________________
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः अत्र ब्रूमः
एवन्ते य उत्पादः स एवार्थः, तेनैव स एव क्षणिकः उत्पादातिरिक्तार्थासम्भवादिति अनिष्टं क्षणिकशब्दार्थसमीकरणव्याख्याप्रवृत्तेन त्वया तस्यैव विनाशितत्वात् न च स यस्य क्षणः न च योऽसौ क्षणः येन सम्बन्धात् क्षणोऽस्यास्तीति क्षणिक उच्यते ततोऽन्यः अतः 5 साधनधर्मविकल इत्येतच्च न तुल्यपरिप्रश्नार्थत्वात् , कारणेन कार्यमात्मसात्कृतं कार्येण कारणमिति कतरस्य वचसा विशेषनिर्णयोऽस्त्वावयोः ?
एवं ते य उत्पाद इत्यादि, तन्मतप्रत्युच्चारणं, यावदुत्पादातिरिक्ता[A]सम्भवादिति, तच्चानिष्टं तवैव, क्षणिकशब्दार्थसमीकरणव्याख्याप्रवृत्तेन त्वया तस्यैव विनाशितत्वात् , कथमिति तद्दर्शयति-न च स यस्य क्षण इति न च सोऽर्थो यस्तेन क्षणेन तद्वान् क्षणिक उच्यते, स्वामी दण्डेनेव दण्डिकश्चैत्रः, 10 त्वयैवोत्पादक्षणातिरिक्तार्थासम्भवादित्युक्तत्वात् , न च योऽसौ क्षण इति, सोऽपि क्षणो नास्ति, यश्चैत्रदण्डित्वव्यपदेशकारणदण्डस्थानीयस्वत्वभाक्, येन सम्बन्धात् क्षणोऽस्यास्तीति क्षणिक उच्यते ततोऽन्यः अतः साधनधर्मविकल इत्येतञ्च न, तुल्यपरिप्रश्नार्थत्वात् , वयं ब्रूमः कारणेन कार्यमात्मसात्कृतं तन्त्वादिना पटादीति, त्वं ब्रूयाः कार्येण पटादिनाऽऽत्मसात्कृतास्तन्त्वादय इति कतरस्य वचसा विशेषनिर्णयोऽस्त्वावयोः।
विशेषमपि चात्र ब्रूमःननूक्तवस्तुवादवत् भवच्च कारणं द्रव्यमेव कार्यमात्मसात्करोति, तस्माद्भवता द्रव्येण
mm
एवं त इति, एवं वदतस्तवेत्यर्थः । पर्यायार्थिको हि क्षणिकवादः तन्मते पर्याया एव तत्त्वं न कश्चित् स्थितपदार्थः, एवञ्चोत्पादव्यतिरिक्तो नार्थः, अतस्तेनैव स तद्वान् भवति क्षणोऽस्यास्तीति क्षणिक इति, यद्येवं तस्याभ्युपगमस्तर्हि तेनैव क्षणिकशब्दार्थसमीकरणप्रवृत्तेन क्षणिकशब्दार्थो विनाशित इत्याशयेन व्याचष्टे-तञ्चानिष्टं तवैवेति । कथं तेन विनाशित इत्यत्राह-न च स
इति, न च सोऽस्ति यस्यासौ क्षणः स्यादित्यर्थः । उत्पादव्यतिरिक्तार्थाभावेन यदा क्षणोऽस्ति न तदाऽर्थोऽस्ति यतस्तेन क्षणेन 20 सोऽर्थस्तद्वानिति कृत्वा क्षणिक उच्यतेत्याशयेन व्याचष्टे-नच सोऽर्थ इति, यद्वोत्पत्तिक्षणस्यैव विनाशक्षणत्वाद्विनाशेन चोत्पत्तेरात्मसात्कृतत्वादसत्त्वम् , तेन दण्डेन स्वामी चैत्रो यथा दण्डिक उच्यते तथा क्षणिक इति स नोच्येत उत्पादादतिरिक्तस्तु नास्ति कश्चित् ,यःक्षणिको भवेत् , त्वयैव उत्पादातिरिक्तार्थाभावादित्युक्तत्वादिति भावः अथवोत्पादाश्रयीभूतस्य द्रव्यस्थानीयस्यार्थस्याभावात् क्षणिकशब्दो नार्थवानिति भावः। क्षणोऽपि नास्ति दण्डस्थानीयः, यस्य सम्बन्धात् स क्षणिकव्यपदेशभाक् स्यादित्याह-न च
योऽसौ क्षण इतीति, उत्पादातिरिक्ताभावादेव, विनाशेनोत्पादस्यात्मसात्कृतत्वाद्विनाशस्य चासद्रूपत्त्वादिति भावः । उत्पाद25 वानकर इत्यत्र तूत्पादातिरिक्तोऽकरो द्रव्यस्थानीयोऽस्ति न तथाऽत्रेति साधनधर्मविकलस्तव पक्ष इत्याह-अत इति । एवं त्वया
क्षणिकशब्दार्थ एव विनाशितस्तथाप्येतन्न सम्यक् परिप्रश्नार्थस्य समानत्वात् त्वया पर्यायवादिना य एवोत्पादः स एवार्थ इत्युत्पादेनार्थ आत्मसात्कृत इत्युच्यते, मया द्रव्यार्थवादिना य एवार्थः स एवोत्पाद इत्यर्थेनोत्पाद आत्मसात्कियत इत्युच्यते, तथा च परिप्रश्नस्य समानत्वाद्विशेषनिर्णायकाभावात् कतरद्वचनं साध्विति भाव्यमिति दर्शयति-इत्येतच नेति । य एवोत्पादः स एवार्थ
इत्यभ्युपगम्य क्षणिकव्यपदेशसाधनं न युक्तमिति भावः । तुल्यतामाविष्करोति-वयं ब्रूम इति, द्रव्यार्थवादिनो वयं कारणेन 30 कार्यमात्मसात्क्रियते तस्माद्रव्यप्राधान्यमिति बूम इत्यर्थः । त्वं ब्रूया इति, पर्यायवादी त्वं कार्येण विनाशादिना कारणमुत्पत्तिः
उत्पत्त्या वा कार्येण कारणमङ्करादि आत्मसाक्रियते तस्मात् कार्य पर्यायः प्रधानमिति ब्रूयाः तत्र कस्य वचसा विशेषनिर्णयः कार्य इत्यनिर्णयः विशेषाभावादिति तुल्यतेति भावः । मया प्राक् प्रारम्भादिक्रियाणां पूर्वनिर्वृत्तवस्तुनिबन्धनत्वं प्रतिपादयता विशेष उक्त एवेत्याह-ननूक्तवस्तुवादवदिति । वस्तुवादः-द्रव्यार्थलक्षणार्थप्रतिपादनम्, पूर्वमुक्तः-क्षणिकशब्दार्थतत्त्वान्वीक्षणावसरे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org