________________
१०९२
न्यायागमानुसारिणीव्याख्यासमेतम् [नियमोभयनयः एवास्ति उपयोगसद्भूतोऽऽर्थोऽस्येति पर्यायास्तिकः, तदुदाहरणमिन्द्र इत्यादि, इन्द्रोऽनिंद्रश्चन्द्रः, इदि परमैश्वर्ये, पारमैश्वर्यानुभवनकाल एवेन्द्रोऽन्यदाऽनिन्द्रः, इन्द्रोपयोगकाल एव वोपयोगेन्द्रः, तत्क्षणानन्तरमनिन्द्रः, तदुपरमात्, पुरन्दरादित्वस्य त्वनवकाश एव, क्षणिकत्वादुपयोगस्य तदर्थस्य च, तथा पूर्दारणकाले तदुप
योगे वा पुरन्दरः, अपुरन्दरोऽन्यदा, कस्मात् ? तद्भावस्यैव तद्भूतत्वात् , स एव भाव उपयोगीभूतः 5 पुरन्दराद्यन्यतमपर्यायः तत्क्षण एव च, नान्यदेति भावितार्थम् ।
शब्दार्थः को वेत्यत्रोच्यते
अत्र च प्रतिक्षणातिक्रमित्वाद्वस्तुनो बुद्धिस्थो योऽर्थः स शब्दार्थः, 'यो वाऽर्थो बुद्धिविषयः....................... कैश्चिदिष्यते ॥ ( ) इति, सन्तानवृत्तिश्च क्रमो
वाक्यार्थः, वाक्यं वर्णपदादिशब्दानामानुपूर्दोच्चारणम् , उपनिवन्धनमस्य तद्यथा-'इमाणं 10 भंते ! (जीवाभि० ३-१-७८) इत्यादि।
(अत्र चेति) अत्र च प्रतिक्षणातिक्रमित्वात् वस्तुनो बुद्धिस्थो योऽर्थः स शब्दार्थः क्षणे क्षणेऽन्यदेव च वस्तु उत्पद्योत्पद्यातिकामदपि बुद्धौ तिष्ठति, यस्तु क्षणो बुद्धिस्थः सोऽर्थः शब्दस्य, रूपं रसो गन्ध इत्यादि, एतत्संवाद्यागमान्तरं ज्ञापकमाह, नयवादानां जैनागमप्रभवत्वात् 'यो वाऽर्थो बुद्धिविषयः'
इत्यादिव्याख्यातार्थानुसारित्वान्न व्याख्यायते, कैश्चिदिष्यत इति, अस्यानागमोपयोगैवम्भूतस्य मतमित्यर्थः, 15 वाक्यार्थस्तर्हि कः ? उच्यते-सन्तानवृत्तिश्च क्रमो वाक्यार्थः-विज्ञानसन्ताने रूपादिबाह्यार्थसन्ताने च य
उत्पत्तिविनाशक्रमः स वाक्यार्थः, वाक्यं वर्णपदादिशब्दानामानुपूर्वोच्चारणम् , प्रतिस्खं जन्मनिरोधानुग्रहः क्रमः, मा मंस्थाः स्वमनीषिकयैवोच्यत इति जैनागमोऽप्येवमित्यत आह-उपनिबन्धनं यतोऽस्य निर्गमः, तद्यथा-'इमाणं भंते !' इत्यादिग्रन्थो गतार्थः, अशाश्वत[त्वे]न पर्यायाणां निर्देशात् ।
इति नयचक्रटीकायां एकादशोऽरः नियमोभयभङ्गः सम्पूर्णः ॥ 20 तदुदाहरणमिति, इदि परमैश्वर्ये, इन्दनादिन्द्रः परमैश्वर्यविशिष्टः, यदैवायं परमैश्वर्यमनुभवति तदैवायमिन्द्रः अन्यदा त्वनिन्द्र
एव, तदभावेऽपि यदीन्द्रः स्याद्धटादिरपीन्द्रः स्यात् , न चैवम् , एवमिन्द्रस्योपयोगो यदा स एवेन्द्रो वर्तते, इन्द्रोऽहमिति तदैवासाविन्द्रः, इन्द्रानुपयोगकाले त्वनिन्द्र एव, उपयोगस्य विरतत्वादिति भावः । इन्द्रोपयोगकाले च न पुरन्दरादित्वस्य सम्भवः, तदानीमुपयोगस्येन्द्रप्रकाशन एवोपक्षीणशक्तित्वात् , न वाऽन्यदा तस्यैवोपयोगस्य पुरन्दरप्रकाशकत्वम् , क्षणिकत्वात्तस्य, तद्विषयीभूतेन्द्रस्य
चेत्याह-पुरन्दरादित्वस्येति । एवं पूर्दारणकाल एवासौ पुरन्दरो नान्यदा, तदैव तस्य पूर्दारणोपयोगे सत्त्वात्, तदैव हि सः 25. पूर्दारणविज्ञानेन लक्षितो भवति, नान्यदेति भावः । हेतुमाह-तद्भावस्यैवेति, पूर्दारणकाल एवोपयोगः पुरन्दरत्वेन विषयीक्रियत इति सः पुरन्दरो भवति नान्यदेति भावः । अस्य नयमतेन शब्दवाच्यमाह-अत्र चेति । बुद्धिप्रतिभास्येवाऽऽकारः शब्दार्थो न वस्त्वर्थः, प्रतिक्षणविनश्वरत्वादित्याह-अत्र च प्रतिक्षणेति, बाह्यो ह्यर्थः प्रतिक्षणविनाशित्वादन्यान्यः, तथा बुद्धिरपि, एवञ्च बाह्यधारा विज्ञानधारा च यदा समीपमुपयाति स्वखहेतुसामर्थ्यात् तदा बाह्यार्थप्रतिबिम्बो बुद्धौ पतति, स एव
बुद्धिस्थ आकारः शब्दार्थः रूपमिति रस इति बुद्धिर्जायते तत्प्रतिबिंबितरूपाद्याकार एव शब्दार्थ इति भावः । तदुपष्टम्भकश्लोकं 30 प्रमाणयति-यो वार्थ इति । वाक्यार्थमाह-सन्तानवृत्तिश्चेति । वाक्यमाह-वाक्यमिति । अस्य नयस्य निर्गमे प्रमाणं जैनागमं दर्शयति-'इमाणं भंते' इति, जीवाभिगमसूत्रं पूर्वमेवोपन्यस्तं वर्णादिपर्यायाणां रयणप्रभादिपृथिव्यादीनाञ्च शाश्वताशाश्वतत्वव्यवस्थापकमिति विज्ञेयम् । नयसमाप्तिमाह-इतीति । । इति विजयलब्धिसूरिविरचिते विषमपदविवेचने नयचक्रस्य एकादशो नियमोभयभङ्गः समाप्तः॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org