Book Title: Dvadasharnaychakram Part 4
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

Previous | Next

Page 225
________________ mamm ११०२ न्वायागमानुसारिणीव्याख्यासमेतम् [नियमनिययनयः आयुष्कजननेत्यादि, आयुःकर्मणा व्यवस्थितेन जीवस्य जननमरणे, नासता खपुष्पादिना, नार्थान्तरेणात्मापरिगृहीतपरमाण्वाकाशादिना वा यथोक्तं-'आयुगवसेन जीवो जायते जीवति य आउगस्सुदये । अन्नायुगोदए वा मरति उ सव्वायुणासे वा ॥( ) तस्मात्तयोः जन्ममरणयोर्द्वयोरपि, तत्रायुःकर्मणि स्थिते-विद्यमाने विद्यमान एवात्मा स्वयमुदीर्णायुष्कर्मपरिणतो जायते स एव म्रियते, भुक्तायु:5 कर्मत्वात् , असति च क्रियानुपपत्तेः, नात्यन्तासति खपुष्पे जन्ममरणादिक्रिया उपपद्यते, नाप्यर्थान्तरे तत्परिणामशून्ये गगनादौ । तथा चाभियुक्ताः पठन्ति मृङ् प्राणत्यागे इति (धातुपा. १४२८) व्यवस्थितो जीवो प्राणानुपात्तान् त्यजति, उपादत्ते च तानेव तत्र तद्भूतत्वात् किं सन्धानेन । तथा चाभियुक्ताः पठन्तीति, ज्ञापकमाह, के पुनरभियुक्ताः ? अर्थप्रवृत्तितत्त्वनिबन्धनशब्द10 स्वरूपपरिज्ञानलक्षणे व्याकरणेऽभियुक्ताः वैयाकरणाः, यथाह-'अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते ॥' (वाक्यप० का० १ श्लो० १३) तस्मादर्थतत्त्वस्य व्यवस्थापनार्थप्रवृत्तेः अर्थतत्त्वं व्यवस्थापयितुं प्रवृत्तत्वाद्वैयाकरणाः पठन्ति-'मृङ् प्राणत्यागे' इति, व्यवस्थितो जीवो म्रियते प्राणानुपात्तान्-इन्द्रियायुर्बलोच्छासलक्षणान् त्यजति, उपादत्ते च तानेव जायत इति, तत्र तद्भूत त्वात्-तत्रैवंप्रकारेऽवस्थितप्राणोपादानत्यागात्मलक्षणजन्ममरणात्मकायुःकर्मसाद्भूतात्मस्वरूपत्वात् किं 15 सन्धानेन ? किं प्रयोजनं कल्पितेन सन्धानेन ? नास्तीत्यर्थः । वा म्रियत इति न तृतीयादिक्षणे मरणनैयत्यमिति भावः। व्यवस्थितेनैवायुःकर्मणा जन्ममरणे इत्याह-आयुः कर्मणेति । तस्य व्यवस्थितत्वञ्च स्थितत्वेन भावत्वेनानान्तरभूतत्वेन च, अनर्थान्तरभूतत्वं चात्मनाऽऽयुःकर्मपुद्गलपरिणमनेनात्मसात्करणादिति भावः । व्यवस्थितत्वमेव व्यतिरेकमुखेन दर्शयति-नासतेति । आयुषो वशेन जन्ममरणे इत्यत्रागमं प्रमाणयति-'आयुगवसेन' इति, आयुष्कवशेन जीवो जायते जीवति चाऽऽयुष्कस्योदये । अन्यायुष्कोदये वा म्रियते तु सर्वायुर्नाशे वा ॥ इति । 20 छाया व्याख्यातार्था । स्थित एव आयुःकर्मणि स्थित एवात्मा उदीर्णायुष्कर्मणा सहानर्थान्तरभूतो जायते, स एव पूर्णे आयु:कर्मोपभोगे म्रियते न त्वविद्यमानेऽत्यन्ताभावरूपेऽनन्तरतयाऽपरिणते आत्मनि ते स्त इत्याह-तस्मात्तयोरिति । असदादिरूपे जन्ममरणादिक्रियानुपपत्तिमाह-असति चेति । अवस्थितस्यैव जीवस्य जन्ममरणे भवत इत्यत्राभियुक्तानां वचनमपि ज्ञापकतया दर्शयति-तथा चेति । अभियुक्तानां स्वरूपमाह-के पुनरिति । अथेति । अर्थविषयनिखिलव्यवहार सम्पादकजात्यादिबोधकशब्दखरूपप्रकाशकव्याकरणशास्त्रनिष्णाता अभियुक्ता वैयाकरणा इत्यर्थः । एतदर्थो कारिका वाक्यपदी25 योक्तामाह-अर्थप्रवृत्तीति । घटादीनामर्थानां प्रवृत्ती व्यवहारे जलाहरणादिरूपार्थक्रियाकारित्वेऽयं घट इत्यादिशब्दप्रयोगे वा तत्त्वानि-निमित्तानि-जातिगुणक्रियासंज्ञाः, जात्याद्यपरागाभावे इदं तदित्येवं व्यक्तीनां व्यवहार्यत्वाभावात्, तेषां शब्दा एव निबन्धनं-बोधकाः, सर्वव्यवहाराणां शब्दमूलत्वात्, शब्दोच्चारणमन्तरेण व्यवहर्तुमशक्यत्वात् , तत्र शब्दानां यत्तत्त्वं-साधुत्वं यथार्थबोधकत्वं वा तस्यावबोधो-निश्चयो व्याकरणमन्तरेण न सम्भवतीति तदर्थः । तस्मादर्थतत्त्वस्येति, अर्थतत्त्वव्यवस्थापनार्थप्रवृत्ता वैयाकरणा अभियुक्ताः, ते पठन्ति 'मृङ् प्राणत्यागे' इति म्रियत इत्यत्र मृधातुः प्राणानां त्यागे वत्तेत इत्यर्थः । 30 भावार्थमाह-व्यवस्थित इति। जीवो दशविधान प्राणान् यदा त्यजति तदा म्रियत इति तानेव यदोपादत्ते तदा जायत इति व्यपदिश्यत इति भावः । कारणमाह-तत्र तद्भूतत्वादिति, एवं प्रकारे आयुःकर्मणि आत्मसाद्भूतात्मस्वरूपत्वादित्यर्थः । कीदृशे आयुः कर्मणि ? अवस्थिते प्राणोपादानत्यागरूपे जन्ममरणात्मके आयुःकर्मसाद्भूतत्वादेव जायते म्रियत इति व्यपदेशो नानवस्थितभाविधर्मसन्धानादित्याशयेनाह-किंसन्धानेनेति । यदुक्तं प्राक् तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य १ छा. डे. क्ष. सि. अनव०। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364