________________
एवम्भूतदेशताऽस्य] द्वादशारनयचक्रम्
१०९१ एताभ्यामेव महोत्पादभङ्गाभ्यां सन्तानजाभ्यां क्षणिको सूक्ष्मोत्पादभङ्गावनुमेयौ, तद्यथा-अन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते, प्रदीपशिखावत् , तथा घटादिरपि, तथा बुद्धिरपि क्षणिकेति; अयञ्च नयः प्रतिक्षणमन्यो भवन्नेव न भवतीत्यभ्युपगच्छति, अतो नियमोभयं वाञ्छति, भावनिक्षेपविकल्पमनागमतो भावमुपयोगसद्भूतं बाह्यं रूपादि प्रतिपद्यते, उपयोगैवंभूतस्य नयस्यैकदेशत्वात् , पर्यायमूलनयभेदश्चैषः, परि समन्तादयते इति पर्यायाक्षरार्थ-5 त्वात् , स एवार्थोऽस्यास्तीति पर्यायार्थिकः, इन्द्रोऽनिन्द्रश्चन्द्रः, पुरन्दरादित्वस्य त्वनवकाश एव क्षणिकत्वात् , तद्भावस्यैव तद्भूतत्वादिति ।।
(एताभ्यामेवेति) एताभ्यामेव महोत्पादभङ्गाभ्यां सन्तानजाभ्यां क्षणिको सूक्ष्मोत्पादभङ्गावनुमेयौ, तद्यथा-अन्ते क्षयदर्शनादादौ क्षयोऽनुमीयते, प्रदीपशिखावत् , यथा प्रदीपशिखोत्पत्तिकालादारभ्य क्षीयमाणान्ते निवातेऽपि सर्वथा क्षीयते, सा च क्षणान्तरावस्थाने सति न क्षीयेत कदाचिदित्युक्तम् , 10 क्षीयते तु सर्वा, तस्मादादित आरभ्योपरतेत्यनुमीयते, प्रत्यक्षैव वा, तथा घटादिरपि जन्मनः प्रभृति क्षीयतेऽन्ते क्षयदर्शनादिति, तथा बुद्धिरपि क्षणिकेत्युक्तं वस्तु नयमतेन, अधुना नय उच्यते-अयञ्चेत्यादि, अयं नयः प्रतिक्षणमन्यो भवन्नेव[न] भवतीत्यभ्युपगच्छति, अतो नियमं विदधाति नियमयति चेति नियमोभयं वाञ्छति, निक्षेप चतुष्टये च भावनिक्षेपविकल्पमनागमतो भावमुपयोगं क्षायोपशमिकभावमौदयिक पारिणामिकं वा भावमुपयोगसद्भूतं विज्ञानलक्षितं बाह्यं रूपादि प्रतिपद्यते, उपयोगैवम्भूतस्य नयस्यैक- 15 देशत्वात् , आगमत उपयोगैवम्भूतादेर्विशिष्यते 'वंजण अत्थ तदुभयं एवम्भूतो विसेसेई' (अनु० १३९) इति सामान्यलक्षणात्, पर्यायमूलनयभेदश्चैषः-[परि]समन्तादयते पर्ययत इति पर्यायाक्षरार्थत्वात् , स
ननिष्ठोत्पादविनाशाभ्यां सूक्ष्मोत्पादविनाशावानुमेयावित्याह-एताभ्यामेवेति । अनुमानप्रकारमाह-तद्यथेति, घटादेहि अन्ते क्षयो दृश्यते स च प्रतिक्षणं क्षयमन्तरेण न सम्भवतीति कृत्वा क्षणे क्षणे विनाशसिद्धिर्घटादेः, यथा प्रदीपस्य शिखा जन्मत आरभ्यैव क्षणे क्षणे विनश्यन्ती पर्यन्ते वाय्वाद्यभावेऽपि सर्वथा विनश्यति तद्वदिति भावः। दृष्टान्तं घटयति-यथेति । 20 क्षणक्षयित्वं प्रत्यक्षसिद्धं किमुपपत्त्येत्याशयेनाह-प्रत्यक्षैव वेति । एवं सर्वे पदार्थाः क्षणक्षयिण इत्याह-तथा घटादिरपीति इदं बाह्यवस्सूपलक्षकम् । तथा बुद्धिरपीति । आन्तरं वस्त्वपि क्षणिकमिति भावः । कोऽसौ नय उच्यत इत्यत्राह-अयं नय इति । अयं नयो नियम-विशेषं रूपादिभावत्वेन विधत्तेऽभावत्वेन च नियमयतीति नियमोभयनय उच्यत इति भावः । सप्तविधमूलनयेषु क्वायमन्तर्भवतीत्यत्राह-निक्षेपचतुष्टये चेति । नामस्थापनाद्रव्यभावलक्षणनिक्षेपचतुष्टये योऽयं भावनिक्षेपः स आगमतो नोआगमतश्चेति द्विविधः, तत्रायं नोआगमतो भावमभ्युपैति भावः-उपयोगो नोआगमतो भावश्च ज्ञानम् स च 25 क्षायोपशमिक औदयिकः पारिणामिको वा, सोऽस्य नयस्य विषयः उपयोगसद्भूतबाह्यवस्त्वभ्युपगमात्, अयं हि विज्ञानेन लक्षितं विषयीभूतं बाह्य वस्तु क्षणिकमभ्युपैति, विज्ञानविषयताविशिष्टवस्तूनां क्षणिकत्वात् , भावेऽनागमत इति विशेषणादागमतो भावादेर्व्यवच्छेद इत्याह-आगमत उपयोगेति। 'वंजण' इति, यक्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवम्भूतमुच्यते, नयोऽप्युपचारादेवम्भूतः, व्यञ्जनं शब्दः, अर्थः-तदभिधेयवस्तुरूपः व्यञ्जनञ्चार्थश्च व्यञ्जनार्थौ तौ च तौ तदुभयञ्च व्यञ्जनार्थतदुभयम् , तद्विशेषयति नैयत्येन स्थापयति स नय एवम्भूतः, शब्दमर्थनार्थं शब्देन विशेषयति । अर्थों घटस्तदैव यदा 30 योषिन्मस्तकाद्यारूढो जलाहरणचेष्टावान् , नान्यदा, घटशब्दोऽपि चेष्टां कुर्वत एव वाचको नान्यस्यति व्यवस्थापयतीति भावः । नोआगमत उपयोगैवम्भूतनयोऽयं पर्यायार्थिकनयभेद इत्याह-पर्यायेति परि सामस्त्येनायते-गच्छति उत्पादं विनाशञ्चोपयातीति पर्यायः स एवार्थोऽस्यास्त्युपयोगसद्भूत इति पर्यायार्थिकः, उपयोगविषयताविशिष्टोऽर्थ इति भावः । एवंविधार्थे निदर्शनमाह
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org