________________
क्रमिके क्षणिकशब्दायोगः] द्वादशारनयचक्रम्
१०९९ कारणेनासाद्येते उत्पादविनाशाविति, यद्येवं नेष्यते खपुष्परूपमप्यासाद्येत, तस्योत्पादादान्तरत्वेनाभूतत्वात् यद्यदुत्पादादर्थान्तरत्वेनाभूतः तत्तेनासाद्यमानं दृष्टम् , यथाङ्कर उत्पादेन, अङ्कुरं वोत्पादो नासादयेत् , अर्थान्तरत्वेनाभूतत्वात् खपुष्पवन्ध्यासुतादिवत् ।
ननूक्तवस्तुवादवदित्यादि । यावदासाद्यते इति, ननु पूर्वमुत्पततैव मयोक्तमाहतवादवदुत्पादविनाशवता वस्तुना स्थितिमतापि भवितव्यं भूतत्वादित्यादि, तच्च भवदेव भवति, नाभवत्, भवच्च कारणं । द्रव्यमेवोत्पादं विनाशं कार्यश्चात्मसात्करोति-आसादयति, तस्मात्तेनैव भवता द्रव्येण कारणेनासाद्येते कोर्योत्पादविनाशाविति नाभवत्कार्यमासादयितुमर्हति कश्चिदर्थमसत्त्वात् खपुष्पवत् , यद्येवं नेष्यतेअतस्त्वन्यथा खपुष्परूपमप्यासाद्येतैव-निर्बीजमपि उत्पादवदेव भवेत् , उत्पादो हि भवता निर्बीजोऽभ्युपगतः, स चोत्पादो निर्बीजः कारणान्यात्मसात्करोतीतीष्टः, तस्मात्तेनैवोत्पादेनात्मसाक्रियेत खपुष्पवंध्यासुताद्यपि, किं कारणं ? तस्य खपुष्पादेरुत्पादादर्थान्तरत्वेनाभूतत्वात् , यद्यदुत्पादादर्थान्तरत्वेनाभूतं तत्तन्ना- 10 साद्यमानं-आत्मसात्क्रियमाणं दृष्टम् , यथाऽङ्कुर उत्पादेनेत्यापन्नमनिष्टश्चैतत् , अङ्कुर वोत्पादो नासादयेत् , अर्थान्तरत्वेनाभूतत्वात् खपुष्पवन्ध्यासुतादिवत् ।
__ यत्तूत्तरेण विनाशेन प्राच्यस्यासतः तत्काले तेन वा सम्प्रति असता न युक्तो व्यपदेश इत्यस्योत्तरं यदुच्यते त्वया न भाविधर्मव्यपदेशादिति भाविनं क्षणं सन्धायोच्यते क्षणोऽस्यास्तीति क्षणिक इति मरणधर्मिवत् , तस्यैव चासौ भावस्य व्ययः प्राच्यस्येति न्याय्य एवापदेश: 15 यदि भावकालान्तरभाविना मरणधर्मेणापि व्ययात्मकेन तस्यैव धर्म इति व्यपदिश्यते भावः किमिति पुनरात्मलाभानन्तरभाविना विनाशेनात्मीयेन प्रथमक्षण एव क्षणिक इति नोच्यते भाविक्षणसन्धानश्चानन्तरशब्दलोपं कृत्वा उत्पाद्यते क्षणिक इति ।
क्षणिकशब्दस्यास्त्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्ग इति स स्थितोऽर्थो जैनेन्द्रव्युत्पादितोत्पादविनाशपर्यायार्थसहचारिस्थितद्रव्यार्थवद्भवितुमर्हतीति प्रतिपादितस्तद्वदित्यर्थः । इदमेवाह-ननु पूर्वमिति । तच्च स्थितिमद्वस्तु 20 भवदेव तेन तेन रूपेण भवति, नाभवत् , भवद्वस्त्वेव कारणं कार्यभूतमुत्पादं विनाशश्चात्मसात्करोतीत्याह-तञ्च भवदेवेति । भवतैव कारणेन कार्यस्यात्मसात्करणात् नाभवत्कार्य कच्चिदप्यर्थ कारणरूपमासादयितुमर्हति स्वयमसत्त्वात् खपुष्पवदित्याह-तस्मा तनैवेति, भवत एव भवनादित्यर्थः । यद्यभवदपि भवनमासाद्यते तदाऽऽह-अतस्त्वन्यथेति, खपुष्पमपि भवनमासायेतेति भावः । तत्समर्थयति-उत्पादो हीति, भवन्मते उत्पादो निर्बीजः, अभवद्भवनरूपत्वात् , स च कारणान्यात्मसात्करोतीति मन्यते, एवञ्चोत्पादेन कारणवदसत् खपुष्पाद्यपि आत्मसात्क्रियेतेति भावः । तत्र कारणमाह-तस्येति । खपुष्पाद्यपि भवन-26 मासाद्येत, उत्पादादर्थान्तरत्वेनाभूतत्वात् , यथाऽङ्कुरस्योत्पादादर्थान्तरत्वेनाभूतत्वादुत्पादेनाङ्कुर आसाद्यत इत्यनुमानं दर्शयतियद्यदिति। खपुष्पादेरुत्पादादर्थान्तरत्वेनाभूतत्वेऽपि तेनासाद्यमानत्वस्यानभ्युपगमेऽङ्करमप्युत्पादो नासादयेत् , तदर्थ भूतत्वात् खपुष्पवन्ध्यापुत्रादिवदिति विपक्षेऽनिष्टमाह-अङ्करं वेति, अङ्कुर उत्पद्यते खपुष्पादि नोत्पद्यत इति विशेषो न स्यादिति भावः । ननु क्षणेन विनाशेन विनाशकाले उत्पादकाले वा क्षणिकव्यपदेशोऽसत्त्वान्न सम्भवतीति दूषणस्य परिहारान्तरमाशङ्कते
१ सि. क्ष.धा. डे. पूर्वमुतातवैवमयोक्तः । २ सि. क्ष. छा. डे. कार्योत्पादाविति । ३ सि. क्ष. छा. ड़े, उत्पादादेव।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org