Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 316
________________ जिनशासनसत्यतासाधनम्] द्वादशारनयचक्रम् ११९३ . एवं सर्वप्रभेदेष्वपीति, एकानेककारणकार्यसर्वगतासर्वगतसामान्यविशेषधर्मिधर्मादिवस्तुप्रभेदेवष्येवं नेतव्यमित्यतिदिशति, तन्निदर्शनार्थं द्वादशानां विकल्पानां त्रिधा सम्पिण्डनेन चतुरश्चतुरो विकल्पानेकत्र व्याकृत्याह-स्यादेक इत्यादि, तयैवानुपूर्व्या तत्र स्यादेक इत्यादि चत्वारो विकल्पाः संक्षिप्य पक्षीकृताः, स्यादेकानेक इत्युभयविकल्पाः, स्यादनेक इति नियमविकल्पाः, एवं स्यात्कारणं स्यात्कारणकार्ये स्यात्कार्यमेवेति, तथा स्यात् सर्वगतं स्यात् सर्वगतासर्वगतं स्यादसर्वगतमेवेति, इत्थं तथैव नित्यैककारणसर्वगतोभया-5 नित्यानेककार्यासर्वगतविकल्पानां पृथक् पृथक् द्वादशधा भिन्नानां सङ्गृह्य प्रतिज्ञाय हेतुरपि संक्षिप्योच्यते तथैवविधि-विधिनियम-नियमस्वभावत्वात्-विधेर्ग्रहणेन विधिविकल्पाश्चत्वारो गृहीताः, विधिनियमग्रहणेनोभयविकल्पाः, नियमग्रहणेन नियमविकल्पाश्चत्वारः, विधिश्च विधिनियमश्च नियमश्व-विधिविधिनियमनियमा इति विग्रहात् , तद्व्यक्त्यर्थमाह-विध्यादिद्वादशात्मकत्वादिति, घटवदिति दृष्टान्तः, भावितमेवेति-व्याख्यातमेव द्वादशनयव्याख्यानप्रपञ्चात्मकेन नयचक्रशास्त्रेणानेनेति, अतीतावेक्षणं तत्रयुक्तिः, अतिदेशो नाम 10 प्रकृतस्यातीतेन साधनमतिदेश इति लक्षणात् , घटो हि विध्यादिद्वादशविधभवनसमूहात्मकः तेषामन्यतमाभावे न भवति, परस्परापेक्षायामेव भवतीति विस्तरेण चरितार्थमेतत् , एवञ्चेत्यादि, सप्त[शतार]नयचक्रशास्त्रोक्तविध्यादिद्वादशारशास्त्रान्तराधारनाभीभूतस्याद्वादप्रबन्धकृतैकवाक्यतायां सर्वशास्त्रप्रवृत्तीयत्तायां च सत्यामित्थं प्रतिपादितायां यदर्थापत्त्या शास्त्रोत्थाने प्रतिज्ञातं विध्यादिवृत्त्येकात्मकत्वात् जैनशासनसत्यत्वप्राप्तिरिति तत्सिद्धम् , तच्चोपसंहृत्य साधनमिदम्-जिनशासनमेकान्तसत्यमेवेति प्रतिज्ञा, सम्यक्सम्प्रसि- 15 एकानेकत्वादिषु भाव्य इत्यतिदिशति-एवमिति । व्याचष्टे-एकानेकेति । द्वादशनयान् भागत्रये प्रविभज्यैकानेकत्वादिप्रभेदविषयाः प्रतिज्ञाः प्रतिभागं संपिण्ड्य दर्शयति-तन्निदर्शनार्थमिति । प्रथममेकत्वप्रतिज्ञा तत एकानेकत्वप्रतिज्ञा ततश्चानेकत्वप्रतिज्ञेति द्वादशनयानुपूर्व्या कार्येत्याह-तयैवानुपूर्येति। तदेव दर्शयति-तत्रेति। कारणत्वकार्यत्वप्रभेदाश्रयेणाहएवं स्यात्कारणमिति । सर्वगतासर्वगतप्रभेदाश्रयेगाह-तथेति । भावार्थमाह-इत्थं तथैवेति, स्यान्नित्यः स्यान्नित्यानित्यः स्यादनित्य इति प्रतिज्ञावत्, स्यादेकः स्यादेकानेकः स्यादनेक इति, स्यात्कारणं स्यात् कारणकार्य स्यात्कार्यमिति. स्यात्सर्वगतं 20 स्यात् सर्वगतासर्वगतं स्यादसर्वगतमित्येवं द्वादशनयक्रमेण प्रतिज्ञाः कृत्वा हेतुरपि तथैवोच्यत इति भावः । साधनमाहविधीति । व्याख्याति-विधेर्ग्रहणेनेति । समासमाह-विधिश्चेति । तस्य भावार्थमाह-विध्यादीति । घटो यथा विधिखभावो विधिनियमस्वभावो नियमस्वभावश्च विध्यादिद्वादशात्मकत्वात् ततश्च स्यान्नित्यः स्यानित्यानित्यः स्यादनित्यश्च तथैव शब्दादयोऽपीत्याशयेन दृष्टान्तमाह-घटवदिति। द्वादशनयेषु घटस्य तथाविधत्वं दर्शितमेवेत्याह-भावितमेवेतीति । अनेना- . तीतस्य नयचक्रशास्त्रार्थस्य संसूचनपूर्वकमतिदिशति प्रकृतार्थे, अतोऽतीतावेक्षणं नाम द्वादशनयतन्त्रस्य युक्तिः, ताभिर्युक्तिभिः 25 प्रकृतार्थसाधनमतिदेश इत्याशयेन लक्षणमाह-अतीतेति । दृष्टान्तं घटयति-घटो हीति । एवञ्च जैनसत्यत्वसाधनवृत्तानुवृत्तिदिशविकल्पविशेषणा, अन्यथाऽवृत्तित्वमेव वक्ष्यमाणत्वादिति यत्प्रागुक्तं शास्त्रारम्भे तत्सिद्धं भवतीत्याह-सप्तशतारेति, सप्तशतारनयचक्रशास्त्रं पूर्वाचार्यविहितं तथोक्तविध्यादिद्वादशारशास्त्रान्तरं तयोराधारनाभीभूतः स्याद्वादप्रबन्धः तेनैकवाक्यताया कृतायां सत्यां एकवाक्यतायामेव सर्वशास्त्राणां प्रवृत्तित्वाच्च तदेकवाक्यत्वस्यैवं प्रतिपादिते सति शास्त्रोत्थाने विधिनियमभङ्गवृत्तिव्यतिरिक्तत्वाज्जैनादन्यच्छासनमनृतं भवतीत्युक्तौ यदर्थापत्त्या जैनशासनसत्यत्वं विध्यादिद्वादशवृत्त्येकवाक्यत्वादिति प्रतिज्ञातं 30 तत् सिद्धं भवतीति भावः । तदेव साधनेन समर्थयति-तच्चोपसंहत्येति । जिनशासनं एकान्तसत्यमेव, सम्यकसम्प्रसिद्ध्यप. सि.क्ष, धा. डे, विधिनियमौच । _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364