________________
द्वादशो नियमनियमनयः
पूर्वनयमतापरितोषकारणमुत्तरनयोत्थानम्, उत्तरोत्तरसूक्ष्मेक्षिकया च पूर्वस्य दोषदर्शनात् स्वमतसौस्थित्याभिमानाचारम्भ इत्यत आह
अन्ते क्षयाद्यद्येवं ततो वस्तुवत् प्रसिद्ध्युपगमः कृतो भवति, इतरथा विनाशोत्पादयोरप्यभावः, प्रतिसन्धानाभावात् , स्थितस्यैव हि भवनमित्यभ्युपगमस्ते, वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमात् निष्ठितं तर्हि तत् , अन्तवत्त्वात्, घटादिवस्तुवत् , निष्ठितत्वात् । कृतकं ततश्चारब्धमपि, एवं ते पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियावत्त्वादन्तवत् , यथाऽन्ते क्रिया-भवनं सा पूर्वनिर्वृत्तवस्तुनिबंधना तथा प्रारम्भादिक्रियाः।
(अन्त इति) अन्ते क्षयाद्यद्येवं-यदि त्वयाऽन्ते क्षयदर्शनात् स्वरसेनैव क्षय एवादावप्यनुमीयते, ततः किं ? ततो वस्तुवत् प्रसिद्ध्युपगमः कृतो भवति-वस्तुनीव वस्तुवत् , यथा वस्तुनः प्रसिद्धस्य-लोकेस्थितस्य घटादेः क्षयो भवतीति प्रसिद्धिः, तथा त्वयाऽभ्युपगतमिति प्राप्तम् , विनाशस्योत्पादस्य च प्रसिद्ध- 10 वस्तुविषयत्वात् , इतरथा खरविषाणस्येव स्थित्यभावे विनाशोत्पादयोरप्यभावः, प्रतिसन्धानाभावात् , स्थितस्य-भवत एव हि भवनमिति-इत्थमभ्युपगमस्ते, तस्माद्वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमात्इत्यस्माद्धेतोर्भवत एवोत्पादविनाशप्रतिसन्धानात् व्यवस्थितं वस्तु सिद्धं नियतमुत्पादविनाशव्यपदेशभाग्भवतीत्येतन्नियमं नातिकामति, खपुष्पादिवैलक्षण्येनोपहितमतो वस्तुव्यवस्थासिद्ध्यपहितनियमानतिक्रमात् निश्चयेन स्थितं निष्ठितं-व्यवस्थितमिति गृहाण त्वद्वचनादेवेत्यत आह-निष्ठितं तर्हि तत् , अन्तवत्त्वात् , 15 घटादिवस्तुवदिति दृष्टान्तः, यथा मृत्पिण्डाद्यवस्थानामन्ते घटोऽस्त्येव, अवस्थित एवान्तवत् तथा मृल्लोष्टाद्य
Ammmwwwm
mmmmm
अस्यापि मतस्यासाधुता, क्षणोऽस्यास्तीति क्षणिक इति शब्दव्युत्पत्तौ ठन्प्रत्ययषष्ठीभ्यां सहभाविभावाभ्युपगमात्, अनिर्वहनीयत्वादअभावपरमार्थवस्तुत्वादसिद्ध्यादिभ्यः शून्यत्वमेव वस्तुन इति नियमनियमनयं व्याख्यातुं पूर्वनयमतेडपरितोषं दर्शयति-पूर्वनयमतेति, अपरितोष एवोत्तरनयोत्थाने कारणम् , अपरितोषश्च सूक्ष्मेक्षिकया विचारे क्रियमाणे पूर्वनयमते दोषदर्शनान्निरूप्यमाणखमते तदभावाभिमानाच्चैतन्नयारम्भ इति भावः । पूर्वनये दोषमुद्भावयति-अन्ते 20 क्षयादिति । अन्ते क्षयदर्शनादादौ स्वत एव क्षयोऽनुमीयते प्रदीपशिखावदिति हि तव मतम् , अत्र हेतुरन्ते क्षयदर्शनम् , तच्च दर्शनं लोके स्थितस्य वस्तुनो विषयम, स्थितं च वस्तु प्रकर्षेण सिद्धं प्रसिद्धमिति तथाविधदर्शनाभ्युपगमे प्रसिद्धः-स्थितेरप्यभ्यपगमः कृतो भवति, तथा च विनाश उत्पादश्च प्रसिद्धवस्तुविषयः, वस्तुनः स्थित्यभावे खरविषाणस्येवोत्पादविनाशयोरप्यभावः स्यादित्याहयदि त्वयेति । स्थित्यभावे हि यस्यैवोत्पादस्तस्यैव विनाश इति प्रतिसन्धानं न स्यादित्युत्पादविनाशाभावे हेतुमाह-प्रतिसन्धानाभावादिति । भवनव्यपदेशः सत्त्व एव घटतेऽन्यथा कुतोऽस्यात्यन्तभेदस्याअत्यन्तान्वयरहितस्य भवतीति भवन- 25 लक्षणेनालक्ष्यस्योपाख्येति स्वीकारात् त्वयापि स्थितस्य भवनमित्यभ्युपगतमित्याह-स्थितस्येति, अत एव प्रतिसन्धानं भवतीति भावः। एवञ्च वस्तुनो या व्यवस्था तस्याः सिद्ध्या उपहितो-व्याप्तो यो नियमः-खपुष्पादिवलक्षण्येन स्थित एवोत्पादविनाशभाग्भवतीति नियमस्तदनतिकमावस्तुनो निष्ठितत्वं त्वयाप्यभ्युपगतमेवेत्याह-तस्माद्वस्त्विति । वस्तु निष्ठितमन्तवत्त्वात्, घटादिवत्, यदन्तवत्तन्निष्ठितं यथा घटो मृत्पिण्डाद्यवस्थानामन्तेऽवस्थित एवैवं वस्त्वपि, यन्निष्ठितं तत्कृतकं कृतकञ्च यत्तदारब्धमपि घटादिवदेवेति वस्तुन आरम्भक्रियानिष्ठा हेतुहेतुमद्भावेन साधयति-निष्ठितंत हि तदिति। आरम्भक्रियानिष्ठानामेकहेतुना प्रथमतः 30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org