________________
mom.mmm
wwamam
स्वार्थिकः क्षणिकशब्दः] द्वादशारनयचक्रम्
१०९७ स्यादियमाशङ्का तयोः पूर्वोत्तरक्षणयोरन्यतरस्तिष्ठत्यतो व्यपदेशसिद्धिरिति प्रत्युच्चारणं-अथ स्थाता कश्चिट्ठयोरपि क्षणयोरिति, यद्युत्तरो यदि पूर्वो यथेच्छसि तथास्तु, तिष्ठतु नाम, तथाऽभ्युपगतेऽपि दोषस्तयोः 'यद्येकस्मिन् क्षणे जात' इत्यादिश्लोकः त्वयोक्तो विनाशकारणाभावादनन्तकालावस्थानमिति दोष एव, एवं तावद् द्वयोः क्षणयोः सम्बन्धाभावात् क्षणिक शब्दार्थोऽसन् , यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तरशब्दस्य व्यपदेश[7]सिद्धिरिति वर्त्तते ।
अथाऽऽत्मलाभोऽनन्तरविनाशधर्मसम्बन्धी, अनन्तरश्चासौ विनाशश्चेति समासत्वात् तस्यैव विनाशधर्मसम्बन्धिनः सम्बन्ध्यस्तीति क्षणिकशब्दोऽर्थवान् , न हि रूपादिविनाशक्षणव्यतिरिक्तः उत्पादक्षणः, तेनैव स क्षणिकः, अव्यतिरेकेऽपि सम्बन्धवाचिप्रत्ययदर्शनात् यथोत्पादवानङ्कुरः, स चोत्पादादनान्तरमङ्कुरः, उत्पादातिरिक्ताङ्कुरासम्भवात् ।
अथाऽऽत्मलाभ इत्यादि, अथ मा भूदेष दोष इत्युत्पत्त्यनन्तरविनाशक्षण इत्यनन्तरशब्द 10 उत्पत्तिक्षणमेवाह, स एवोत्पत्तिक्षणोऽनन्तरविनाशी समानाधिकरणसमासत्वात् तदर्शयति-अनन्तरश्च[सौ] विनाशश्वेत्यादिना, तस्यैवात्मलाभस्य विनाशधर्मसम्बन्धिनः सम्बन्ध्यस्तीति क्षणिकशब्दोऽर्थवान् , तद्व्याख्या-न हि रूपादिविनाशेत्यादि यावत् क्षणिकः, कास्य सम्बन्धिवाचिप्रत्ययता दृष्टेति चेत् दृश्यते यथोत्पादवानकर इत्युच्यते, नाङ्कुरव्यतिरिक्त उत्पादो न चोत्पादव्यतिरिक्तो मैतुबर्थोऽयमुत्पादवानङ्कर इत्युच्यते, दृष्टश्चायं व्यपदेशस्तेनैव तस्य, [तदेव] दर्शयन्नाह स चोत्पादादनान्तरमङ्करः, कस्मात् ? 15 उत्पादातिरिक्ताङ्कुरासम्भवादिति । तयोस्तस्माद्विनाशेन प्राच्यस्योत्पादस्य प्राच्येन वोत्तरस्य क्षणिकत्वेन व्यपदेशो न युक्त इति भावः । ननूत्पत्तिक्षणे विनाशस्य विनाशक्षणे वोत्पादस्यावस्थितिरस्ति, ततश्च व्यपदेशो भवतीति शङ्कते-स्थादियमाशङ्केति । तर्हि सदावस्थानं विनाशकारणाभावादिति 'यद्यकस्मिन् क्षणे जातो न विनश्येदकारणात् । अवस्थानं सदा तस्य स्याद्वितीयक्षणे यथा' ॥ इत्येवमर्थकारिकया त्वयैवोक्तो दोषो दुरुद्धर इति समाधत्ते-तथाऽभ्युपगतेऽपीति, द्वयोरन्यतरावस्थानाभ्युपगमेऽपीत्यर्थः । एवञ्चोत्पत्तिक्षणो 20 विनाशक्षणश्च तदनन्तरमित्यत्रानन्तरशब्दस्यान्तरालेऽवस्थितेयुदासार्थत्वे द्वयोरपि क्षणयोः सम्बन्धाभावात् क्षणोऽस्यास्तीति क्षणिक इति शब्दार्थोऽसन्नेव स्यात्, तथा च न तेन शब्देन व्यपदेशः स्यादित्युपसंहरति-एवं तावदिति । नन्वनन्तरशब्दो व्यवधानाभावसूचकः, व्यवधानाभावश्चोत्पादाव्यवहितोत्तरक्षणजन्यविनाशे इवोत्पादक्षणभाविनि विनाशेऽप्यस्तीति विनाशवानुत्पादो भवितुमर्हतीति क्षणिकव्यपदेशोऽर्थवानित्याशङ्कते-अथाऽऽत्मलाभ इति । उत्पत्त्यनन्तरविनाशक्षण इत्यत्रानन्तरशब्द उत्पत्तिक्षणमेवाह, अन्तरालाभावस्योत्पत्तिक्षणेऽपि सत्त्वात् , अत उत्पत्तिक्षणोऽनन्तरविनाशक्षणवान् भवति, एवञ्चोत्पत्तिरूपोऽनन्तर 26 एव विनाश इति कृत्वा समानाधिकरणत्वादनन्तरश्चासौ विनाशश्चेति समानाधिकरणकर्मधारयसमास उपपद्यत इत्याशयेन व्याकरोति-अथ माभूदिति । आत्मलाभो विनाशधर्मसंबन्धी, अत एव उत्पादस्य विनाशः संबंधीभूतः क्षणः सोऽस्तीति क्षणिक उत्पाद उच्यते इत्याह-तस्यैवेति । उत्पादक्षणस्य विनाशधर्मसम्बन्धित्वाद्रूपादिविनाशक्षणव्यतिरिक्तो नोत्पादक्षण इति तयोरेकता, तथापि क्षणोऽस्यास्तीति क्षणिक इति खेनैव खस्य व्यपदेशो भवत्येव, अव्यतिरेकेऽपि सम्बन्धिनोः सम्बन्धवाचिमतुष्प्रत्ययान्तदर्शनादित्याशयेन प्रोक्तग्रन्थं विशदयति-तद्वयाख्येति । नन्वव्यतिरेके सम्बन्धवाचिमतुप्प्रत्ययान्तत्वं क्व दृष्टमित्याशङ्कय समाधत्ते- 30 कास्येति । उत्पादवानकर इति,अङ्कुर एवोत्पाद उत्पाद एव चाङ्कुरः, न हि तयोर्भेदोऽस्ति तथापि सम्बन्धवाचिमतुप्प्रत्ययान्तेनोत्पादवानकर इति व्यपदेशो दृश्यते तथैवात्रापीति भावः । नन्वेवंवदता त्वयैव क्षणिकशब्दार्थो विनाशित इत्याशयेनोत्तरयति
१ सि.क्ष. धा. डे. मनुपर्बोय
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org