________________
१०९४
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमनियमनयः वस्थास्वपि निष्ठितत्वात् कृतकं तद् वस्तु, घटादिवस्तुवदेव, ततश्च-कृतकत्वात् आरब्धमपि घटादिवस्तुवदेवेति हेतुहेतुमद्भावेनारम्भक्रियानिष्ठाः साधिता उपसंहृत्यैकत्वेनाह-एवं त इत्यादि-आरम्भक्रियानिष्ठाः पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियावत्त्वादन्तवत्-अन्त इवान्तवत् , यथाऽन्ते-निवृत्तिकाले क्रियाभवनं जन्म
आत्मलाभः, सा पूर्वनिर्वृत्तवस्तुनिबन्धना तथा प्रारम्भादिक्रियाः । B इतर आह
कुतः क्रिया क्षणिकत्वात् ? उक्तं हि-'क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया ॥ भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥' इति, अत्रोच्यते तिष्ठतु तावत् यदन्यत् , क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादभङ्गः शक्यते कर्तुम् क्षणिकशब्दस्य
अस्त्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात् , न हि क्षणिक10 शब्दः क्षणेन स्वेन तद्वता चार्थेन स्वामिना विनाऽर्थवान् , यथा चैत्रेण स्वामिना दण्डेन स्वेन
च विना दण्डिक इति शब्दो नार्थवान् इति तत्समवस्थातृद्रव्यार्थलक्षणार्थो भवितुमर्हति, इतरथा क्षणोऽस्यास्तीति क्षणिक इति न शब्दार्थो घटते।
(कुत इति) कुतः क्रिया क्षणिकत्वात्-अन्तेऽपि च क्रियात्वं नाभ्युपगम्यते मया, क्षणिकत्वादभावत्वात् प्रागुक्तविधिना, किमङ्ग ! पुनरारम्भकरणाद्यवस्थासु अवस्थितवस्त्वनभ्युपगमात्, उक्तं 15 हीत्यादिज्ञापकं-'क्षणिकाः सर्वसंस्काराः' इत्यादिश्लोकः प्राग्व्याख्यातार्थ इति न पुनर्व्याख्यायते, अत्रोच्यतेतिष्ठतु तावदित्यादि, यदन्य[त्-]द्रव्यार्थनयदर्शनस्योक्तक्षयोत्पादादिक्रियाऽभ्युपगमादि वस्तुव्यवस्थासिद्धिकरणं वा क्षणभङ्गाभावप्रतिपादनसमर्थम् , तत्तावदास्ताम् , किं तर्हि ? क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादस्य भङ्गः शक्यते कर्तुम् , कस्मात् ? क्षणिकशब्दस्य स्वस्वामिलक्षणात्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात् , तद्दर्शयति-न हि क्षणिकशब्द इत्यादि, क्षणोऽस्यास्तीति क्षणिकः, यथा 20 विद्यमानवस्तुनिबन्धनत्वं साधयति-एवं त इत्यादीति। पूर्वेति, प्राक् निर्वृत्तं यद्वस्तु तदाधारा आरंभक्रियानिष्ठाः, किया
वत्त्वात् , अन्तवत् , निवृत्तिकाले यथा विनशनक्रिया पूर्वनिवृत्तवस्तुनिबन्धना तथैवाऽऽरम्भादिक्रिया इति भावः । ननु निवृत्तिकालेऽपि वस्तुनः क्षणिकत्वेन तथाविधकालाभेदभवनाभावादभावपरम्पराघ्रातत्वेनासत्त्वान्नास्ति क्रिया, तस्मादसिद्धो हेतुरित्याशङ्कतेकुतः क्रियेति । व्याकरोति-अन्तेऽपि चेति, निवृत्तिकालेऽपि नास्ति क्रिया, क्षणिकत्वात् , अभावपरम्पराघ्रातत्वेनासत्त्वाच, तस्मात् प्रारम्भणकाले क्रियाकाले च का कथा क्रियाया इति भावः। एतद्विषय एव प्रागुक्तां कारिकां स्मारयति-क्षणिका इति। ननु 28 द्रव्यार्थवादिनयदर्शनेन विनाशोत्पादादिक्रियाभ्युपगमो वस्तुव्यवस्थासिद्धिश्च यस्मात् क्षणभङ्गो निवर्त्तते स तावदास्ताम् , क्षणिकशब्दार्थपर्यालोचनयाऽपि क्षणभङ्गवादो न सेत्स्यतीत्याह-तिष्ठतु तावदित्यादीति । क्षणोऽस्यास्तीति क्षणिक इति क्षणिकशब्दव्युत्पत्तिः, अत इनिठनौ' इति ठन्प्रत्ययः, 'ठस्येक' इति तस्येकादेशः, अस्येति षष्ठया वस्वामिभावसम्बन्धः प्रतीयते, यस्य क्षणः खं स खामी, एवञ्च क्षणिकशब्देन क्षणस्य स्वामी कश्चित् स्थितोऽर्थः प्रतीयते, स्थितार्थभावे तु तच्छब्दस्य न कोऽप्यभिधेयः स्यादित्याह
क्षणिकशब्दार्थति। कथं क्षणवादभङ्ग इत्यत्राह-क्षणिकशब्दस्येति,क्षणोऽस्यास्तीति क्षणिकः, षष्ठ्यर्थोऽस्त्यस्तिमत्सम्बन्धः,स 30 च स्वखामिभावरूपः, इदंशब्दवाच्योऽस्तिमान् स्वामी, क्षणोऽस्तित्ववान् खं, तद्वाचकः क्षणिकशब्दः, स च स्थितार्थाभावे न युज्यत
इति भावः । दण्डोऽस्यास्तीति दण्डिक इत्यत्र दण्ड : खं दण्डिकश्चैत्रादिः खामी, तयोरन्यतरेण विना दण्डिक इति न भवति तथा क्षणिक इत्यपि खं क्षणः खामी क्षणवान् तयोविना नार्थवानित्याह-क्षणोऽस्यास्तीतीति । तस्य सार्थकत्वं कथमित्यत्राह
१ सि० अभावत्यादितिनास्ति । २ सि. क्ष. छा० डे शब्देत्यादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org