत् घटवद्वेति जैनतदितरशासनानां सत्यत्वासत्यत्वसाधनं कृतं भवतीत्यादर्शयति-विधिनियमेति । विधिनियमभवृत्तिः-विध्यादिद्वादशनय भङ्गानां स्याद्वादप्रतिबद्धैका वृत्तिः, सर्वेषां नयानां स्याद्वादेन सह प्रतिबद्धा यदि वृत्तिस्तदा सत्यार्थास्ते, अन्यथा सा वृत्तिरेव 20 न भवतीत्यसत्यार्था एवेति भावः। एकमेव वा साधनं साधर्म्यवैधाभ्यामुभयार्थप्रकाशकं भवतीत्याह-एकमेव वेति, जैनादन्यच्छासनमनृतं विधिनियमभङ्गव्यतिरिक्तत्वादित्येकमेव साधनं साधर्म्यदृष्टान्तेनानर्थकवचनेन सवैकान्तवादिदूषणाय भवतिवद्धटवदिति वैधHदृष्टान्तेनानेकान्तवादिपक्षसाधनाय च समर्थो भवतीति भावः । एकसाधनेनोभयमिदं कुतो लभ्यत इति दर्शयति-वृत्तिवचनादिति, विधिनियमभङ्गेभ्यो व्यतिरिक्तत्वमन्यशासनानामस्त्येवेति तावता निवाहे वृत्तिपदोपन्यासस्तेष भङ्गानामेकवाक्यत्वे सत्येव प्रत्येक भङ्गानां वृत्तित्वमन्यथाऽवृत्तित्वमेव, एकवाक्यताकरणमेव च स्याद्वादतुम्बकरणम् , इति 25 ख्यापनाय वृत्तिपदं तथा चैकवाक्यतामापन्नाशेषभङ्गानां यथार्थत्वम् , एकवाक्यतानापन्नानामसत्यार्थत्वं सिद्धं भवतीति भावः। तात्पर्यार्थमाह-स्याद्वादेति, स्याद्वादखरूपे तुम्बे प्रतिबद्धा ये सर्वे नयभङ्गाः तदात्मिका वृत्तिरेकैव, एकवाक्यतामापन्नत्वात्, यथैकसूत्रनिबद्धसद्व्यगुणमणिसमूहस्वरूपा यथास्थानघटिता रत्नावली एकैत्र, प्रत्येकं रत्नानि रत्नावलीति नोच्यन्ते तथा विध्यादिनिखिलाराणां स्याद्वादप्रतिबद्धत्व एव वृत्तित्वं नान्यथेति भावः। तुम्बप्रतिबद्धेति, चक्रस्य तुम्बेऽनुबद्धा अरा यथा वृत्तिं लभन्तेऽन्यथा विशीर्यन्ते तथा स्याद्वादप्रतिबद्धा एकान्तनया अपि वृत्तिं लभन्ते नान्यथेति चक्रदृष्टान्तेन साधर्म्यमस्य 30 ग्रन्थस्येति भावः । अत एव नयचक्रशास्त्रमिति नामान्वर्थमतोऽपर दृष्टान्तानुसरणमनावश्यक निष्प्रयोजनत्वादित्याह-नयचक्रेति नाम्येव चक्रदृष्टान्तसत्त्वादिति भावः। स्याद्वादाप्रतिबद्धत्वे सर्वे नया असत्यार्थत्वादवृत्तय एवेति निरूपितमेव तत्तन्नयनिरूपणावसरइत्याह-तथैव चेति । व्याचष्टे-एवञ्च कृत्वेति । जैनशासनसत्यत्वसाधनेनेतरशासनस्यासत्यत्वसाधनेन वा साधर्म्यवैधाभ्यां अन्वयव्यतिरेकप्रदर्शनात्मकाभ्यामपरस्यासत्यत्व मेतस्य सत्यत्वं वा साधितमेव भवति तदव्यतिरेकेण तदसम्भवादन्योन्या Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364