________________
mamm
११०२
न्वायागमानुसारिणीव्याख्यासमेतम् [नियमनिययनयः आयुष्कजननेत्यादि, आयुःकर्मणा व्यवस्थितेन जीवस्य जननमरणे, नासता खपुष्पादिना, नार्थान्तरेणात्मापरिगृहीतपरमाण्वाकाशादिना वा यथोक्तं-'आयुगवसेन जीवो जायते जीवति य आउगस्सुदये । अन्नायुगोदए वा मरति उ सव्वायुणासे वा ॥( ) तस्मात्तयोः जन्ममरणयोर्द्वयोरपि,
तत्रायुःकर्मणि स्थिते-विद्यमाने विद्यमान एवात्मा स्वयमुदीर्णायुष्कर्मपरिणतो जायते स एव म्रियते, भुक्तायु:5 कर्मत्वात् , असति च क्रियानुपपत्तेः, नात्यन्तासति खपुष्पे जन्ममरणादिक्रिया उपपद्यते, नाप्यर्थान्तरे तत्परिणामशून्ये गगनादौ ।
तथा चाभियुक्ताः पठन्ति मृङ् प्राणत्यागे इति (धातुपा. १४२८) व्यवस्थितो जीवो प्राणानुपात्तान् त्यजति, उपादत्ते च तानेव तत्र तद्भूतत्वात् किं सन्धानेन ।
तथा चाभियुक्ताः पठन्तीति, ज्ञापकमाह, के पुनरभियुक्ताः ? अर्थप्रवृत्तितत्त्वनिबन्धनशब्द10 स्वरूपपरिज्ञानलक्षणे व्याकरणेऽभियुक्ताः वैयाकरणाः, यथाह-'अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणाहते ॥' (वाक्यप० का० १ श्लो० १३) तस्मादर्थतत्त्वस्य व्यवस्थापनार्थप्रवृत्तेः अर्थतत्त्वं व्यवस्थापयितुं प्रवृत्तत्वाद्वैयाकरणाः पठन्ति-'मृङ् प्राणत्यागे' इति, व्यवस्थितो जीवो म्रियते प्राणानुपात्तान्-इन्द्रियायुर्बलोच्छासलक्षणान् त्यजति, उपादत्ते च तानेव जायत इति, तत्र तद्भूत
त्वात्-तत्रैवंप्रकारेऽवस्थितप्राणोपादानत्यागात्मलक्षणजन्ममरणात्मकायुःकर्मसाद्भूतात्मस्वरूपत्वात् किं 15 सन्धानेन ? किं प्रयोजनं कल्पितेन सन्धानेन ? नास्तीत्यर्थः ।
वा म्रियत इति न तृतीयादिक्षणे मरणनैयत्यमिति भावः। व्यवस्थितेनैवायुःकर्मणा जन्ममरणे इत्याह-आयुः कर्मणेति । तस्य व्यवस्थितत्वञ्च स्थितत्वेन भावत्वेनानान्तरभूतत्वेन च, अनर्थान्तरभूतत्वं चात्मनाऽऽयुःकर्मपुद्गलपरिणमनेनात्मसात्करणादिति भावः । व्यवस्थितत्वमेव व्यतिरेकमुखेन दर्शयति-नासतेति । आयुषो वशेन जन्ममरणे इत्यत्रागमं प्रमाणयति-'आयुगवसेन' इति, आयुष्कवशेन जीवो जायते जीवति चाऽऽयुष्कस्योदये । अन्यायुष्कोदये वा म्रियते तु सर्वायुर्नाशे वा ॥ इति । 20 छाया व्याख्यातार्था । स्थित एव आयुःकर्मणि स्थित एवात्मा उदीर्णायुष्कर्मणा सहानर्थान्तरभूतो जायते, स एव पूर्णे आयु:कर्मोपभोगे म्रियते न त्वविद्यमानेऽत्यन्ताभावरूपेऽनन्तरतयाऽपरिणते आत्मनि ते स्त इत्याह-तस्मात्तयोरिति । असदादिरूपे जन्ममरणादिक्रियानुपपत्तिमाह-असति चेति । अवस्थितस्यैव जीवस्य जन्ममरणे भवत इत्यत्राभियुक्तानां वचनमपि ज्ञापकतया दर्शयति-तथा चेति । अभियुक्तानां स्वरूपमाह-के पुनरिति । अथेति । अर्थविषयनिखिलव्यवहार
सम्पादकजात्यादिबोधकशब्दखरूपप्रकाशकव्याकरणशास्त्रनिष्णाता अभियुक्ता वैयाकरणा इत्यर्थः । एतदर्थो कारिका वाक्यपदी25 योक्तामाह-अर्थप्रवृत्तीति । घटादीनामर्थानां प्रवृत्ती व्यवहारे जलाहरणादिरूपार्थक्रियाकारित्वेऽयं घट इत्यादिशब्दप्रयोगे
वा तत्त्वानि-निमित्तानि-जातिगुणक्रियासंज्ञाः, जात्याद्यपरागाभावे इदं तदित्येवं व्यक्तीनां व्यवहार्यत्वाभावात्, तेषां शब्दा एव निबन्धनं-बोधकाः, सर्वव्यवहाराणां शब्दमूलत्वात्, शब्दोच्चारणमन्तरेण व्यवहर्तुमशक्यत्वात् , तत्र शब्दानां यत्तत्त्वं-साधुत्वं यथार्थबोधकत्वं वा तस्यावबोधो-निश्चयो व्याकरणमन्तरेण न सम्भवतीति तदर्थः । तस्मादर्थतत्त्वस्येति, अर्थतत्त्वव्यवस्थापनार्थप्रवृत्ता वैयाकरणा अभियुक्ताः, ते पठन्ति 'मृङ् प्राणत्यागे' इति म्रियत इत्यत्र मृधातुः प्राणानां त्यागे वत्तेत इत्यर्थः । 30 भावार्थमाह-व्यवस्थित इति। जीवो दशविधान प्राणान् यदा त्यजति तदा म्रियत इति तानेव यदोपादत्ते तदा जायत इति व्यपदिश्यत इति भावः । कारणमाह-तत्र तद्भूतत्वादिति, एवं प्रकारे आयुःकर्मणि आत्मसाद्भूतात्मस्वरूपत्वादित्यर्थः । कीदृशे आयुः कर्मणि ? अवस्थिते प्राणोपादानत्यागरूपे जन्ममरणात्मके आयुःकर्मसाद्भूतत्वादेव जायते म्रियत इति व्यपदेशो नानवस्थितभाविधर्मसन्धानादित्याशयेनाह-किंसन्धानेनेति । यदुक्तं प्राक् तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य
१ छा. डे. क्ष. सि. अनव०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org