SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ नियमनियमनयः সম~ স यत्तूत्तरेणेत्यादि, यदस्माभिर्दूषणं- उत्तरेण विनाशेन प्राच्यस्यासतस्तत्काले तेन वा विनाशे[न] सम्प्रत्यसता न युक्तो व्यपदेश इत्यस्योत्तरं परिहारान्तरं यदुच्यते त्वया-न, भाविधर्मव्यपदेशादिति तद्व्याख्याभाविनं क्षणं सन्धायोच्यते क्षणोऽस्यास्तीति क्षणिक इति, असहभाविनाऽपि भाविना तद्वत्ता भवति, किमिव ? मरणधर्मवत् यथा भाविना मरणधर्मेण तद्वान् मनुष्यादिः प्राणी व्यपदिश्यते, तथा प्रथमक्षणे द्वितीयD क्षणेनासह भाविनाऽपि भाविना क्षणिक इत्यपदेशो व्यपदेशः, तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य एव व्यपदेशः, यदि भावकालान्तरभाविना मरणधर्मेणापि व्ययात्मकेन तस्यैव धर्म इति व्यपदिश्यते भावः किमिति पुनरात्मलाभानन्तरभाविनाशेनात्मीयेन प्रथमक्षण एव क्षणिक इति नोच्यते, भाविक्षणसन्धानश्चेत्यादि, मैवं मंस्थाः प्रतिबध्यमानेनेदानीं हेत्वन्तरमुपात्तमिति, किं तर्हि ? भाविक्षणसन्धानञ्च प्रथममेवोपात्तं मयाऽऽत्मैलाभोऽनन्तरेति विशेष्योक्तत्वात्, अतोऽनन्तरशब्दलोपं कृत्वा - अनन्तरक्षणोऽस्या10 स्तीति विगृह्यानन्तरशब्दलोपं कृत्वा ठन्प्रत्यय उत्पाद्यते क्षणिक इति, यथा देवदत्तो देविल इति, 'ठाजादावूर्द्ध द्वितीयादचः ' ( पा० ५ -३ - ८३ ) इति । www. www किमर्थं पुनरेवमुच्यते ब्रूमः— ११०० तस्योत्पन्नस्य व्यापारस्थितिरिक्तताज्ञापनार्थमेवमुच्यते यद्वत् क्षणिक आस्ते, क्षणिकं निकेतनमिति, एतदपि परिकल्पितमेव यन्मरणधर्मिणो द्रव्यार्थस्याक्षणिकस्यात्माख्यस्याभाव15 यत्तूत्तरेणेति । व्याचष्टे - उत्तरेणेति, उत्तरेण विनाशरूपेण क्षणेन प्राच्यस्योत्पादस्य तत्कालेऽसतः - विनाशकालेऽविद्यमान क्षणिकत्वेन व्यपदेशो न युक्तः, एवं तेन - विनाशक्षणेनोत्पादस्य सम्प्रत्यसता - उत्पादकालेऽविद्यमानेन क्षणिकत्वेन व्यपदेशो न युक्त इति यद्दूषणमस्माभिरुक्तं तत्परिहाराय उत्पादकाले विनाशस्याभावेऽपि तदनन्तरक्षणे विनाशो भविष्यतीति कृत्वा भावना विनाशेनोत्पादः क्षणिकत्वेन व्यपदिश्यत इति यदि परिहारान्तरं ब्रूष इति भावः । तदेव परिहारान्तरं दर्शयति-न, भाविधर्मेति । भाविनं विनाशं बुद्ध्या विषयीकृत्योत्पादस्य तदसह भाविनः क्षणिकत्वेन व्यपदिश्यत इति व्याचष्टे - भाविनमिति । तथा व्यपदेशः किं क्वचिदपि दृष्ट इत्यत्राह - मरणधर्मिवदिति । दृष्टान्तं दाष्टन्तिकं च समीकरोति - यथा भाविनेति । 20 प्राणिर्मरणधर्मीति व्यपदेशस्य भाविधर्मेण मरणेन भवतो यदि प्रामाणिकत्वं तर्हि प्रथमक्षणोऽपि भाविना स्वधर्मेण विनाशेन क्षणिकः कुतो न स्यादित्याह-यदि भावकालान्तरभाविनेति, भावस्य प्राणिनः कालान्तरे भाविना मरणेन धर्मेणेत्यर्थः । यथा मरणधर्मः प्राणिन एव भावी धर्म इति कृत्वा प्राणी मरणधर्मा व्यपदिश्यते तथा नाशोऽपि प्रथमक्षणस्याऽऽत्मीयो भावीति प्रथमक्षण एव कुतो न क्षणिक इति व्यपदिश्येतेत्याह- किमितीति । मया प्रतिबध्यमानत्वं प्राक्तनं हेतुं विहाय सम्प्रति हेत्वन्तरं स्वीकृतवानिति मा मंस्थाः, भाविधर्मसन्धानरूपो हेतुर्मया प्रागेवोपात्त आत्मलाभानन्तरमिति पदेनेत्याह-मैवं संस्था इति । तथा च क्षणिकशब्दव्युत्पत्तिरनन्तरक्षणोऽस्यास्तीति क्षणिक इत्यनन्तरशब्दलोपं कृत्वा विज्ञेया, तथा च न हेत्वन्तरत्वप्रयुक्तनिग्रहस्थानतेत्याशयेनाह - भाविक्षणसन्धानश्चेति, भाविनः क्षणस्य योजनमित्यर्थः । विग्रहं दर्शयतिअनन्तरक्षण इति । दृष्टान्तमाह-यथेति, अनुकम्पितो देवदत्तः देविको देविल इत्यादिदेवदत्तशब्दात् उन्प्रत्यये इलप्रत्यये वा प्रकृतेर्द्वितीय स्वरादूर्ध्वभागस्य दत्तशब्दस्य 'ठाजादावूर्द्ध द्वितीयादच' इति सूत्रेण लोपे देविको देविल इत्यादि रूपसिद्धिः, तथैवात्र पूर्वपदस्यानन्तरशब्दस्य लोपः 'पूर्वपदस्य चे'ति वार्त्तिकेन लोपे क्षणिक इति भवति, तथा च न हेत्वन्तरो - 30 पादानमिति भावः । किमर्थमनन्तरशब्दलोपं विधाय रूपं साध्यत इत्यत्र तत्प्रयोजनमाह-तस्योत्पन्नस्येति । यथाऽयं क्षणिक आस्ते इत्यनेन निष्कर्माssस्त इति क्षणिकं निकेतनमित्यनेन च गृहमिदं क्षणिकं न कोऽप्यत्र वर्त्तत इति क्रियाशून्यत्वं स्थिति 25 १ सि, क्ष. छा. डे. आत्मलाभानन्तरमिति । २ सि. क्ष. छा. डे. देवदत्ता देवल इति वरताजदापूर्वं द्वितीयादय इति । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy