________________
आयुष्के जननमरणे ]
द्वादशारनयचक्रम्
११०१
2
विलक्षणस्य भावान्तरविलक्षणस्य विपर्ययसाधनाद्विरुद्धो हेतुः स्थितमेव जायते जातञ्च म्रियत इत्येवं लोके दृष्टत्वात्, यथा कृतकत्वानित्यत्वधर्मा स्थित एव घटादिः शब्दानित्यत्वप्रतिज्ञायां दृष्टान्त उच्यते नास्थितो नात्यन्ताभावो नापि ततोऽर्थान्तरभूतो वा कृतकत्वानित्यत्वधर्मासम्बन्ध्याकाशादिः तथाऽवस्थित पुरुषमरणव्यपदेशो जन्मना तदविनाभावात् घटाद्यनित्यधर्मिव्यपदेशवन्मरणधर्मिव्यपदेशः ।
5
( तस्येति ) तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थं - उत्पन्नं क्रियाविरहितं स्थितिविरहितचेति ज्ञापयितुं, तदुदाहरणे यथासंख्यं - यद्वत् क्षणिक आस्ते - नि: कर्मेत्यर्थः, क्षणिकं निकेतनं - स्थित पुरुषादिरहितं गृहमित्यर्थः, अत्रोच्यते - एतदपि परिकल्पितमेव- अयुक्तम्, यन्मरणधर्मिणीत्यादि, द्रव्यार्थस्य [[] क्षणिकस्यात्माख्यस्याभावविलक्षणस्य भावान्तरविलक्षणस्येति दृष्टान्तस्य वैधर्म्यं दर्शयति, विपर्ययसाधनाद्विरुद्धो हेतुरिति, एवं स्थितमेव जायते, जातश्च म्रियते, स्थित्यविनाभाविनी जन्ममरणे, मरणाविनाभावि च 10 जन्मेत्येवं लोके दृष्टत्वात्, उपदृष्टान्तश्च कृतकत्वानित्यत्वेत्यादि, कृतकत्वधर्माऽनित्यत्वधर्माचा[व] स्थित एव घटादिः शब्दानित्यत्वप्रतिज्ञायां दृष्टान्त उच्यते यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति, नास्थितो नात्यन्ताभावो नापि ततोऽर्थान्तरभूतो वा यावद्धर्मासम्बन्ध्याकाशादिरिति, तद्वदवस्थितघटाद्यनित्यत्वस्य कृतकत्वेन व्यपदेशवत् अवस्थित पुरुषमरणव्यपदेशो जन्मना तदविनाभावादिति दृष्टान्तस्य स्वपक्षसाधकतामापाद्य दाष्टन्तिकत्वोपसंहारं करोति - घटाद्यनित्यधर्मिव्यपदेशवन्मरणधर्मिव्यपदेशः ।
आयुष्कजननमरणयोर्द्वयोरपि आयुःकर्मणि स्थिते आत्मा जायते स एव म्रियते 'भुक्तायुः कर्मत्वात्, असति च क्रियानुपपत्तेः ।
शून्यत्वञ्च प्रतीयते तथैवोत्पन्नस्य वस्तुनः क्रियाशून्यता स्थितिशून्यतयोः प्रदर्शनार्थं तथा विग्रहः कार्य इत्याशयेन व्याकरोतिउत्पन्नमिति । इत्थमुत्पन्नस्य क्रियारहितत्वस्थितिरहितत्वप्रसाधनं त्वया यत्क्रियते तद्विपर्ययसाधनमेवेति निराचष्टे -- एतदपि परिकल्पितमेवेति । मरणधर्मिणीव त्वया क्षणिकत्वं यत् साध्यते तद्रव्यार्थस्य विपर्ययसाधनं क्रियत इत्याह- द्रव्यार्थस्येति । 20 द्रव्यरूपोऽर्थः न क्षणिकोऽभावविलक्षणः, तव तु क्षणिकोऽर्थः कालाभेदभवनाभावादभावरूप इति मरणधर्मिप्राणिनो दृष्टान्ताद्विधर्मा क्षणिकः, तस्माद्भाविधर्मव्यपदेशादिति हेतुर्विपर्ययसाधनं भवति तेन द्रव्यार्थस्याक्षणिकस्यैव सिद्धेरतो क्षणिकत्वसाधने विरुद्ध हेतुरिति दर्शयति- विपर्ययसाधनादिति । लोकरूढिमपि प्रमाणयति - एवं स्थितमेवेति, स्थितमेव जायते विनश्यति चेति जन्ममरणे स्थित्यविनाभाविनी जन्मापि मरणाविनाभावि लोके दृष्टमिति भावः । अत एव च शब्दोऽनित्यः कृतकत्वादित्यत्र घटादिष्टान्त उच्यते कृतकत्वानित्यत्वधर्मयोऽरवस्थितस्यैव सम्भवात्, न ह्यनवस्थितोऽत्यन्ताभावस्ताभ्यामर्थान्तर - 25 भूतो वा गगनादिः तयोः सम्बन्धी भवतीत्याह - उपदृष्टान्तश्चेति । घटदृष्टान्तेन प्रकृतं समीकरोति तद्वदिति, अवस्थिते घटे विद्यमानमेवानित्यत्वं कृतकत्वेन यथा व्यपदिश्यते तथैवावस्थितपुरुषस्यैव मरणव्यपदेशः जन्मना तस्याविनाभावादिति भावः । अवस्थितस्यैव जन्मिनो मरणमित्यर्थे दृष्टान्तं घटादि प्रदर्श्य विद्यमानस्येव कृतकघटादेरनित्यधर्मिव्यपदेशवत् जन्मिनोऽवस्थिततथापि पुरुषस्यैव मरणधर्मित्वेन व्यपदेश इत्याह- इति दृष्टान्तस्येति । ननु भवतु मरणधर्मी प्राणी, स्थितस्यैव च मरणम्, तृतीया दिक्षणे कुतो न तस्य मरणमित्यत्राह - आयुष्केति, जननञ्च मरणञ्च जननमरणे, आयुषो भवे आयुष्के, ते च ते जननमरणे 30 च तयोरिति विग्रहः, जननमरणे आयुर्निमित्ते, न निर्हेतुके, यदा चायुष उदयः तदा जायते जीवः, अन्यायुष उदये सर्वायुर्नाशे
१ सि. क्ष. छा. डे. परिकृतामेवायुक्तम् ।
Jain Education International 2010_04
15
For Private & Personal Use Only
www.jainelibrary.org