________________
amminimunmun
१०९६
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनया क्षणान्तरापेक्षत्वादर्थवान् , अतो न दोषो न द्रव्यार्थपरिग्रहोऽवस्थितार्थोऽन्वेष्य इति, अत्रोच्यते-एवमपि न युक्तोऽपदेशः क्षणोऽस्यास्तीति क्षणिक इति पर्यायान्तरापेक्षयापि, कस्मात् ? इतराभावे इतरस्यापि तथाभावात् , यथा दण्डाभावे दण्डिकत्वेन चैत्रस्याप्यभावात् चैत्रो दण्डिक इति नोच्यते, एवमुत्पत्तिक्षणस्य विनाशक्षणस्य वा परस्परमितरकाले इतरस्यात्यन्तमसत्त्वात् विनाशक्षण उत्पत्तिक्षणवान्न भवति, उत्पत्तिक्षणो6 ऽपि विनाशक्षणवान्न भवति, खरविषाणवत्त्वेन चैत्राभाववत् , यदा दण्डो विद्यते चैत्रोऽपि विद्यते तदाऽस्य
चैत्रस्य तेन-दण्डेन तद्वत्ता-दण्डवत्ता दण्डिकत्वाद्यपदेश्यता स्यादिति वैधयेण निदर्शनम्, इह तु यदोत्पत्तिक्षण इत्यादिनोत्पत्तिविनाशक्षणयोरसाधर्म्य दर्शयति यावत् प्राच्यापदेशो न युक्त इति गतार्थम् ।
यदपि च नाशोत्पादावित्यादिनिदर्शनमुक्तं तदप्यर्थान्तरयोयुगपत् सतोस्तुलान्तयोयुज्यते न तु विद्यमानाविद्यमानयोः क्षणयोः योगपद्यम् , घटखपुष्पयोरिव, अथ स्थाता कश्चि10 हूयोरपि क्षणयोः उत्तरः पूर्वो वा, तिष्ठतु नाम, तथापि यद्येकस्मिन् क्षणे जात इत्यादित्वयोक्तो दोष एव, एवं तावद्वयोः क्षणयोः सम्बन्धाभावात् क्षणिकशब्दार्थोऽसन् यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तरशब्दस्य ।।
(यदपि चेति) यदपि च 'नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयो'रिति हेतुहेतुमत्त्वनिदर्शनमुक्तं तदप्यर्थान्तरभूतयोर्युगपत्सतोस्तुलान्तयोयुज्यते, न तु विद्यमानाविद्यमानयोः क्षणयोर्योगपy 15 घटखपुष्पयोरिव, तथा नत्युन्नत्योश्च सत्त्वाद्यौगपद्यं स्यात् , अतोऽसमञ्जसता दृष्टान्तदान्तिकयोः, स्यान्मतं नाशोत्पत्त्योर्योगपद्ये सति सामञ्जस्याददोष इत्येतच्चायुक्तम् , नश्यतः सत्त्वे सहावस्थानमुत्पद्यमानेन, असत्त्वे तदवस्थमसमञ्जसत्वम् , तस्मादयुक्त उत्तरेण प्राच्यस्यापदेशः क्षणोऽस्यास्तीति क्षणिक इति,
पदविद्यमानत्वादित्याशयेन समाधत्ते-एवमपीति, पर्यायान्तरापेक्षयापि क्षणिक इत्यपदेशो न युक्त इत्यर्थः । कारणमाह-इतरा
भाव इति, एकस्याभावेऽपरस्य तद्वत्त्वेन व्यपदेशाभावादित्यर्थः । दृष्टान्तमाह-यथेति, न हि दण्डाभावे चैत्रो दण्डिकत्वेन 20 व्यपदिश्यते, अविद्यमानस्य सम्बन्धाभावादिति भावः । दार्टान्तिकमाह-एवमुत्पत्तिक्षणस्येति, उत्पत्तिक्षणे विनाशो नास्ति,
अतो विनाशवानुत्पत्तिक्षण इति न व्यपदिश्यते, विनाशक्षणेऽप्युत्पत्तिर्नास्ति तस्मान्न विनाशक्षण उत्पत्तिमानिति व्यपदिश्यते द्वयोरेकतरकालेऽन्यतरस्याभावात् , न हि चैत्रः खपुष्पवत्त्वेन व्यपदिश्यत इति भावः । तर्हि कथं व्यपदेशः स्यादित्यत्राह-यदा दण्ड इति, विद्यमानयोरेव खखामिनोस्तद्वत्त्वेन व्यपदेशः दण्डचैत्रयोः सतोरेव चैत्रो दण्डिकत्वेन व्यपदिश्यते, अयं वैधर्म्यदृष्टान्तो व्यपदेशाभावसाध्यतायामिति भावः । तथाऽत्र नास्तीत्याह-इह त्विति, उत्पत्तिविनाशक्षणयोरेकतरकालेऽन्यतरस्याभावान्न 25 विनाशक्षण उत्पत्तिक्षणवत्त्वेन व्यपदिश्यत इति भावः । तुलान्तनमनोन्नमननिदर्शनमपि न युक्तमित्याह-यदपि चेति ननूत्पादविनाशयोः परस्परकारणत्वे निदर्शनतयोपन्यस्ते नमनोन्नमने तुलान्तयोरयुक्ते, ते अपि तुलान्ताभ्यां व्यतिरिक्ते युगपद्विद्यमाने च, न तूत्पादविनाशौ व्यतिरिक्तौ युगपद्विद्यमानौ चेति कथं तन्निदर्शनमुत्पादविनाशयोयुज्यत इत्याह-यदपि च नाशोत्पादाविति, तस्मान्न दृष्टान्तदा न्तिकयोस्तुल्यताऽस्ति येन तयोस्तन्निदर्शनं स्यादिति भावः । ननूत्पादविनाशयोरपि नत्युन
त्योरिव योगपद्यमस्तीति निदर्शनं समञ्जसमेवेत्याशङ्कते-स्यान्मतमिति । उत्पादाश्रयवद्विनाशाश्रयस्य यदि सत्त्वं स्यात्तर्हि उत्पादेन 30 विनाशस्य सहावस्थानं स्यात् , असत्त्वे चायौगपद्यात्तन्निदर्शनमसमञ्जसमेवेति समाधत्ते-नश्यत इति, विनाशाश्रयस्येत्यर्थः । एवञ्च प्राच्येनोत्पादेन विनाशस्य क्षणिकत्वेन व्यपदेशो न सङ्गतिमङ्गतीत्याह-तस्मादयुक्त इति, यस्मान्नास्ति सहावस्थान
१सि.क्ष. छा. डे. दण्डिकताद्यापादनपेतास्था।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org