________________
क्षणिकशब्दार्थव्यवस्था] द्वादशारनयचक्रम्
१०९५ दण्डोऽस्यास्तीति दण्डिकः यथा चैत्रेण दण्डसम्बन्धिना स्वामिना दण्डेन स्वेन च विना दण्डिक इति शब्दो नार्थवान् भवत्येवं क्षणिकशब्दोऽपि क्षणेन खेन तद्वता चार्थेन स्वामिना विना नार्थवान् , मा भूत्सोऽनर्थक इति तस्य क्षणस्य स्वस्य दण्डस्येव चैत्रः, ठन्प्रत्ययान्तः स्वामी, तेन सह समवस्थातुं शीलं यस्य स द्रव्यार्थलक्षणोऽर्थो जैनेन्द्रव्युत्पादितोत्पादविनाशपर्यायार्थसहचारिस्थितद्रव्यार्थवद्भवितुमर्हति, इतरथा क्षणोऽस्यास्तीति क्षणिक इति न शब्दार्थो घटते, असाववस्थातृद्रव्याभिधायित्वे घटते ।
अत्राह
न, पर्यायविषय एव, तत्स्वामित्वोपपत्तेः द्विविधो हि क्षणः उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरम् , एवं निरन्तरयोः क्षणयोरुत्पत्तिक्षणानन्तरो विनाशक्षण एव तस्यास्तिपर्यायस्य पर्यायः तस्मात् क्षणिकशब्दः क्षणस्य क्षणान्तरापेक्षत्वादर्थवानिति न दोषः, एवमपि न युक्तोऽपदेशः, इतराभावे इतरस्यापि तथाभावात् , यथा दण्डाभावे चैत्रो दण्डिक इति 10 नोच्यते, एवं यदा दण्डो विद्यते चैत्रोऽपि तदाऽस्य तेन तद्वत्ताऽपदेश्यता स्यात्, इह तु यदोत्पत्तिक्षणः न तदा विनाशक्षणः यदा विनाशक्षणो न तदोत्पत्तिक्षण इतीतरकाले इतरस्यात्यन्तमसत्त्वात् प्राच्यापदेशो न युक्तः।।
(नेति) न, पर्यायविषय एव, तत्स्वामित्वोपपत्तेः पर्यायान्तरस्य स्वपर्यायान्तरं स्वामीत्यस्त्यस्तिमत्सम्बन्ध उपपद्यते तदर्थवाची तत्प्रत्ययः, तद्व्याचष्टे-द्विविधो हि क्षण इत्यादि, द्वैविध्यं-उत्पत्तिक्षणो विनाश-15 क्षणश्च, तदनन्तरमिति तस्य स्फुटीकरणम् , अनन्तरवचनमन्तरालावस्थानव्युदासार्थम् , नान्तराले किञ्चिदस्तीति, अस्यार्थस्य दर्शनार्थं तस्य ज्ञापकं प्रागुक्तं 'नाशोत्पादौ समं यद्व[नामो नामौ तुलान्तयो'रिति, एवं निरन्तरयोः क्षणयोर्योऽयमुत्पत्तिक्षणानन्तरो विनाशक्षणः, स चापकर्षकालपर्यन्तकालच्छेदेन बुद्ध्या विभज्यमानो यो विभागं न प्रयच्छति स एव तस्यास्तिपर्यायस्य पर्यायः, तस्मात् क्षणिकशब्दः क्षणस्य
माभूदिति। दण्डस्य यथा स्वामी चैत्रादिः, तेन सह चैत्रादेः समवस्थानस्वभावत्वमस्त्येवं क्षणस्यापि ठन्प्रत्ययान्तार्थः स्वामीति तेन 20 सह समवस्थानस्वभावेन द्रव्येण तद्वता भवितव्यम् , तथाविधं च जैनशासनप्रतिपादितमुत्पादविनाशपर्यायसहचारिस्थितद्रव्यमेव, तथाऽभ्युपगम एव क्षणिकशब्दार्थो युज्यते नान्यथेति भावः । ननु स्वस्य पर्यायस्य पर्यायान्तरमेव स्वामी, न तु द्रव्यम.येन द्रव्यार्थाभ्युपगमः स्यात् , तावतैवास्त्यस्तिमत्सम्बन्धस्योपपत्तिरित्याशङ्कते-नेति।क्षण उत्पादपर्यायोऽस्य विनाशपर्यायान्तरस्यास्तीति क्षणिक इत्यस्त्यस्तिमत्सम्बन्धे ठन्प्रत्ययस्योपपत्तेः पर्यायविषयमेव क्षणिकपदमित्याह-न पर्यायविषय एवेति। इममेव भावार्थ वर्णयतिद्विविधो हीति, उत्पत्तिक्षणो विनाशक्षण इति पौर्वापर्येण क्षणस्य द्वैविध्यम् , तदपि पौर्वापर्यमव्यवहितम् , तेन न तयोरन्तरालेड- 25 वस्थातृद्रव्यस्य सम्भवः, तस्मानान्तराले किञ्चिदस्तीति भावः। तत्रैव ज्ञापकं प्रागुदितं दर्शयति-नाशोत्पादाविति, तुलादण्डस्यान्तयोः नमनोन्नमनवत् समकालमुत्पादविनाशौ विज्ञेयावित्यर्थः । स्वाभिप्रायमाह-एवं निरन्तरयोरिति। अव्यवहितयोः क्षणयोः
क्षणानन्तरो विनाशक्षणः स कालस्यापकर्षरूपतो बुद्ध्या विभज्यमानस्य पर्यन्तभूतः यस्य विभागो न भवितुमर्हति तथाविधः स एव चास्तिमान् पर्यायः स्वपर्यायस्य, तथा च क्षणिकशब्दस्य क्षणानन्तरक्षण उत्पत्त्यनन्तरविनाश इत्यर्थः, तथा च क्षणस्य क्षणान्तरापेक्षत्वात् क्षणिकशब्दोऽर्थवानिति शङ्कितुरभिप्रायः। क्षणानन्तरक्षणस्य क्षणिक इति व्यपदेशो नोपपद्यते त
द्वा० न० १३ (१३८)
युग-30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org